सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१८५

विकिस्रोतः तः
← सूक्तं १०.१८४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१८५
सत्यधृतिर्वारुणिः
सूक्तं १०.१८६ →
दे. आदित्यः(स्वस्त्ययनम्)/अदितिः। गायत्री


महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥१॥
नहि तेषाममा चन नाध्वसु वारणेषु ।
ईशे रिपुरघशंसः ॥२॥
यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर्यच्छन्त्यजस्रम् ॥३॥


सायणभाष्यम्

' महि ' इति तृचं चतुस्त्रिंशं सूक्तं वरुणपुत्रस्य सत्यधृतेरार्षं गायत्रमादित्यदेवताकम् । तथा . चानुक्रान्तं ---- ‘ महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनं गायत्रं वा ' इति । धनलिप्सया प्रवसन्तं शिष्यमाचार्योऽनेन सूक्तेनाभिमन्त्रयते। सूत्र्यते हि -- महि त्रीणामित्यनुमन्त्र्यैवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते' (आश्व. गृ. ३. १०. ७-८) इति ।।


महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः ।

दु॒रा॒धर्षं॒ वरु॑णस्य ॥ १

महि॑ । त्री॒णाम् । अवः॑ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।

दुः॒ऽआ॒धर्ष॑म् । वरु॑णस्य ॥१

महि । त्रीणाम् । अवः । अस्तु । द्युक्षम् । मित्रस्य । अर्यम्णः ।

दुःऽआधर्षम् । वरुणस्य ॥१

“त्रीणां त्रयाणां "मित्रस्य "अर्यम्णः "वरुणस्य च “द्युक्षं दीप्तमत एव “दुराधर्षम् अन्यैर्धर्षितुं बाधितुमशक्यं "महि महत् "अवः रक्षणमस्माकम् "अस्तु ।' त्रीणामित्यपि छन्दसि दृश्यते (का. ७. १. ५३. १ ) इति वचनात् त्रयादेशाभावः। 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम्॥


न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ ।

ईशे॑ रि॒पुर॒घशं॑सः ॥ २

न॒हि । तेषा॑म् । अ॒मा । च॒न । न । अध्व॑ऽसु । वा॒र॒णेषु॑ ।

ईशे॑ । रि॒पुः । अ॒घऽशं॑सः ॥२

नहि । तेषाम् । अमा । चन । न । अध्वऽसु । वारणेषु ।

ईशे । रिपुः । अघऽशंसः ॥२

अमेति गृहनाम। "अमा “चन गृहेष्वपि "तेषां वरुणमित्रार्यम्णां तदनुगृहीतानां स्तोतॄणां वा अघशंसः अघमनर्थमाशंसमानः "रिपुः शत्रुः "नहि "ईशे न खलु हिंसितुमीष्टे ॥ ‘लोपस्त आत्मनेपदेषु' इति तलोपः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते ॥ तथा “अध्वसु मार्गेषु “वारणेषु यत्र पुरुषा निवार्यन्ते तेषु च स्थानेषु शत्रुर्निवारयितुं "न ईष्टे ॥


यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य ।

ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥ ३

यस्मै॑ । पु॒त्रासः॑ । अदि॑तेः । प्र । जी॒वसे॑ । मर्त्या॑य ।

ज्योतिः॑ । यच्छ॑न्ति । अज॑स्रम् ॥३

यस्मै । पुत्रासः । अदितेः । प्र । जीवसे । मर्त्याय ।

ज्योतिः । यच्छन्ति । अजस्रम् ॥३

“अदितेः अदीनाया देवमातुः "पुत्रासः पुत्रा मित्रादयः "यस्मै “मर्यार्य मनुष्याय स्तोत्रे “अजस्रम् अविच्छिन्नं "ज्योतिः तेजः "जीवसे जीवितुं “प्र “यच्छन्ति तस्य शत्रुर्नेश्वर इत्यर्थः ॥ ॥४३॥

टिप्पणी

पाष्ठौहे द्वे (ग्रामगेयः)

मित्र, वरुण एवं अर्यमा देवेषु समञ्जनेन अदितिदेव्याः आविर्भावः भवति, अयं कथनं अन्यासु ऋक्षु अपि उपलब्धः अस्ति। किन्तु अदित्या देव्याः एकं वैशिष्ट्यं - हूतिश्च प्रतिश्रुतिश्च, अयं पाष्ठौहे साम्नि एव प्रत्यक्षं भवति। अदितिः कर्णतः, श्रवणतः सम्बद्धा अस्ति, अयं वास्तुपुरुषस्य संदर्भे कथितमस्ति।
वास्तुपुरुषः

दिति उपरि टिप्पणी

अर्यमा उपरि संक्षिप्त टिप्पणी एवं संदर्भाः

द्रविणविस्पर्द्धसी द्वे (आरण्यकम्)

अग्निहोत्रे आहवनीयोपरि अग्न्युपस्थानम् -- महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य । नहि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशंसः । ते हि पुत्रासो अदितेश्छर्दिर्यच्छन्त्यजस्रम् । वि दाशुषे वार्याणीति प्राजापत्येन तृचेनोपतिष्ठते १०। यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत । स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः कल्पः आप.श्रौ.सू. ६.१७.११

१०.१८५.१ महि त्रीणाम् इति

महित्रीणाम् । आदित्यदेवत्यस्तृचो गायत्रः । पथि स्वस्त्ययनम् । महि महत् त्रीणां त्रयाणामादित्यानाम् अवोस्तु अवनमवः पालनं भवतु । कथंभूतं पालनम् । द्युक्षम् द्युतिमन्ति द्रव्याणि यस्मिन्पालने क्षियन्ति निवसन्ति तत् द्युक्षम् । किंनाम्नामादित्यानाम् । मित्रस्य अर्यम्णः वरुणस्य च । - वा.सं.(उ.भा.) ३.३१

१०.१८५.२ नहि तेषां इति

नहि तेषाम् । नहि कदाचित्तेषामादित्यपालितानां यजमानानाम् अमाचन । अमाशब्दो गृहवचनः । चनशब्दोऽप्यर्थे । गृहेऽपि सताम् । नाध्वसु वारणेषु । नच मार्गेषु सता मम । कथंभूतेषु वारणेषु । यत्रावस्थिताश्चौराः पथिकान्वारयन्ति ते वारणाः पन्थानः । एतदुक्तं भवति । न गृहस्थितानां नापि गृहाद्बहिः । - वा.सं.(उ.भा.) ३.३२

१०.१८५.३ ते हि पुत्रासो इति

ते हि पुत्रासः । कस्मात् पुनरादित्यगुप्तानां गृहे बहिश्च शत्रुर्नेष्टे, यतस्ते पुत्रा अदितेः । एवं तावदेकम् । इदमपरम् । प्रजीवसे मर्त्याय ज्योतिर्यच्छन्ति । प्रयच्छन्ति ददति । कस्मै । मर्त्याय मनुष्याय । किं प्रयच्छन्ति ज्योतिः । अजस्रम् अनुपक्षीणम् । किमर्थं ज्योतिः प्रयच्छन्ति । जीवसे चिरंजीवनाय - वा.सं.(उ.भा.) ३.३३

MS.1.5.4: 1.5.11: KS.7. 2,9;

बृहदुपस्थानम् - नाध्वसु वारणेष्वित्येति ह वा अध्वानो वारणा य इमेऽन्तरेण द्यावापृथिवी एतान्ह्येतदुपतिष्ठते तस्मादाह नाध्वसु वारणेष्विति - माश २.३.४.३७

महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ...प्राजापत्येन तृचेनोपतिष्ठते । यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत ।। आप.श्रौ. ६.७.१०

MC.1.6.2.11; MG. I. 5-4; Rvidh. 4.23.3. P:

महि त्रीणामित्येकपातिन्यः शांश्रौ १२.२.१४

AG. 3.10.7; Svidh. 2.1.5. Cf. BrhD. 8.86; Rvidh. 2.31.6. Designated as mahitram (se. suktam) VaDh.26.5; BrhD. 8.86.


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८५&oldid=401720" इत्यस्माद् प्रतिप्राप्तम्