ऋग्वेदः सूक्तं १०.१४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.१३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४
वैवस्वतो यमः
सूक्तं १०.१५ →
दे. यमः, ६ पित्रथर्वभृगुसोमाः, ७-९ लिङ्गोक्तदेवताः, पितरो वा, १०-१२ श्वानौ। त्रिष्टुप्, १३, १४, १६ अनुष्टुप्, १५ बृहती


परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥१॥
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥२॥
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।
याँश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥३॥
इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥४॥
अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।
विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥५॥
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥६॥
प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः ।
उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥७॥
सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥८॥
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥९॥
अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अथा पितॄन्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥१०॥
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ ।
ताभ्यामेनं परि देहि राजन्स्वस्ति चास्मा अनमीवं च धेहि ॥११॥
उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१२॥
यमाय सोमं सुनुत यमाय जुहुता हविः ।
यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१३॥
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥१४॥
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥१५॥
त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत् ।
त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥१६॥

सायणभाष्यम्

‘परेयिवांसम् ' इति षोडशर्चं चतुर्दशं सूक्तं विवस्वतः पुत्रस्य यमस्यार्षम् ।' अङ्गिरसो नः पितरो नवग्वाः' इति षष्ठ्या अङ्गिरःपित्रथर्वभृगुलक्षणा लिङ्गोक्ता देवताः । ‘ प्रेहि' इत्याद्यास्तिस्रो लिङ्गोक्तदेवताकाः पितृदेवताका वा । ' अति द्रव सारमेयौ ' इत्यादिकस्तृचः सरमापुत्रौ यौ श्वानौ परलोकमार्गमभितः स्थितौ तद्देवताकः । शिष्टा यमदेवत्याः । ‘ यमाय सोमम्' इति त्रयोदश्याद्या अनुष्टुभः । ‘ यमाय मधुमत्तमम्' इत्येषा बृहती। आदितो द्वादश त्रिष्टुभः । तथा चानुक्रान्तं-- ‘परेयिवांसं षोळश यमो यामं षष्ठी लिङ्गोक्तदेवता पराश्च तिस्रः पित्र्या वा तृचः श्वभ्यां परा अनुष्टुभो बृहत्युपान्त्या' इति । गतः सूक्तविनियोगः । महापितृयज्ञे यमयागाख्या याज्या। सूत्रितं च - ‘ इमं यम प्रस्तरमा हि सीदेति द्वे परेयिवांसं प्रवतो महीरनु' (आश्व. श्रौ. २. १९) इति ॥


प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒ः पन्था॑मनुपस्पशा॒नम् ।

वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥१

प॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवतः॑ । म॒हीः । अनु॑ । ब॒हुऽभ्यः॑ । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् ।

वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । दु॒व॒स्य॒ ॥१

परेयिऽवांसम् । प्रऽवतः । महीः । अनु । बहुऽभ्यः । पन्थाम् । अनुऽपस्पशानम् ।

वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य ॥१

हे मदीयान्तरात्मन् यजमान वा त्वं "राजानं पितॄणां स्वामिनं "यमं "हविषा पुरोडाशादिना “दुवस्य परिचर । कीदृशम् । “प्रवतः प्रकृष्टकर्मवतो भूलोकवर्तिभोगसाधनं पुण्यमनुष्ठितवतः पुरुषान् “महीः तत्तद्भोगोचितभूप्रदेशविशेषान् "अनु “परेयिवांसं क्रमेण मरणादूर्ध्वं प्रापितवन्तं तथा “बहुभ्यः स्वर्गार्थिभ्यः पुण्यकृद्भ्यः पुण्यकृतार्थे “पन्थां स्वर्गस्योचितं मार्गम् “अनुपस्पशानम् अबाधमानम् । पापिन एव पुरुषान् स्वर्गमार्गबाधेन नरकं प्रापयति न तु पुण्यकृत इत्यर्थः । "वैवस्वतं विवस्वतः सूर्यस्य पुत्रं "जनानां पापिनां “संगमनं गन्तव्यस्थानरूपम् ।।


य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ ।

यत्रा॑ न॒ः पूर्वे॑ पि॒तर॑ः परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥२

य॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑तिः । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ ।

यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥२

यमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिः । अपऽभर्तवै । ऊं इति ।

यत्र । नः । पूर्वे । पितरः । पराऽईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥२

“प्रथमः सर्वेषां मुख्यः "यमः "नः अस्माकं प्रजानां “गातुं शुभाशुभनिमित्तं "विवेद जानाति । "एषा “गव्यूतिः "न "अपभर्तवा "उ । अतिशयज्ञानयोगात् यमस्य न केनचिदपहर्तुमपनेतुं शक्यत इत्यर्थः । "यत्र यस्मिन् मार्गे “नः अस्माकं “पूर्वे “पितरः “परेयुः "एना अनेन मार्गेण गच्छन्तः: “जज्ञानाः जाताः सर्वे "स्वाः स्वभूताः "पथ्याः स्वकर्ममार्गभूता गतीः "अनु गच्छन्ति ।


मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः ।

याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥३

मात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रःऽभिः । बृह॒स्पतिः॑ । ऋक्व॑ऽभिः । व॒वृ॒धा॒नः ।

यान् । च॒ । दे॒वाः । व॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धया॑ । अ॒न्ये । म॒द॒न्ति॒ ॥३

मातली । कव्यैः । यमः । अङ्गिरःऽभिः । बृहस्पतिः । ऋक्वऽभिः । ववृधानः ।

यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति ॥३

“मातली । मातलिरिन्द्रस्य सारथिः । तद्वानिन्द्रो मातली । स च "कव्यैः कव्यभाग्भिः पितृभिः सह “ववृधानः वर्धमानो भवति । "यमः च "अङ्गिरोभिः पितृविशेषैः सह वर्धमानो भवति । - - - । तत्र "देवाः इन्द्रादयः “यांश्च कव्यभागादीन् पितॄन् “ववृधुः वर्धयन्ति "ये “च कव्यभागादयः पितरः "देवान् इन्द्रादीन् वर्धयन्ति तेषां मध्ये "अन्ये इन्द्रादयः "स्वाहा "मदन्ति स्वाहाकारेण हृष्यन्ति । "अन्ये पितरः "स्वधया स्वधाकारेण हृष्यन्ति ।।


महापितृयज्ञे यमस्य ‘इमं यम' इत्यादिके द्वे अनुवाक्ये। ‘इमं यम प्रस्तरमा हि सीदेति द्वे' ( आश्व. श्रौ. २. १९) इति हि सूत्रितम् । सैषाग्निमारुतेऽपि धाय्या। सूत्रं पूर्वमेवोदाहृतम् ॥

इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑ः संविदा॒नः ।

आ त्वा॒ मन्त्रा॑ः कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥४

इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।

आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥४

इमम् । यम । प्रऽस्तरम् । आ । हि । सीद । अङ्गिरःऽभिः । पितृऽभिः । सम्ऽविदानः ।

आ । त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व ॥४

हे "यम “अङ्गिरोभिः एतन्नामकैः "पितृभिः "संविदानः ऐकमत्यं गतस्त्वम् "इमं "प्रस्तरं विस्तीर्णं यज्ञविशेषम् “आ “सीद आगत्योपविश । “हि यस्मादेवं तस्मात् "कविशस्ताः विद्वद्भिर्ऋत्विग्भिः प्रयुक्ताः "मन्त्राः “त्वा त्वाम् "आ “वहन्तु । हे "राजन् “एना एतेन "हविषा तुष्टः "मादयस्व यजमानं हर्षय ॥


अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।

विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥५

अङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ ।

विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥५

अङ्गिरःऽभिः । आ । गहि । यज्ञियेभिः । यम । वैरूपैः । इह । मादयस्व ।

विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य ॥५

हे "यम "वैरूपैः विविधरूपयुक्तैर्वैरूपसामप्रियैर्वा "यज्ञियेभिः यज्ञयोग्यैः "अङ्गिरोभिः सह “आ “गहि आगच्छ । आगत्य च “इह अस्मिन् यज्ञे "मादयस्व यजमानं हर्षय । "यः विवस्वान् “ते तव “पिता अस्ति “अस्मिन् "यज्ञे तं “विवस्वन्तं "हुवे आह्वयामि । स चास्तीर्णे “बर्हिषि “आ “निषद्य उपविश्य यजमानं हर्षयतु ॥ ॥ १४ ॥


अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑ः ।

तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥६

अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ ।

तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥६

अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः ।

तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥६

“अङ्गिरसः अङ्गिरोनामकाः "अथर्वाणः अथर्वनामकाः "भृगवः भृगुनामकाश्च "नः अस्माकं “पितरः "नवग्वाः अभिनवगमनयुक्ताः । सदा नूतनवत्प्रीतिजनका इत्यर्थः। ते च "सोम्यासः । सोममर्हन्तीति सोम्याः । "यज्ञियानां यज्ञार्हाणां "तेषां "सुमतौ अनुग्रहयुक्तायां बुद्धौ “वयं "स्याम सर्वदा तिष्ठेम । "अपि च "सौमनसे "भद्रे सौमनसस्य कारणे कल्याणे फले स्याम सर्वदा तिष्ठेम ॥


सत्रमध्ये दीक्षितमरणे ‘ प्रेहि' इत्याद्याः पञ्चर्चस्तृतीयावर्जिता होत्रा शंसनीयाः । सूत्रितं च -' प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयामुद्धरेत् ' ( आश्व. श्रौ. ६. १०) इति ॥

प्रेहि॒ प्रेहि॑ प॒थिभि॑ः पू॒र्व्येभि॒र्यत्रा॑ न॒ः पूर्वे॑ पि॒तर॑ः परे॒युः ।

उ॒भा राजा॑ना स्व॒धया॒ मद॑न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ॥७

प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभिः॑ । पू॒र्व्येभिः॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः ।

उ॒भा । राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥७

प्र । इहि । प्र । इहि । पथिऽभिः । पूर्व्येभिः । यत्र । नः । पूर्वे । पितरः । पराऽईयुः ।

उभा । राजाना । स्वधया । मदन्ता । यमम् । पश्यासि । वरुणम् । च । देवम् ॥७

"यत्र यस्मिन् स्थाने "नः अस्माकं "पूर्वे पुरातनाः "पितरः पितामहादयः "परेयुः "पूर्व्येभिः पूर्वस्मिन् काले भवैः । अनादिकालप्रवृत्तैरित्यर्थः। "पथिभिः मार्गैः हे मत्पितः तत्स्थानं “प्रेहि प्रगच्छ शीघ्रं गच्छ। गत्वा च "स्वधया अमृतान्नेन “मदन्ता मदन्तौ तृप्यन्तौ "राजाना राजानौ “उभा उभौ "यमं "देवं द्योतमानं "वरुणं "च "पश्यासि पश्य ।।


सं ग॑च्छस्व पि॒तृभि॒ः सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।

हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चा॑ः ॥८

सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभिः॑ । सम् । य॒मेन॑ । इ॒ष्टा॒पू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् ।

हि॒त्वाय॑ । अ॒व॒द्यम् । पुनः॑ । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा॑ । सु॒ऽवर्चाः॑ ॥८

सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । इष्टापूर्तेन । परमे । विऽओमन् ।

हित्वाय । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । गच्छस्व । तन्वा । सुऽवर्चाः ॥८

हे मदीय पितः ततस्त्वं “परमे उत्कृष्टे "व्योमन् व्योमनि स्वर्गाख्ये स्थाने स्वभूतैः "पितृभिः सह "सं "गच्छस्व । “इष्टापूर्तेन श्रौतस्मार्तदानफलेन “सं गच्छस्व । तत इष्टापूर्तेन सहागम्य "अवद्यं पापं “हित्वा परित्यज्य “अस्तं व्रियमानाख्यं गृहम् “एहि आगच्छ। ततः "सुवर्चाः। तृतीयार्थे प्रथमा । सुवर्चसा शोभनदीप्तियुक्तेन “तन्वा स्वशरीरेण “सं "गच्छस्व ॥


पैतृमेधिके कर्मणि श्मशानायतनं प्रोक्षति ‘ अपेत वीत' इति । सूत्रितं च – गर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षत्यपेत वीत वि च सर्पतातः' (आश्व.गृ. ४.२.१०) इति॥

अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् ।

अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥९

अप॑ । इ॒त॒ । वि । इ॒त॒ । वि । च॒ । स॒र्प॒त॒ । अतः॑ । अ॒स्मै । ए॒तम् । पि॒तरः॑ । लो॒कम् । अ॒क्र॒न् ।

अहः॑ऽभिः । अ॒त्ऽभिः । अ॒क्तुऽभिः॑ । विऽअ॑क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥९

अप । इत । वि । इत । वि । च । सर्पत । अतः । अस्मै । एतम् । पितरः । लोकम् । अक्रन् ।

अहःऽभिः । अत्ऽभिः । अक्तुऽभिः । विऽअक्तम् । यमः । ददाति । अवऽसानम् । अस्मै ॥९

श्मशाने पूर्वं स्थिता हे पिशाचादयः "अतः अस्मात् प्रसृज्यमानदहनस्थानात् "अपेत अपगच्छत। “वीत विशेषेण गच्छत । "वि सर्पत "च । इदं स्थानं परित्यज्य नानाभावेन दूरतरं देशं गच्छतेत्यर्थः । "पितरः "अस्मै मृतयजमानस्यार्थाय “एतं “लोकम् इदं दहनस्थानम् "अक्रन् । यमस्याज्ञयान्वकुर्वन् । "यमः अपि “अहोभिः दिवसैः "अद्भिः अभ्युक्षणोदकैः "अक्तुभिः रात्रिभिः “व्यक्तं संगतम् । शुद्धिनिमित्तैः कालोदकादिभिः शोधितमित्यर्थः । "अवसानं दहनस्थानम् "अस्मै मृतयजमानस्यार्थाय "ददाति दत्तवान् ॥


अनुस्तरण्या वृक्कौ पार्श्वयोराम्रफलाकृती। तावुद्धृत्य प्रेतस्य हस्तयोर्निदधाति ‘अति द्रव सारमेयौ' इति द्वाभ्याम् । सूत्रितं च -- वृक्कावुद्धृत्य पाण्योरादध्यादति द्रव सारमेयौ श्वानौ ' (आश्व. गृ. ४. ३. २०) इति ।।

अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।

अथा॑ पि॒तॄन्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥१०

अति॑ । द्र॒व॒ । सा॒र॒मे॒यौ । श्वानौ॑ । च॒तुः॒ऽअ॒क्षौ । श॒बलौ॑ । सा॒धुना॑ । प॒था ।

अथ॑ । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । उप॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥१०

अति । द्रव । सारमेयौ । श्वानौ । चतुःऽअक्षौ । शबलौ । साधुना । पथा ।

अथ । पितॄन् । सुऽविदत्रान् । उप । इहि । यमेन । ये । सधऽमादम् । मदन्ति ॥१०

हे अग्ने "साधुना “पथा समीचीनेन मार्गेण “श्वानौ उभौ "अति "द्रव अतिक्रम्य गच्छ । यमसंबन्धिनौ यौ श्वानौ प्रेतस्य बाधकौ तौ परित्यज्य समीचीनेन मार्गेण प्रेतं नयेत्यर्थः । कीदृशौ श्वानौ । “सारमेयौ । सरमा नाम काचित् प्रसिद्धा देवशुनी। तस्याः पुत्रौ "चतुरक्षौ उपरिभागे पुनरप्यक्षिद्वयं ययोस्तादृशौ । "अथ शोभनमार्गेण गमनानन्तरं "ये पितरः "यमेन “सधमादं सहर्षं "मदन्ति प्राप्नुवन्ति तान् "सुविदत्रान् सुष्ठ्वभिज्ञान् "पितॄन् "उपेहि उपगच्छ॥ ॥ १५ ॥


यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ ।

ताभ्या॑मेनं॒ परि॑ देहि राजन्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥११

यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तुः॒ऽअ॒क्षौ । प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑ । नृ॒ऽचक्ष॑सौ ।

ताभ्या॑म् । ए॒न॒म् । परि॑ । दे॒हि॒ । रा॒ज॒न् । स्व॒स्ति । च॒ । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥११

यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःऽअक्षौ । पथिरक्षी इति पथिऽरक्षी । नृऽचक्षसौ ।

ताभ्याम् । एनम् । परि । देहि । राजन् । स्वस्ति । च । अस्मै । अनमीवम् । च । धेहि ॥११

हे "राजन् हे "यम "ते त्वदीयौ "यौ “श्वानौ विद्येते "ताभ्यां श्वभ्यां हे राजन् यम “एनं प्रेतं “परि “देहि रक्षार्थं प्रयच्छ। कीदृशौ श्वानौ। "रक्षितारौ यमगृहस्य रक्षकौ "चतुरक्षौ अक्षिचतुष्टययुक्तौ "पथिरक्षी मार्गस्य रक्षकौ "नृचक्षसौ मनुष्यैः ख्याप्यमानौ । श्रुतिस्मृतिपुराणाभिज्ञाः पुरुषास्तौ प्रख्यापयन्ति । ताभ्यां श्वभ्यां दत्त्वा “अस्मै प्रेताय "स्वस्ति “च क्षेममपि “अनमीवं “च रोगाभावमपि “धेहि संपादय ॥


उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ ।

ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥१२

उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒तः॒ । जना॑न् । अनु॑ ।

तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुनः॑ । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥१२

उरुऽनसौ । असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु ।

तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥१२

“यमस्य संबन्धिनौ “दूतौ श्वानौ "जनाँ “अनु प्राणिनो लक्षीकृत्य सर्वत्र “चरतः । कीदृशौ । “उरूणसौ दीर्धनासिकायुक्तौ "असुतृपौ परकीयान् प्राणान् स्वीकृत्य तैस्तृप्यन्तौ "उदुम्बलौ उरुबलौ विस्तीर्णबलौ। "तौ उभौ दूतौ "सूर्याय "दृशये सूर्यस्य दर्शनार्थम् "अद्य दिने “इह कर्मणि “भद्रम् “असुं समीचीनं प्राणं "पुनः "अस्मभ्यं "दाताम् अदत्ताम् ॥


य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।

य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥१३

य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः ।

य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥१३

यमाय । सोमम् । सुनुत । यमाय । जुहुत । हविः ।

यमम् । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥१३

हे ऋत्विजः "यमाय यमदेवतार्थं "सोमं "सुनुत । लतात्मकं सोममभिषुणुत । तथा यमार्थं “हविः "जुहुत । अग्निर्दूतो यस्मिन् यज्ञे सोऽयम् "अग्निदूतः। अग्नेर्दूतत्वमन्यत्राम्नातम् - अग्निर्देवानां दूत आसीत् ' (तै. सं. २. ५. ८. ५) इति । "अरंकृतः बहुभिर्देव्यैरलंकाररूपैर्युक्तः तादृशः "यज्ञः "यमं “ह यममेव गच्छति ।।


य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत ।

स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायु॒ः प्र जी॒वसे॑ ॥१४

य॒माय॑ । घृ॒तऽव॑त् । ह॒विः । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ ।

सः । नः॒ । दे॒वेषु॑ । आ । य॒म॒त् । दी॒र्घम् । आयुः॑ । प्र । जी॒वसे॑ ॥१४

यमाय । घृतऽवत् । हविः । जुहोत । प्र । च । तिष्ठत ।

सः । नः । देवेषु । आ । यमत् । दीर्घम् । आयुः । प्र । जीवसे ॥१४

हे ऋत्विजः यूयं "यमाय “घृतवत् आज्येन संयुक्तं "हविः पुरोडाशादिकं "जुहोत जुहुत । “प्र “तिष्ठत “च यमं यूयमुपतिष्ठध्वं च । “देवेषु मध्ये "सः यमो देवः “प्र “जीवसे प्रकृष्टजीवनार्थं “नः अस्माकं “दीर्घमायुः “आ “यमत् प्रयच्छतु ॥


य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन ।

इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्य॒ः पूर्वे॑भ्यः पथि॒कृद्भ्य॑ः ॥१५

य॒माय॑ । मधु॑मत्ऽतमम् । राज्ञे॑ । ह॒व्यम् । जु॒हो॒त॒न॒ ।

इ॒दम् । नमः॑ । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेभ्यः॑ । पूर्वे॑भ्यः । प॒थि॒कृत्ऽभ्यः॑ ॥१५

यमाय । मधुमत्ऽतमम् । राज्ञे । हव्यम् । जुहोतन ।

इदम् । नमः । ऋषिऽभ्यः । पूर्वऽजेभ्यः । पूर्वेभ्यः । पथिकृत्ऽभ्यः ॥१५

हे ऋत्विजः "यमाय "राज्ञे "मधुमत्तमम् अतिशयेन मधुरं "हव्यं पुरोडाशादिकं हविः “जुहोतन जुहुत । “पूर्वजेभ्यः सृष्ट्यावादावुत्पन्नेभ्यः अत एव “पूर्वेभ्यः अस्मत्तः पूर्वभाविभ्यः “पथिकृद्भ्यः शोभनमार्गकारिभ्यः “ऋषिभ्यः "इदं प्रत्यक्षं यथा भवति तथा “नमः अस्तु ॥


त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् ।

त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥१६

त्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् ।

त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥१६

त्रिऽकद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् ।

त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आऽहिता ॥१६

“त्रिकद्रुकेभिः । द्वितीयार्थे तृतीयैषा । त्रिकद्रुकान् । ज्योतिर्गौरायुरिति त्रयो यागविशेषास्त्रिकद्रुका उच्यन्ते । तान् प्रत्यङ्गभावाय संरक्षणार्थं च "पतति । यमस्तान् प्राप्नोति । षट्संख्याकाः “उर्वीः भूमीः कृताकृतप्रत्यवेक्षणाय प्राप्नोति । ताश्चोर्व्यः शाखान्तरमन्त्रे समाम्नाताः- ‘ षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चापश्चौषधयश्चोर्क् च सूनृता च' इति । “एकमित् एकमेव "बृहत् महत् जगत् यमश्च प्रतिपालनीयः प्राप्नोति । किंच यानि त्रिष्टुब्गायत्र्यादीनि "छन्दांसि सन्ति "सर्वा “ता सर्वाणि तानि च्छन्दांसि “यमे "आहिता आहितानि ऋत्विग्भिः स्तुतित्वेनावस्थितानि ॥ ॥ १६ ॥

[सम्पाद्यताम्]

१०.१४.१

इह प्रजाः प्रयच्छन्स संगृहीत्वा प्रयाति च । ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम् ।। बृहद्देवता २.४८ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४&oldid=208013" इत्यस्माद् पुनः प्राप्तिः