ऋग्वेदः सूक्तं १०.१७०
← सूक्तं १०.१६९ | ऋग्वेदः - मण्डल १० सूक्तं १०.१७० विभ्राट् सौर्यः। |
सूक्तं १०.१७१ → |
दे. सूर्यः । जगती, ४ आस्तारपङ्क्तिः । |
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥१॥
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् ।
अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥२॥
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥३॥
विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥४॥
सायणभाष्यम्
' विभ्राट् ' इति चतुर्ऋचमेकोनविंशं सूक्तं सूर्यपुत्रस्य विभ्राट्संज्ञकस्यार्षं सूर्यदेवत्यम् । आदौ तिस्रो जगत्यः । द्व्यष्टकद्विद्वादशकवत्यास्तारपङ्क्तिश्चतुर्थी । तथा चानुक्रान्तं - ' विभ्राड्विभ्राट् सौर्यः सौर्यं जागतमास्तारपङ्क्त्यन्तम् ' इति । विषुवति निष्केवल्य आद्यस्तृचः स्तोत्रियः । सूत्रितं च --' विभ्राड्बृहत्पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. ८. ६) इति । वाजपेयेऽतिरिक्तोक्थस्य विभ्राडित्येषा शस्त्रे याज्या । सूत्र्यते हि -' विभ्राड्बृहत्पिबतु सोम्यं मध्विति याज्या तस्य गवां शतानाम् ' ( आश्व. श्रौ. ९.९) इति ।।
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥ १
वि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽह्रुतम् ।
वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥१
विऽभ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञऽपतौ । अविऽह्रुतम् ।
वातऽजूतः । यः । अभिऽरक्षति । त्मना । प्रऽजाः । पुपोष । पुरुधा । वि । राजति ॥१
“विभ्राट् विभ्राजमानो विशेषेण दीप्यमानः सूर्यः “बृहत् महत् परिवृढं “सोम्यं सोममयं “मधु “पिबतु । किं कुर्वन् । “यज्ञपतौ यजमाने “अविह्रुतम् अकुटिलम् “आयुः दधत्कुर्वन् । “यः सूर्यः “वातजूतः वातेन महावायुना प्रेर्यमाणः सन् “त्मना आत्मना स्वयमेव “अभिरक्षति सर्वं जगदभिपश्यन् पालयति । राशिचक्रस्य वायुप्रेर्यत्वात् सूर्यस्यापि तत्प्रेर्यत्यम् । स सूर्यः “प्रजाः “पुपोष वृष्ट्यादिप्रदानेन पोषयति “पुरुधा बहुधा “वि “राजति विशेषेण दीप्यते च ।।
वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥ २
वि॒ऽभ्राट् । बृ॒हत् । सुऽभृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑न् । दि॒वः । ध॒रुणे॑ । स॒त्यम् । अर्पि॑तम् ।
अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योतिः॑ । ज॒ज्ञे॒ । अ॒सु॒र॒ऽहा । स॒प॒त्न॒ऽहा ॥२
विऽभ्राट् । बृहत् । सुऽभृतम् । वाजऽसातमम् । धर्मन् । दिवः । धरुणे । सत्यम् । अर्पितम् ।
अमित्रऽहा । वृत्रऽहा । दस्युहन्ऽतमम् । ज्योतिः । जज्ञे । असुरऽहा । सपत्नऽहा ॥२
“विभ्राट् विभ्राजमानं “बृहत् प्रौढं “सुभृतं सुपुष्टं “वाजसातमं वाजस्यान्नस्य बलस्य वा दातृतमं “धर्मन् धर्मणि वायुना धारयितव्ये “दिवः द्युलोकस्य “धरुणे धारके सूर्यमण्डले “अर्पितं निक्षिप्तं “सत्यम् अविनश्वरम् “अमित्रहा अमित्राणामप्रियाणां हन्तृ “वृत्रहा वृत्राणामावृण्वतां हन्तृ “दस्युहंतमं दस्यूनामुपक्षपयितॄणां हन्तृतमम् “असुरहा असुराणां क्षेप्तॄणां घातकं “सपत्नहा सपत्नानां सहजशत्रूणामपि घातकमीदृग्भूतं “ज्योतिः सौरं तेजः “जज्ञे प्रादुर्भवति ।।
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥ ३
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् ।
वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥३
इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्ऽतमम् । विश्वऽजित् । धनऽजित् । उच्यते । बृहत् ।
विश्वऽभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥३
“इदं सौरं तेजः “श्रेष्ठं प्रशस्यतमं “ज्योतिषाम् अन्येषां ग्रहनक्षत्रादीनामपि “ज्योतिः प्रकाशकमत एव “उत्तमम् उत्कृष्टं “विश्वजित् विश्वस्य सर्वस्य जेतृ 'धनजित् धनस्य च जेतृ “बृहत् प्रभूतम् “उच्यते । एवंगुणविशिष्टमिति सर्वैरभिधीयते । अपि च “विश्वभ्राट् विश्वस्य प्रकाशयिता “भ्राजः भ्राजमानः “महि महान् “सूर्यः “दृशे दर्शनाय “उरु विस्तीर्णं “सहः तमसोऽभिभवितृ “अच्युतं च्युतिरहितमविनाशम् “ओजः तेजोरूपं बलं “पप्रथे विस्तारयति ।।
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥ ४
वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥४
विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।
येन । इमा । विश्वा । भुवनानि । आऽभृता । विश्वऽकर्मणा । विश्वदेव्यऽवता ॥४
हे सूर्य “ज्योतिषा तेजसा “स्वः सर्वं जगत् “विभ्राजन् विभ्राजयन् “दिवः संबन्धि “रोचनं रोचमानं स्थानम् “अगच्छः प्राप्नोः । “विश्वकर्मणा सर्वव्यापारहेतुना “विश्वदेव्यावता । विश्वेषां देवानां हितो यागादिर्विश्वदेव्यः । तद्वता “येन सौरेण तेजसा “इमा इमानि परिदृश्यमानानि “विश्वा सर्वाणि “भुवनानि उदकानि भौमानि “आभृता घर्मकाल आभृतानि भवन्ति । यद्वा । सर्वाणि भूतजातान्याभृता समन्ताद्भृतानि पोषितानि भवन्ति । तेन ज्योतिषा इत्यन्वयः ।। ।। २८ ।।
टिप्पणी
१०.१७०.१ विभ्राड्बृहत् पिबतु इति
द्र. महादिवाकीर्त्यं साम
सर्वमेधस्य तृतीयेऽहनि विनियोगः - वा.सं. ३३.३० (महीधरभाष्यम्)
विषुवत्कालः -- विभ्राड् बृहत् पिबतु सोम्यम् मध्व् इति स्तोत्रियस् तृचो विश्व भ्राड् भ्राजो महि सूर्यो दृश इति विवान् भ्राजिष्मान्त् सूर्यवान् । तद् एतस्य अह्नो रूपम् । - कौशीतकिब्राह्मणम् २५.५
मण्डल १० | ||||
---|---|---|---|---|