सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/द्वितीयादशतिः/महादिवाकीर्त्यानि(विभ्राट्)

विकिस्रोतः तः
महादिवाकीर्त्यानि
महादिवाकीर्त्यानि


विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥ १४५३ ॥ ऋ. १०.१७०.१
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितं ।
अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ १४५४ ॥
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतं ॥ १४५५ ॥


९. महादिवाकीर्त्यानि ।। इन्द्रः । जगती । सूर्यः ।।

विभ्राट्बृहत्पिबतुसोम्यंमधु ।। आयुर्दधद्यज्ञपतावविह्रुतम् ।। वातजूतोयोअभिरक्षतित्मना ।। प्रजाᳲपिपर्तिबहुधाविराजति ।। श्रीः ।। विभ्राट्बृ- हत्सुभृतंवाजसातमम् ।। धर्मंदिवोधरुणेसत्यमर्पितम् ।। अमित्रहावृत्रहादस्युहन्तमम् ।। ज्योतिर्जज्ञेअसुरहासपत्नहा ।। श्रीः ।। इदꣲश्रेष्ठंज्योतिषांज्योतिरुत्तमम् ।। विश्वजिद्धनजिदुच्यतेबृहत् ।। विश्वभ्राड्भ्राजोमहिसूर्योदृशे ।। उरुपप्रथेसहओजोअच्युतम् ।।

दी. ३७. उत् ८. मा. ११. ज. ।।४८।।



महादिवाकीर्त्यानि (विभ्राट् बृहत् )

महादिवाकीर्त्यानि (तवाहं सोम रारण)

महादिवाकीर्त्यानि (बण्महाँ असि)

महादिवाकीर्त्यानि (इन्द्रमिद्देवता)

महादिवाकीर्त्यानि (श्रायन्तइव सूर्यं)

[सम्पाद्यताम्]

टिप्पणी

अस्य साम्नः गानम् महादिवाकीर्त्यम् आरण्यकेन सार्द्धं भवति। आर्षेयकल्प (पृ. १२९) अनुसारेण- महादिवाकीर्त्यं पिबत्विति पृष्ठहोमे विशेषः।

विषुवान् उपरि संदर्भाः

दिवाकीर्त्यम् उपरि संदर्भाः