"ऋग्वेदः सूक्तं १०.१८" इत्यस्य संस्करणे भेदः

Jump to navigation Jump to search
()
()
प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥
 
“इमे “जीवाः जीवन्तः पुरुषाः "मृतैः पित्रादिभिः । तेभ्य इत्यर्थः । “वि “आ “अववृत्रन् व्यावृत्ता भवन्तु । एते न म्रियन्तामिति भावः । किंच "अद्य अस्मिन् दिने "नः अस्माकमशौचे विसृष्टे "देवहूतिः देवानामाह्वानं यत्र स देवहूतिः पितृमेधाख्यो यज्ञः "भद्रा कल्याणः "अभूत् भवतु । तत उत्तरं वयं "प्राञ्चः प्राङ्मुखाञ्चनाः "अगाम गच्छेम । प्रत्यञ्च इति भावः। "नृतये नर्तनाय कर्मणि गात्रविक्षेपाय । स्वकर्मानुष्ठानायेति भावः। "हसाय हसनाय पुत्रादिभिः सह क्रीडनाय । कीदृशा वयम्। "द्राघीय "आयुः "प्रतरं "दधानाः ॥
 
 
शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥
 
अनया जीवरक्षार्थं पाषाणं परिधिरूपेण स्थापयन्ति । "जीवेभ्यः जीवद्भ्यः पुत्रपौत्रादिभ्यस्तेषां रक्षणार्थमेवं "परिधिं मृत्योः परिधानभूतं पाषाणं "दधामि निदधामि । ततः "एषां जीवतां मध्ये “अपरः अन्यः “एतम् इमम् "अर्थम् । अर्तेरिदं रूपम् । गन्तव्यं मरणाख्यं मार्गं "नु क्षिप्रं "मा “गात् मा गच्छतु । एतदर्थं परिधिं स्थापयामीति संबन्धः। किंच "पुरूचीः बह्वञ्चना बहुगमनाः "शतं “शरदः एतत्संख्याकान् वर्षान् "जीवन्तु स्वस्वप्राणान् धारयन्तु । तथा "पर्वतेन शिलोच्चयेन "मृत्युं सर्वेषां मारकमेतन्नामकम् "अन्तः दधताम् अन्तर्हितं कुर्वन्तु । यथा नागच्छति तथा कुर्वतामित्यर्थः॥
 
 
 
यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥
 
“यथा येन प्रकारेण "अहानि अहोरात्रात्मकानि दिनानि "अनुपूर्वं पूर्वपूर्वमनुक्रमेण "भवन्ति परिवर्तन्ते । "यथा च “ऋतवः वसन्तादयः “ऋतुभिः सह "साधु शोभनमविपर्यासेन "यन्ति गच्छन्ति । "यथा च “पूर्वं पूर्वकालीनं पितरम् "अपरः अर्वाक्कालीनः पुत्रः "न "जहाति न परित्यजति पूर्वमरणेन । “एव "एवं तेनैवोक्तप्रकारेण हे “धातः सर्वेषां धारयितरेतन्नामक देव “एषाम् अस्मत्कुलीनानां जीवानाम् "आयूंषि जीवनानि “कल्पय समर्थय। कुर्वित्यर्थः ॥ ॥ २६ ॥
 
 
 
इह । त्वष्टा । सुऽजनिमा । सऽजोषाः । दीर्घम् । आयुः । करति । जीवसे । वः ॥
 
हे मृतस्य स्वजनाः पुत्रपौत्रादयः "जरसं जरां "वृणानाः संभजमाना यूयम् "आयुः जीवनम् “आ “रोहत अधितिष्ठत । “अनुपूर्वम् आनुपूर्व्येण । अव्ययीभावः । पूर्वो ज्येष्ठः । ज्येष्ठानुपूर्व्या “यतमानाः प्रयत्नं कुर्वन्तो यूयं "यति “स्थ यत्संख्याका भवथ । यच्छब्दाच्छान्दसो डतिः । “सुजनिमा शोभनजननः “त्वष्टा एतन्नामको देवः "सजोषाः भवद्भिः संगतः सन् "इह अस्मिन् कर्मणि प्रवृत्तानां “वः युष्माकं “जीवसे जीवनाय “दीर्घं प्रभूतम् “आयुः "करति करोतु ॥
 
 
अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥
 
“अविधवाः । धवः पतिः । अविगतपतिकाः । जीवद्भर्तृका इत्यर्थः । "सुपत्नीः शोभनपतिकाः "इमाः "नारीः नार्यः "आञ्जनेन सर्वतोऽञ्जनसाधनेन "सर्पिषा घृतेन अक्तनेत्राः सत्यः “सं "विशन्तु स्वगृहान् प्रविशन्तु । तथा “अनश्रवः अश्रुवर्जिता अरुदत्यः "अनमीवाः । अमीवा रोगः। तद्वर्जिताः। मानसदुःखवर्जिता इत्यर्थः। "सुरत्नाः शोभनधनसहिताः "जनयः। जनयन्त्यपत्यमिति जनयो भार्याः । ताः "अग्रे सर्वेषां प्रथमत एव “योनिं गृहम् “आ “रोहन्तु आगच्छन्तु ॥
 
 
देवारादिकः प्रेतपत्नीम् ‘उदीर्ष्व नारि ' इत्यनया भर्तृसकाशादुत्थापयेत् । सूत्रितं च--- ‘तामुत्थापयेद्देवरः पतिस्थानीयोऽन्तेवासी जरद्दासो वोदीर्ष्व नार्यभि जीवलोकम्' (आश्व. गृ. ४. २.१८) इति ॥
 
उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।
हस्तऽग्राभस्य । दिधिषोः । तव । इदम् । पत्युः । जनिऽत्वम् । अभि । सम् । बभूथ ॥
 
हे "नारि मृतस्य पत्नि "जीवलोकं जीवानां पुत्रपौत्रादीनां लोकं स्थानं गृहमभिलक्ष्य "उदीर्ष्व अस्मात् स्थानादुत्तिष्ठ। ईर गतौ' आदादिकः । "गतासुम् अपक्रान्तप्राणम् "एतं पतिम् "उप “शेषे तस्य समीपे स्वपिषि । तस्मात्त्वम् “एहि आगच्छ यस्मात्त्वं "हस्तग्राभस्य पाणिग्राहं कुर्वतः “दिधिषोः गर्भस्य निधातुः "तव अस्य “पत्युः संबन्धादागतम् “इदं "जनित्वं जायात्वमभिलक्ष्य “सं “बभूथ संभूतासि अनुमरणनिश्चयमकार्षीः तस्मादागच्छ ॥
 
 
क्षत्रियस्य ‘धनुर्हस्तात्' इत्यनया धनुः प्रहरेत् । सूत्रितं च---‘धनुर्हस्तादाददानो मृतस्येति धनुः' (आश्व. गृ. ४.२.२०) इति ।
 
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।
अत्र । एव । त्वम् । इह । वयम् । सुऽवीराः । विश्वाः । स्पृधः । अभिऽमातीः । जयेम ॥
 
“मृतस्य क्षत्रियस्य “हस्तात् "धनुः “आददानः । किमर्थम् । "अस्मे अस्माकं "क्षत्राय प्रजापालनसमर्थाय बलाय “वर्चसे तेजसे “बलाय सेनालक्षणाय च धनुराददानोऽहं ब्रवीमीति शेषः। किमिति । “त्वम् "अत्रैव अस्मिन् स्थान एव भव “वयं च “इह अस्मिँल्लोके "सुवीराः सुपुत्रयुक्ता भवन्तः "विश्वाः सर्वान् अभिमातीः अभिमन्यमानान् "स्पृधः संघर्षयितॄन् बाधकान् शत्रून् “जयेम सहेमहि ॥
 
 
दीक्षितमरणे उप सर्प मातरम्' इत्याद्याश्चतस्रः शंसनीयाः । सूत्रितं च- उप सर्प मातरं भूमिमेतामिति चतस्रः सोम एकेभ्यः' ( आश्व. श्रौ. ६. १०) इति । 'उप सर्प' इत्यनया संचितान्यस्थीनि गते निदध्युः (आश्व. गृ. ४, ५, ५)॥
 
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवां॑ ।
ऊर्णऽम्रदाः । युवतिः । दक्षिणाऽवते । एषा । त्वा । पातु । निःऽऋतेः । उपऽस्थात् ॥
 
“मातरं मातृभूतां "भूमिम् अस्माभिर्भूमौ निधीयमानस्त्वम् "उप "सर्प उपगच्छ । अनुप्रविशेत्यर्थः । कीदृशीम् । "उरुव्यचसं बहुव्याप्तिकां “पृथिवीं विस्तीर्णां "सुशेवां सुसुखाम्। सर्वेषां सुखदात्रीमित्यर्थः। तामुपगच्छ । "युवतिः यौवनान्विता स्त्रीरूपेयं भूमिः "दक्षिणावते ऋत्विग्भ्यो देयत्वेन धनवते यजमानाय “ऊर्णम्रदाः । ऊर्णेव ऊर्जास्तुक इव मृद्वी भवति । सुकुमारा भवति । न बाधयित्रीत्यर्थः । स "एषा पृथिवी “निर्ऋतेः मृत्युदेवतायाः "उपस्थात् समीपस्थानात् “त्वा त्वामस्थिरूपं यजमानं "पातु रक्षतु ॥ ॥ २७ ॥
 
 
‘उच्छ्वञ्चस्व' इत्येतया पांसूनवकिरेत् । सूत्र्यते हि- उत्तरया पासूनवकिरेत्' ( आश्व. गृ. ४. ५. ६) इति ॥
 
उच्छ्वं॑चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवंच॒ना ।
 
माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि ॥
 
हे पृथिवि “उच्छ्वञ्चस्व । ऊर्ध्वंगतोच्छ्वासमेनं कुरु । अधस्तान्मा कृथा इत्यर्थः । किंच “मा “नि “बाधथाः मा संपीडय । तथा “अस्मै यजमानार्थं सूपायना शोभनोपगमना सूपचारिका भवेत्यर्थः । “सूपवञ्चना। उपवञ्चनं प्रलम्भनम् । शोभनप्रलम्भा सुप्रतिष्ठा “भव । अपि च "माता “पुत्रम् आत्मीयं बालकं “सिचा वस्त्रान्तेन "यथा आच्छादयति तद्वद्धे भूमि “एनम् अस्थिरूपं यजमानं त्वम् “अभि “ऊर्णुहि आभिमुख्येनाच्छादय ॥
 
 
ते । गृहासः । घृतऽश्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥
 
पांसुभिः प्रच्छाद्यैनां पठन्ति । "उच्छ्वञ्चमाना अस्थिकुम्भमवष्टभ्योर्ध्वं गच्छन्ती “पृथिवी "सु “तिष्ठतु प्रतिष्ठिता भवतु । किंच “सहस्रं सहस्रसंख्याकाः “मितः प्रक्षिप्ताः ॥ मिनोतेरौणादिके कर्मणि क्विपि तुगागमः । ततो जस् । यद्वा । सहस्रम् । तृतीयार्थे प्रथमा । मित इति निष्ठान्तं रूपम् । व्यत्ययेन बहुवचनस्यैकवचनम् । स्वरो वृषादित्वाद्द्रष्टव्यः ॥ सहस्रेण संमिता बहुसंख्याकाः । पार्थिवाः पांसवः “उप “श्रयन्ताम् । एनमुपसेवन्ताम् । संपरिवार्यं तिष्ठन्त्वित्यर्थः । हिरवधारणे । तथा “ते पांसवोऽस्मै “गृहासः गृहा भवन्तः “घृतश्चुतः घृतस्योदकस्य सर्पिषो वा क्षारयितारः “भवन्तु । “अत्र अस्मिँल्लोके “विश्वाहा सर्वेष्वहःसु सर्वदा “अस्मै अस्य “शरणाः “सन्तु आश्रयभूता भवन्तु ॥
 
 
‘उत्तै स्तभ्नामि' इति कपालेनास्थीन्यपिदध्यात्। सूत्रितं च- उत्ते स्तभ्नामीति कपालेनापिधाय' (आश्व. गृ. ४. ५. ८) इति ॥
 
उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षं ।
एताम् । स्थूणाम् । पितरः । धारयन्तु । ते । अत्र । यमः । सदना । ते । मिनोतु ॥
 
हे अस्थिकुम्भ “त्वत्परि । परिशब्दयोगे पञ्चमी । तवोपरि “ते त्वदीयेन कपालेन “पृथिवीम् “उत् “स्तभ्नामि प्रतिबध्नामि । यथा पृथिवी तवोपरि मा गच्छति तथापिदधामीत्यर्थः। “इमं “लोग कपाललक्षणं लोष्टं “निदधत् उपरि स्थापयन् “अहं “मो “रिषं मा हिंसिषम्। किंच “एतां मया निहितां “स्थूणां “ते त्वदीयां पृथिव्या धारयित्रीं कपाललक्षणां “पितरः “धारयन्तु निश्चलां कुर्वन्तु । ततः "ते त्वदीये अस्मिन् स्थाने “यमः पितृपतिः सदनानि स्थानानि “मिनोतु परिच्छिनत्तु । करोत्वित्यर्थः ।।
 
 
प्रतीचीम् । जग्रभ । वाचम् । अश्वम् । रशनया । यथा ॥
 
अनया प्रजापतिः प्रार्थ्यते । हे प्रजापते प्रतीचीने प्रतिपूज्ये अहनि तदुपलक्षिते संवत्सरात्मके मां संकुसुकमृषिं आ दधुः निहितवंतः सर्वे देवाः । किमिव । इष्वाः बाणस्य पर्णमिव पक्षमिव । पक्षं यथा बाणस्य मूले स्थापयंति तद्वज्जगन्मूले त्वयि मां स्थापितवंतः । अतो मदीयां प्रतीचीं प्रतिपूज्यां वाचं स्तुतिरूपां जग्रभ गृहाण । कथमित्युच्यते । अश्वं आशुगामिनं हयं रशनया रज्ज्वा यथा गृह्णंति तद्वत्कर्णाभ्यां मत्कृतां स्तुतिं गृहाणेत्यर्थः ।
 
}}
 
३५,८९६

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/161058" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः