ऋग्वेदः सूक्तं १०.९३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.९२ ऋग्वेदः - मण्डल १०
सूक्तं १०.९३
तान्वः पार्थ्यः
सूक्तं १०.९४ →
दे. विश्वे देवाः। प्रस्तारपङ्क्तिः, २,३, १३ अनुष्टुप्, ९ अक्षरैः पङ्क्तिः, ११ न्यङ्कुसारिणी, १५ पुरस्ताद्बृहती।


महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः ।
तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥१॥
यज्ञेयज्ञे स मर्त्यो देवान्सपर्यति ।
यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥२॥
विश्वेषामिरज्यवो देवानां वार्महः ।
विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥३॥
ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा ।
कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥४॥
उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या ।
सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥५॥
उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् ।
महः स राय एषतेऽति धन्वेव दुरिता ॥६॥
उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः ।
ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥७॥
ऋभुरृभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना ।
दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥८॥
कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् ।
सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥९॥
ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः ।
पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥१०॥
एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये ।
सदा पाह्यभिष्टये मेदतां वेदता वसो ॥११॥
एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् ।
संवननं नाश्व्यं तष्टेवानपच्युतम् ॥१२॥
वावर्त येषां राया युक्तैषां हिरण्ययी ।
नेमधिता न पौंस्या वृथेव विष्टान्ता ॥१३॥
प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु ।
ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥१४॥
अधीन्न्वत्र सप्ततिं च सप्त च ।
सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥१५॥


सायणभाष्यम्

‘महि' इति पञ्चदशर्चं तृतीयं सूक्तम् । तान्वो नाम पृथोः पुत्र ऋषिः । द्वितीयातृतीये त्रयोदशी चेति तिस्रोऽनुष्टुभः। नवम्यक्षरसंख्यया पङ्क्तिर्न पादैः । एकादशी न्यङ्कुसारिण्यष्टकद्वादशकद्व्यष्टकवती । पञ्चदशी पुरस्ताद्बृहत्याद्यद्वादशकत्र्यष्टका । शिष्टा नव प्रस्तारपङ्क्तिच्छन्दस्काः । आद्यौ जागतौ द्वौ गायत्रौ सा प्रस्तारपङ्तिःिष । विश्वे देवा देवता। तथा चानुक्रान्तं - महि तान्वः पार्थः प्रस्तारपाङ्क्तं पुरस्ताद्बृहत्यन्तं त्रयोदश्युपाद्ये चानुष्टुभो नवम्यक्षरैः पङ्क्तिरेकादशी न्यङ्कुसारिणी' इति । गतो विनियोगः ॥


महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।

तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्न॑ः पातं शू॒षणि॑ ॥१

महि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ ।

तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥१

महि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः ।

तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥१

हे “द्यावापृथिवी द्यावापृथिव्यौ युवा “महि अत्यन्तं यथा भवति तथा “उर्वी विस्तीर्णे “भूतं भवतम् । किंच “यह्वी महत्यौ “रोदसी द्यावापृथिव्यौ “नारी “न स्त्रियाविव “नः अस्माकं “सदं सदा भवतम् । किंच युवां “शूषणि “नः अस्माकं शत्रुबले युष्मदीयैः “एभिः पालनैः “पातं रक्षतम् । किंच युष्मदीयैः “तेभिः तैः पालनैः “नः अस्माकं “सह्यसः अतिशयेनास्मानभिभवितुः शत्रोरपि “पातं रक्षतम् ॥


य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्स॑पर्यति ।

यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥२

य॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ ।

यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥२

यज्ञेऽयज्ञे । सः । मर्त्यः । देवान् । सपर्यति ।

यः । सुम्नैः । दीर्घश्रुत्ऽतमः । आऽविवासाति । एनान् ॥२

“स “मर्त्यः मनुष्यः “यज्ञेयज्ञे सर्वेषु यज्ञेषु “देवान् सर्वान् “सपर्यति परिचरति “यः “दीर्घश्रुत्तमः अतिशयेन दीर्घस्य बहोः शास्त्रस्य श्रोता यो मनुष्यः "सुम्नैः सुखकरैर्हविर्भिः “एनान् देवान् “आविवासाति परिचरति । असुखकरैर्हविर्भिः कृतमपि कर्म समर्थं न भवतीत्यर्थः ॥


विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।

विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञिया॑ः ॥३

विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः ।

विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥३

विश्वेषाम् । इरज्यवः । देवानाम् । वाः । महः ।

विश्वे । हि । विश्वऽमहसः । विश्वे । यज्ञेषु । यज्ञियाः ॥३

हे “विश्वेषामिरज्यवः भुवनानामीश्वराः "देवानां द्योतनादिगुणयुक्तानां भवतां “महः महत् “वाः वरणीयं धनं विद्यत इति शेषः । तदस्मभ्यं दत्तेति भावः । किंच "विश्वे सर्वे यूयं “विश्वमहसः व्याप्ततेजस्काः । किंच “विश्वे यूयं “यज्ञेषु “यज्ञियाः यष्टव्याः ॥


ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा ।

कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुत॑ः पू॒षणो॒ भग॑ः ॥४

ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा ।

कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥४

ते । घ । राजानः । अमृतस्य । मन्द्राः । अर्यमा । मित्रः । वरुणः । परिऽज्मा ।

कत् । रुद्रः । नृणाम् । स्तुतः । मरुतः । पूषणः । भगः ॥४

“अर्यमा देवः “मित्रः च “परिज्मा सर्वतोगामी सर्वत्राप्रतिहतगतिः “वरुणः अन्यो देवजनश्चर्त्विग्भिः “स्तुतः “रुद्रः च “पूषणः सर्वस्य पोषयितारो “मरुतः च “भगः च एते देवाः “मन्द्राः सर्वैः स्तुत्याः सन्तः “नृणां मनुष्याणां “कत् सुखं प्रयच्छतेति शेषः । “ते सर्वे “अमृतस्य अमृतसदृशस्य हविषः “राजानः “घ ईश्वराः खलु ॥


उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।

सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्य॑ः ॥५

उ॒त । नः॒ । नक्त॑म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । सूर्या॒मासा॑ । सद॑नाय । स॒ऽध॒न्या॑ ।

सचा॑ । यत् । सादि॑ । ए॒षा॒म् । अहिः॑ । बु॒ध्नेषु॑ । बु॒ध्न्यः॑ ॥५

उत । नः । नक्तम् । अपाम् । वृषण्वसू इति वृषण्ऽवसू । सूर्यामासा । सदनाय । सऽधन्या ।

सचा । यत् । सादि । एषाम् । अहिः । बुध्नेषु । बुध्न्यः ॥५

“उत अपि च हे “वृषण्वसू वर्षणधनावश्विनौ युवाम् “अपाम् उदकानां संबन्धिनौ “सधन्या सधन्यौ समानधनौ “सूर्यमासा सूर्याचन्द्रमसौ “बुध्नेषु अन्तरिक्षेषु निवासस्थानेषु मेघेषु “यत् यः “अहिर्बुध्न्यः देवः “सादि सीदति तिष्ठति “एषाम् एभिः “सचा सह युवां “नक्तं रात्रावहनि चोरुष्यतमिति वक्ष्यमाणेन संबन्धः ॥ ॥ २६ ॥


उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् ।

म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥६

उ॒त । नः॒ । दे॒वौ । अ॒श्विना॑ । शु॒भः । पती॒ इति॑ । धाम॑ऽभिः । मि॒त्रावरु॑णौ । उ॒रु॒ष्य॒ता॒म् ।

म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । अति॑ । धन्व॑ऽइव । दुः॒ऽइ॒ता ॥६

उत । नः । देवौ । अश्विना । शुभः । पती इति । धामऽभिः । मित्रावरुणौ । उरुष्यताम् ।

महः । सः । रायः । आ । ईषते । अति । धन्वऽइव । दुःऽइता ॥६

“उत अपि च “शुभस्पती शुभस्योदकस्य पती “अश्विना अश्विनौ “देवौ “नः अस्मान् “धामभिः आत्मीयैः शरीरैः “उरुष्यतां रक्षताम् । किंच “मित्रावरुणौ आत्मीयैः शरीरैरुरुष्यतां रक्षताम् । यं यजमानं पुरुषममी देवा रक्षन्ति “सः “महः महान्ति “रायः धनानि “एषते आभिमुख्येन गच्छति प्राप्नोति । किंच “दुरिता दुरितानि शीघ्रम् “अति अतिगन्तातिक्रान्ता च भवति । तत्र दृष्टान्तः । “धन्वेव । यथा पथिको निरुदकान् देशानतिक्रामति तद्वदित्यर्थः ॥


उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भग॑ः ।

ऋ॒भुर्वाज॑ ऋभुक्षण॒ः परि॑ज्मा विश्ववेदसः ॥७

उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना॑ । विश्वे॑ । दे॒वासः॑ । रथः॒पतिः॑ । भगः॑ ।

ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्ष॒णः॒ । परि॑ऽज्मा । वि॒श्व॒ऽवे॒द॒सः॒ ॥७

उत । नः । रुद्रा । चित् । मृळताम् । अश्विना । विश्वे । देवासः । रथःपतिः । भगः ।

ऋभुः । वाजः । ऋभुक्षणः । परिऽज्मा । विश्वऽवेदसः ॥७

“उत “चित् अपि च "रुद्रा रुद्रपुत्रौ “अश्विना अश्विनौ “नः अस्मान् “मृळतां सुखयताम् । किंच “रथस्पतिः रथस्य पतिः पूषा “ऋभुः “वाजः अन्नवान् “भगः च “परिज्मा परितो गन्ता वायुश्चेति “विश्वे सर्वे “देवासः देवाः सुखयन्तु । हे “विश्ववेदसः विश्ववेदाः सर्वप्रज्ञाः सर्वधना वा हे "ऋभुक्षणः महान्तो ब्रह्मादयो देवा यूयं सुखयत ॥


ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।

दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥८

ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ ।

दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥८

ऋभुः । ऋभुक्षाः । ऋभुः । विधतः । मदः । आ । ते । हरी इति । जूजुवानस्य । वाजिना ।

दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः ॥८

“ऋभुक्षाः महानिन्द्रः “ऋभुः यज्ञेन भाति । किंच “विधतः त्वां परिचरतो यजमानस्य “मदः हर्षोऽपि “ऋभुः यज्ञेन भाति । हे इन्द्र “आ “जूजुवानस्य यागं प्रति शीघ्रमागच्छतः “ते तव “हरी अश्वावपि “वाजिना वाजिनौ बलवन्तौ । किंच “यस्य इन्द्रस्य संबन्धि “साम “चित् गीयमानं सामापि “दुष्टरं रक्षोभिरप्रापणीयम् । एषः “यज्ञः “मानुषः मनुष्यसाधारणः “न किंच “ऋधक् पृथक् । दिव्य इत्यर्थः ॥


कृ॒धी नो॒ अह्र॑यो देव सवित॒ः स च॑ स्तुषे म॒घोना॑म् ।

स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥९

कृ॒धि । नः॒ । अह्र॑यः । दे॒व॒ । स॒वि॒त॒रिति॑ । सः । च॒ । स्तु॒षे॒ । म॒घोना॑म् ।

स॒हो इति॑ । नः॒ । इन्द्रः॑ । वह्नि॑ऽभिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥९

कृधि । नः । अह्रयः । देव । सवितरिति । सः । च । स्तुषे । मघोनाम् ।

सहो इति । नः । इन्द्रः । वह्निऽभिः । नि । एषाम् । चर्षणीनाम् । चक्रम् । रश्मिम् । न । योयुवे ॥९

हे “सवितः प्रेरक “नः अस्मान् “अह्रयः अनवनतवदनानलज्जितान् “कृधि कुरु। किंच “सः त्वं “मघोनां धनवतां यजमानानां संबन्धिभिर्ऋत्विग्भिः “स्तुषे स्तूयसे । “इन्द्रः “वह्निभिः वोढृभिः मरुद्भिः सह “सहः बलं “चर्षणीनां मनुष्याणां “नः अस्माकं “नि “योयुवे भृशं निमिश्रयतु । तत्र दृष्टान्तः । “चक्रं रथस्य चक्रं “रश्मिं “न । यथा रश्मिं चक्रादिकं तद्वदित्यर्थः ॥


ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रव॑ः ।

पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥१०

आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒त॒म् । म॒हत् । अ॒स्मे इति॑ । वी॒रेषु॑ । वि॒श्वऽच॑र्षणि । श्रवः॑ ।

पृ॒क्षम् । वाज॑स्य । सा॒तये॑ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे॑ ॥१०

आ । एषु । द्यावापृथिवी इति । धातम् । महत् । अस्मे इति । वीरेषु । विश्वऽचर्षणि । श्रवः ।

पृक्षम् । वाजस्य । सातये । पृक्षम् । राया । उत । तुर्वणे ॥१०

हे “द्यावापृथिवी द्यावापृथिव्यौ युवाम् “अस्मे अस्माकं संबन्धिषु “एषु “धीरेषु पुत्रेषु “विश्वचर्षणि सर्वमनुष्योपेतं “महत् “श्रवः यशः “आ “धातम् आधत्तं दत्तम्। किंच “वाजस्य बलस्य “सातये संभजनाय “पृक्षं पालकमन्नं दत्तम् । “उत अपि च “तुर्वणे शत्रूणां तरणाय “राया धनेन सह “पृक्षम् अन्नं दत्तम् ॥ ॥ २७ ॥


ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये ।

सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥११

ए॒तम् । शंस॑म् । इ॒न्द्र॒ । अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑त् । सन्त॑म् । स॒ह॒सा॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पा॒हि॒ । अ॒भिष्ट॑ये ।

मे॒दता॑म् । वे॒दता॑ । व॒सो॒ इति॑ ॥११

एतम् । शंसम् । इन्द्र । अस्मऽयुः । त्वम् । कूऽचित् । सन्तम् । सहसाऽवन् । अभिष्टये । सदा । पाहि । अभिष्टये ।

मेदताम् । वेदता । वसो इति ॥११

हे वसो वासयितः “सहसावन् बलवन् “इन्द्र “अस्मयुः अस्मान्कामयमानः “त्वं “कूचित् क्वचिदपि “सन्तं स्थितम् “एतम् इमं “शंसं स्तोतारम् “अभिष्टये अभिलषितसिद्ध्यर्थमपि च “अभिष्टये यागार्थं “सदा सर्वदा “पाहि रक्ष । किंच “वेदता त्वदीयेन प्रज्ञानेन स्तोतारं मां “मेदतां बुध्यस्व ॥


ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् ।

सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥१२

ए॒तम् । मे॒ । स्तोम॑म् । त॒ना । न । सूर्ये॑ । द्यु॒तत्ऽया॑मानम् । व॒वृ॒ध॒न्त॒ । नृ॒णाम् ।

स॒म्ऽवन॑नम् । न । अश्व्य॑म् । तष्टा॑ऽइव । अन॑पऽच्युतम् ॥१२

एतम् । मे । स्तोमम् । तना । न । सूर्ये । द्युतत्ऽयामानम् । ववृधन्त । नृणाम् ।

सम्ऽवननम् । न । अश्व्यम् । तष्टाऽइव । अनपऽच्युतम् ॥१२

“नृणां नेतॄणां देवशत्रूणां “संवननं “न संभजनं सम्यग्हिंसनमिवावस्थितं “मे मदीयम् “एतम् इदं “स्तोमं स्तोत्रं “ववृधन्त ऋत्विजो वर्धयन्तु । तत्र दृष्टान्तः । “सूर्ये द्युतद्यामानं दीप्तगमनं “तना “न विस्तृतान् रश्मीन् वर्धयन्ति तद्वदित्यर्थः । “अनपच्युतं च्युतिरहितम् “अश्व्यम् अश्वार्हं रथं “तष्टेव यथा वर्धकी रथिष्वागतेषु संस्कृतं रथं संस्कारस्थानात्प्रेरयति तद्वदित्यर्थः ॥


वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।

ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥१३

व॒वर्त॑ । येषा॑म् । रा॒या । यु॒क्ता । ए॒षा॒म् । हि॒र॒ण्ययी॑ ।

ने॒मऽधि॑ता । न । पौंस्या॑ । वृथा॑ऽइव । वि॒ष्टऽअ॑न्ता ॥१३

ववर्त । येषाम् । राया । युक्ता । एषाम् । हिरण्ययी ।

नेमऽधिता । न । पौंस्या । वृथाऽइव । विष्टऽअन्ता ॥१३

“येषां देवानां स्वभूतेन “राया अस्मभ्यं दातव्येन धनेन “युक्ता स्तुतिः आववर्त तेषां “एषाम् अर्थाय “हिरण्ययी हिरण्मयी हिरण्यालंकारवत् प्रीतिकरास्मन्मुखात् पुनःपुनरावर्तत इत्यर्थः । तत्र दृष्टान्तः । ”पौंस्या पौंस्यानि बलानि “नेमधिता “न नेमधितौ संग्रामे “विष्टान्ता व्याप्तावसाना “वृथेव यथा घटिकायन्त्रमाला तद्वदित्यर्थः ॥


प्र तद्दु॒ःशीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।

ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥१४

प्र । तत् । दुः॒ऽशीमे॑ । पृथ॑वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु॑रे । म॒घव॑त्ऽसु ।

ये । यु॒क्त्वाय॑ । पञ्च॑ । श॒ता । अ॒स्म॒ऽयु । प॒था । वि॒ऽश्रावि॑ । ए॒षा॒म् ॥१४

प्र । तत् । दुःऽशीमे । पृथवाने । वेने । प्र । रामे । वोचम् । असुरे । मघवत्ऽसु ।

ये । युक्त्वाय । पञ्च । शता । अस्मऽयु । पथा । विऽश्रावि । एषाम् ॥१४

“ये देवाः “पञ्च “शता शतानि रथान् “युक्त्वाय अश्वैर्युक्त्वा "अस्मयु अस्मत्कामाः सन्तः “पथा यज्ञमार्गेण गच्छन्ति तेषाम् “एषां देवानां “विश्रावि देवानां लोके वा विशेषेण श्रावकगुणयुक्तं “तत् स्तोत्रं “दुःशीमे दुःशीमनाम्नि “पृथवाने । पृथवानः पृथिः । तस्मिन् “वेने च "असुरे बलवति “रामे चैतेषु राजसु “प्र “वोचं प्रब्रवीमि । प्रख्यापयामीत्यर्थः । “मघवत्सु अन्येषु धनवत्सु च प्रख्यापयामीत्यर्थः ॥ अधीक्वत्र सप्ततिं च सप्त च ।


अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।

स॒द्यो दि॑दिष्ट॒ तान्व॑ः स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥१५

अधि॑ । इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ ।

स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । मा॒य॒वः ॥१५

अधि । इत् । नु । अत्र । सप्ततिम् । च । सप्त । च ।

सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥१५

“अत्र एषु राजसु “तान्वः नामर्षिः गवां “सप्त “च सप्ततिं “च “नु क्षिप्रं “सद्यः “इत् सद्य एव “अधि “दिदिष्ट । अधिपूर्वो दिशिर्याचनार्थः । ययाचे । किंच पार्थो नाम युवनाश्वनामकस्य कुले पृथोः पुत्रः कश्चित् “सद्यः एव गवां सप्तसप्ततिमधि “दिदिष्ट । किंच “मायवः अपि “सद्यः एवाधि “दिदिष्ट ॥ ॥ २८ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९३&oldid=214379" इत्यस्माद् पुनः प्राप्तिः