ऋग्वेदः सूक्तं १०.९२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.९१ ऋग्वेदः - मण्डल १०
सूक्तं १०.९२
शार्यातो मानवः
सूक्तं १०.९३ →
दे. विश्वे देवाः। जगती


यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् ।
शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥१॥
इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् ।
अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥२॥
बळस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे ।
यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥३॥
ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी ।
इन्द्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः ॥४॥
प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिं दधन्विरे ।
येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते ॥५॥
क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः ।
तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥६॥
इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये ।
प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥७॥
सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः ।
भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरि स्तन्नबाधितः ॥८॥
स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन ।
येभिः शिवः स्ववाँ एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥९॥
ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः ।
यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥१०॥
ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः ।
देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥११॥
उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि ।
सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥१२॥
प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये ।
आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् ॥१३॥
विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि ।
ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥१४॥
रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् ।
येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥१५॥


सायणभाष्यम्

‘ यज्ञस्य' इति पञ्चदशर्चं द्वितीयं सूक्तं मनोः पुत्रस्य शार्यातस्यार्षं जागतं बहुदेवताकम् । तथा चानुक्रान्तं -- यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतम् ' इति । चातुर्विंशिक आरम्भणीयेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च -- ते हि द्यावापृथिवी यज्ञस्य वो रथ्यम् । ( आश्व. श्रौ. ७. ४) इति । वृष्ट्याभिप्लवषडहयोर्द्वितीयेऽहन्यपीदं वैश्वदेवनिविद्धानम् । ‘ चातुर्विंशिकेन तृतीयसवनम् ' ( आश्व. श्रौ. ७. ६ ) इति सूत्रकृतातिदिष्टत्वात् ॥


य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।

शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥१

य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् ।

शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥१

यज्ञस्य । वः । रथ्यम् । विश्पतिम् । विशाम् । होतारम् । अक्तोः । अतिथिम् । विभाऽवसुम् ।

शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत ॥१

हे देवाः “वः यूयं “यज्ञस्य “रथ्यं नेतारं “विश्पतिं मनुष्याणां पालकं स्वामिनं वा “विशां देवानां “होतारम् आह्वातारम् “अक्तोः रात्रेः “अतिथिम् अतिथिभूतं “विभावसुं विविधदीप्तधनं तमग्निं परिचरतेति शेषः । “शुष्कासु शुष्कभूतास्वोषधीषु “शोचन् ज्वलन् "हरिणीषु हरितवर्णासु आर्द्रास्वोषधीषु "जर्भुरत् भक्षयन् कुटिलं गच्छन् वा “वृषा कामानां वर्षिता “केतुः प्रज्ञापकः “यजतः यष्टव्योऽग्निः “द्यां दिवम् “अशायत प्रतिशेते ।।


इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।

अ॒क्तुं न य॒ह्वमु॒षस॑ः पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥२

इ॒मम् । अ॒ञ्जः॒ऽपाम् । उ॒भये॑ । अ॒कृ॒ण्व॒त॒ । ध॒र्माण॑म् । अ॒ग्निम् । वि॒दथ॑स्य । साध॑नम् ।

अ॒क्तुम् । न । य॒ह्वम् । उ॒षसः॑ । पु॒रःऽहि॑तम् । तनू॒३॒॑ऽनपा॑तम् । अ॒रु॒षस्य॑ । निं॒स॒ते॒ ॥२

इमम् । अञ्जःऽपाम् । उभये । अकृण्वत । धर्माणम् । अग्निम् । विदथस्य । साधनम् ।

अक्तुम् । न । यह्वम् । उषसः । पुरःऽहितम् । तनूऽनपातम् । अरुषस्य । निंसते ॥२

“उभये देवमनुष्याः “अञ्जस्पाम् अञ्जसा रक्षकं “धर्माणं धारकम् “इमम् “अग्निं “विदथस्य यज्ञस्य “साधनं साधयितारम् “अकृण्वत अकुर्वत । किंच “अरुषस्य आरोचमानस्य वायोः “तनूनपातं पुत्रं “यह्वं महान्तं “पुरोहितम् “उषसः “अक्तुं “न स्वरश्मिभिरञ्जकमादित्यमिव “निंसते चुम्बयन्ति । आश्रयन्त इत्यर्थः ॥


बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।

य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥३

बट् । अ॒स्य॒ । नी॒था । वि । प॒णेः । च॒ । म॒न्म॒हे॒ । व॒याः । अ॒स्य॒ । प्रऽहु॑ताः । आ॒सुः॒ । अत्त॑वे ।

य॒दा । घो॒रासः॑ । अ॒मृ॒त॒ऽत्वम् । आश॑त । आत् । इत् । जन॑स्य । दैव्य॑स्य । च॒र्कि॒र॒न् ॥३

बट् । अस्य । नीथा । वि । पणेः । च । मन्महे । वयाः । अस्य । प्रऽहुताः । आसुः । अत्तवे ।

यदा । घोरासः । अमृतऽत्वम् । आशत । आत् । इत् । जनस्य । दैव्यस्य । चर्किरन् ॥३

“विपणेः अस्माभिर्विविधं पणितव्यस्य स्तुत्यस्याग्नेः “नीथा नीथान्यस्मत्संबन्धीनि प्रज्ञानानि “बट् सत्यानि स्युरिति “मन्महे वयं कामयामहे । किंच “अस्य अग्नेः “वयाः अस्मदीया अन्नाहुतयः “अत्तवे भक्षणाय “प्रहुताः “आसुः भवेयुरिति कामयामहे । किंच “यदा यस्मिन् काले “घोरासः घोराः अग्नेर्ज्वाला: “अमृतत्वम् अविनाशित्वम् “आशत प्राप्नुवन्ति “आदित् अनन्तरमेवास्माकमृत्विजः “दैव्यस्य देवेषु भवस्य “जनस्य अग्नेरर्थाय “चर्किरन् किरेयुः। अग्नौ हवींषि प्रक्षिपेयुरित्यर्थः ॥


ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑ति॒ः पनी॑यसी ।

इन्द्रो॑ मि॒त्रो वरु॑ण॒ः सं चि॑कित्रि॒रेऽथो॒ भग॑ः सवि॒ता पू॒तद॑क्षसः ॥४

ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पनी॑यसी ।

इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे॒ । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥४

ऋतस्य । हि । प्रऽसितिः । द्यौः । उरु । व्यचः । नमः । मही । अरमतिः । पनीयसी ।

इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूतऽदक्षसः ॥४

“ऋतस्य यज्ञस्य संबन्धिनमेनमग्निं प्रति “प्रसितिः विस्तृता “द्यौः “उरु विस्तीर्णं “व्यचः व्याप्तमन्तरिक्षं च “पनीयसी स्तुत्यतमा “अरमतिः पर्यन्तरहिता “मही पृथिवी च “नमः नमनं कुर्वन्तीति शेषः । “अथो अपि च एनमग्निम् “इन्द्रो “मित्रः च “वरुणः च “भगः च “सविता “पूतदक्षसः शुद्धबला एते देवा एनमग्निं “सं चिकित्रिरे ज्यैष्ठ्याय संजानते ।।


प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।

येभि॒ः परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥५

प्र । रु॒द्रेण॑ । य॒यिना॑ । य॒न्ति॒ । सिन्ध॑वः । ति॒रः । म॒हीम् । अ॒रम॑तिम् । द॒ध॒न्वि॒रे॒ ।

येभिः॑ । परि॑ऽज्मा । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । वि । रोरु॑वत् । ज॒ठरे॑ । विश्व॑म् । उ॒क्षते॑ ॥५

प्र । रुद्रेण । ययिना । यन्ति । सिन्धवः । तिरः । महीम् । अरमतिम् । दधन्विरे ।

येभिः । परिऽज्मा । परिऽयन् । उरु । ज्रयः । वि । रोरुवत् । जठरे । विश्वम् । उक्षते ॥५

“सिन्धवः स्यन्दनशीला आपः "ययिना गमनशीलेन “रुद्रेण रुद्रपुत्रेण मरुद्गणेन सह “प्र “यन्ति । अथ बहुवदाह । तेऽमी मरुतः “अरमतिम् । रमतिर्विरामोऽवसानम् । तद्रहितामपर्यन्तां “महीं पृथिवीं “तिरः “दधन्विरे तिरस्कुर्वन्तीत्यर्थः। “परिज्मा परितो गन्तेन्द्रः “परियन् परितो गच्छन् "येभिः यैः मरुद्गणैः सह “उरु “ज्रयः बहुवेगं करोतीति शेषः। किंच “जठरे अन्तरिक्षे “रोरुवत् शब्दं कुर्वन् पर्जन्यो यैर्मरुद्गणैः सह “विश्वं भुवनम् “उक्षते सिञ्चते ॥ ॥ २३ ॥


क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळय॑ः ।

तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥६

क्रा॒णाः । रु॒द्राः । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । दि॒वः । श्ये॒नासः॑ । असु॑रस्य । नी॒ळयः॑ ।

तेभिः॑ । च॒ष्टे॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः॑ । दे॒वेभिः॑ । अ॒र्व॒शेभिः॑ । अर्व॑शः ॥६

क्राणाः । रुद्राः । मरुतः । विश्वऽकृष्टयः । दिवः । श्येनासः । असुरस्य । नीळयः ।

तेभिः । चष्टे । वरुणः । मित्रः । अर्यमा । इन्द्रः । देवेभिः । अर्वशेभिः । अर्वशः ॥६

"असुरस्य मेघस्य “नीळयः आवासभूताः “दिवः अन्तरिक्षस्य संबन्धिनः “श्येनासः श्येनाः शंसनीयगतयः “विश्वकृष्टयः व्याप्तमनुष्याः “रुद्राः रुद्रपुत्रा ये “मरुतः “क्राणाः स्वाधिकारकर्माणि कुर्वाणा आसत इति शेषः । “तेभिः तैः “अर्वशेभिः अश्ववद्भिः सोमवद्भिर्वा “देवेभिः देवैः सह “अर्वशः अश्ववान् सोमवान्वा “इन्द्रः “चष्टे पश्यति । “वरुणः च “मित्रः च “अर्यमा च सोमवद्भिः मरुद्भिः सह पश्यन्ति ।।


इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।

प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रव॑ः ॥७

इन्द्रे॑ । भुज॑म् । श॒श॒मा॒नासः॑ । आ॒श॒त॒ । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।

प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा॑ । त॒त॒क्षि॒रे । युज॑म् । वज्र॑म् । नृ॒ऽसद॑नेषु । का॒रवः॑ ॥७

इन्द्रे । भुजम् । शशमानासः । आशत । सूरः । दृशीके । वृषणः । च । पौंस्ये ।

प्र । ये । नु । अस्य । अर्हणा । ततक्षिरे । युजम् । वज्रम् । नृऽसदनेषु । कारवः ॥७

ये “शशमानासः शशमानाः स्तोतारः “इन्द्रे स्तुते सति “भुजं पालनम् “आशत प्राप्नुवन्ति । “सूरः सूर्ये स्तुते सति “दृशीके दर्शनं सर्ववस्तुविषयं प्राप्नुवन्ति । “वृषणः वर्षितरीन्द्रे स्तुते “पौंस्यं बलं च प्राप्नुवन्ति । किंच “ये “कारवः स्तोतारः “अस्य इन्द्रस्य “अर्हणा पूजनानि “नु क्षिप्रं “ततक्षिरे प्रकृष्टानि कुर्वन्ति ते स्तोतारः “नृषदनेषु नरः कर्तृत्वेन येषु सीदन्ति तिष्ठन्ति तेषु यज्ञेषु "युजं सहायमिन्द्रस्य “वज्रं प्राप्नुवन्ति ।।


सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।

भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥८

सूरः॑ । चि॒त् । आ । ह॒रितः॑ । अ॒स्य॒ । री॒र॒म॒त् । इन्द्रा॑त् । आ । कः । चि॒त् । भ॒य॒ते॒ । तवी॑यसः ।

भी॒मस्य॑ । वृष्णः॑ । ज॒ठरा॑त् । अ॒भि॒ऽश्वसः॑ । दि॒वेऽदि॑वे । सहु॑रिः । स्त॒न् । अबा॑धितः ॥८

सूरः । चित् । आ । हरितः । अस्य । रीरमत् । इन्द्रात् । आ । कः । चित् । भयते । तवीयसः ।

भीमस्य । वृष्णः । जठरात् । अभिऽश्वसः । दिवेऽदिवे । सहुरिः । स्तन् । अबाधितः ॥८

“सूरः सूर्योऽपि “अस्य इन्द्रस्य परमेश्वरस्य परमात्मन आज्ञां परिपालयितुं मन्वानः “हरितः अश्वान् प्रेरयतीति शेषः । प्रेरयन्नध्वनि “आ “रीरमत् आभिमुख्येन रमयति । यः “कश्चित् देवोऽपि सृष्टौ “भयते बिभेति स देवः “तवीयसः प्रवृद्धात् “इन्द्रात् परमात्मनो भयादेव बिभेति । तथा च तैत्तिरीये पठितं - भीषास्माद्वातः पवते ' (तै. उ. २. ८) इत्यादिना । किंच “वृष्णः कामानां वर्षितुः “भीमस्य सर्वभयंकरस्य परमात्मनः परमेश्वरस्य “दिवेदिवे अन्वहम् “अभिश्वसः आभिमुख्येन श्वसतः “जठरात् उदरादन्तरिक्षात् “सहुरिः सहनशीलः “अबाधितः बाधरहित: “स्तन् स्तनयति शब्दं करोति ॥


स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।

येभि॑ः शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥९

स्तोम॑म् । वः॒ । अ॒द्य । रु॒द्राय॑ । शिक्व॑से । क्ष॒यत्ऽवी॑राय । नम॑सा । दि॒दि॒ष्ट॒न॒ ।

येभिः॑ । शि॒वः । स्वऽवा॑न् । ए॒व॒याव॑ऽभिः । दि॒वः । सिस॑क्ति । स्वऽय॑शाः । निका॑मऽभिः ॥९

स्तोमम् । वः । अद्य । रुद्राय । शिक्वसे । क्षयत्ऽवीराय । नमसा । दिदिष्टन ।

येभिः । शिवः । स्वऽवान् । एवयावऽभिः । दिवः । सिसक्ति । स्वऽयशाः । निकामऽभिः ॥९

“एवयावभिः अश्वैरागच्छद्भिः “येभिः यैर्मरुद्भिः सह “स्ववान् ज्ञातिमान् “स्वयशाः स्वभूतकीर्तिः “शिवः सुखकरः परमेश्वरः “दिवः द्युलोकाद्यजमानान् “सिषक्ति सेवते हे ऋत्विजः यूयम् “अद्य अस्मिन् यागे “निकामभिः नियताभिलाषैः तैर्मरुद्भिः सहिताय क्षयद्वीराय क्षितशत्रवे “शिक्वसे शरणे शक्ताय “रुद्राय “नमसा अन्नेन नमस्कारेण वा सह “स्तोमं स्तोत्रं “दिदिष्टन दिशत सृजत । गमयतेत्यर्थः ॥


ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।

य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑व॒ः सं चि॑कित्रिरे ॥१०

ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः ।

य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥१०

ते । हि । प्रऽजायाः । अभरन्त । वि । श्रवः । बृहस्पतिः । वृषभः । सोमऽजामयः ।

यज्ञैः । अथर्वा । प्रथमः । वि । धारयत् । देवाः । दक्षैः । भृगवः । सम् । चिकित्रिरे ॥१०

“हि यस्मात्कारणात् “वृषभः कामानां वर्षिता “बृहस्पतिः “सोमजामयः अन्ये सोमबन्धवः “ते विश्वे देवाः “प्रजायाः अर्थाय “श्रवः अन्नं “वि “अभरन्त विभरन्ति वृष्टिद्वारेण पोषयन्ति तस्मात्कारणात् तासां प्रजानां मध्ये “अथर्वा नामर्षिः “प्रथमः प्रथममेव क्रियमाणैः “यज्ञैः “वि “धारयत् देवान् कर्ममार्गान् वा विधृतानकरोत् । अत्र निगमः - ‘ यज्ञैरथर्वा प्रथमः पथस्तते । ( ऋ. सं. १. ८३. ५) इति । अथ “दक्षैः बलैः सह "देवाः विश्वे “भृगवः ऋषयश्च “सं “चिकित्रिरे अथर्वणा कृतं यज्ञं गत्बा पशून् संज्ञातवन्तः ॥ ॥ २४ ॥


ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः ।

दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षण॒ः प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥११

ते । हि । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा । नरा॒शंसः॑ । चतुः॑ऽअङ्गः । य॒मः । अदि॑तिः ।

दे॒वः । त्वष्टा॑ । द्र॒वि॒णः॒ऽदाः । ऋ॒भु॒क्षणः॑ । प्र । रो॒द॒सी इति॑ । म॒रुतः॑ । विष्णुः॑ । अ॒र्हि॒रे॒ ॥११

ते । हि । द्यावापृथिवी इति । भूरिऽरेतसा । नराशंसः । चतुःऽअङ्गः । यमः । अदितिः ।

देवः । त्वष्टा । द्रविणःऽदाः । ऋभुक्षणः । प्र । रोदसी इति । मरुतः । विष्णुः । अर्हिरे ॥११

“भूरिरेतसा बहूदके “द्यावापृथिवी द्यावापृथिव्यौ “यमः देवः “अदितिः च “त्वष्टा “देवः च “द्रविणोदाः अग्निश्च “ऋभुक्षणः ऋभवश्च “रोदसी रुद्रस्य पत्नी च “मरुतः देवाश्च “विष्णुः च एते विश्वे देवाः “चतुरङ्गः चतुर्भिरग्निभिर्युक्तस्तस्मिन् “नराशंसः नराशंसनामधेये यज्ञे “प्र “अर्हिरे अस्माभिः स्तोतृभिः पूज्यन्ते ॥


उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहि॑ः शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ।

सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ॥१२

उ॒त । स्यः । नः॒ । उ॒शिजा॑म् । उ॒र्वि॒या । क॒विः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ।

सूर्या॒मासा॑ । वि॒ऽचर॑न्ता । दि॒वि॒ऽक्षिता॑ । धि॒या । श॒मी॒न॒हु॒षी॒ इति॑ । अ॒स्य । बो॒ध॒त॒म् ॥१२

उत । स्यः । नः । उशिजाम् । उर्विया । कविः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ।

सूर्यामासा । विऽचरन्ता । दिविऽक्षिता । धिया । शमीनहुषी इति । अस्य । बोधतम् ॥१२

“उत अपि च “नः अस्माकम् “उशिजां कामयमानानामृत्विजाम् “उर्विया उर्वीं बह्वीं स्तुतिं “कविः मेधावी “बुध्न्यः बुध्ने अन्तरिक्षे भवः सः “अहिः देवः “हवीमनि हूयन्ते यत्र देवेभ्यो हवींषि तस्मिन्यज्ञे “शृणोतु । “दिविक्षिता दिवि वसन्तौ “विचरन्ता विशेषेण चरन्तौ “सूर्यामासा सूर्याचन्द्रमसौ “धिया बुद्ध्या “अस्य स्तोत्रमिदं “बोधतं बुध्येताम्। “शमी कर्मवती पृथिवी । ‘ शमी' इति कर्मनामसु पाठात् । “नहुषी द्यौः । अत्र वाजसनेयकं -- द्यौर्नहुषीयं वै शमी तस्या एष गर्भः ' इति । हे द्यावापृथिव्यौ युवां स्तोत्रं धिया स्वीयया प्रज्ञया बुध्येतमवगच्छतमित्यर्थः ॥


प्र न॑ः पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।

आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ॥१३

प्र । नः॒ । पू॒षा । च॒रथ॑म् । वि॒श्वऽदे॑व्यः । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये॑ ।

आ॒त्मान॑म् । वस्यः॑ । अ॒भि । वात॑म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । याम॑नि । श्रु॒त॒म् ॥१३

प्र । नः । पूषा । चरथम् । विश्वऽदेव्यः । अपाम् । नपात् । अवतु । वायुः । इष्टये ।

आत्मानम् । वस्यः । अभि । वातम् । अर्चत । तत् । अश्विना । सुऽहवा । यामनि । श्रुतम् ॥१३

“पूषा देवः “न अस्माकं संबन्धि “चरथं जङ्गमं “प्र “अवतु प्रकर्षेण रक्षतु । “किंच “विश्वदेव्यः विश्वदेवहितः “अपां “नपात् "वायुः “इष्टये यज्ञस्य निष्कृत्यर्थं प्रावतु । किंच "आत्मानं सर्वेषामात्मभूतं “वातं वायुं “वस्यः वसीयः प्रशस्यतरमन्नं प्राप्तुम् । अस्मभ्यमन्नं कामयमानमिति शेषः । हे “अश्विना अश्विनौ “सुहवा स्वाह्वानौ युवां “यामनि यागगमने “तत् इदं स्तोत्रं “श्रुतं शृणुतम् ॥


वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।

ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ॥१४

वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒ऽक्षित॑म् । गीः॒ऽभिः । ऊं॒ इति॑ । स्वऽय॑शसम् । गृ॒णी॒म॒सि॒ ।

ग्नाभिः॑ । विश्वा॑भिः । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तोः । युवा॑नम् । नृ॒ऽमनाः॑ । अध॑ । पति॑म् ॥१४

विशाम् । आसाम् । अभयानाम् । अधिऽक्षितम् । गीःऽभिः । ऊं इति । स्वऽयशसम् । गृणीमसि ।

ग्नाभिः । विश्वाभिः । अदितिम् । अनर्वणम् । अक्तोः । युवानम् । नृऽमनाः । अध । पतिम् ॥१४

“अभयानां संसारभयरहितानाम् “आसां “विशां मनुष्याणाम् “अधिक्षितम् अन्तर्निवसन्तं “स्वयशसं स्वयं समुपार्जितकीर्तिमेनमग्निं “गीर्भिः स्तुतिभिः “गृणीमसि वयं स्तुमः । किंच “अनर्वणम् अप्रत्यृतां पत्युरपत्यान्तत्वेनाप्रतिगताम् “अदितिम् अदीनां देवमातरं “विश्वाभिः सर्वाभिः “ग्नाभिः देवपत्नीभिः सहितां स्तुमः । किंच “अक्तोः रात्रेः "युवानं स्वतेजसा मिश्रयितारं चन्द्रमसं स्तुमः । किंच “नृमणाः नृषु मनुष्येष्वनुग्राहकमना यः तमादित्यं स्तुमः । “अध अथ “पतिं सर्वस्य पालकमिन्द्रं स्तुमः ॥


रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।

येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथ॑ः सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥१५

रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् ।

येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥१५

रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् ।

येभिः । विऽहायाः । अभवत् । विऽचक्षणः । पाथः । सुऽमेकम् । स्वऽधितिः । वनन्ऽवति ॥१५

अङ्गिरा नामर्षिरार्त्विज्येन वृतः सन् देवान् स्तौति । “अत्र अस्मिन् यज्ञे “जनुषा जन्मना “पूर्वः प्रत्नः “अङ्गिराः नामर्षिः “रेभत् देवान् स्तौति । “ग्रावाणः च “ऊर्ध्वाः उद्यताः सन्तः “अध्वरं यज्ञसाधनं सोमम् “अभि “चक्षुः अभिपश्यन्ति । “विचक्षणः विद्रष्टेन्द्रः "येभिः यैः ग्रावभिरभिषवसंबन्धिभिः शब्दैः “विहायाः महान् “अभवत् । हृष्टोऽभूदित्यर्थः । अस्येन्द्रस्य “स्वधितिः वज्रः “वनन्वति उदकवति मार्गे “पाथः अन्नसाधनं “सुमेकं शोभनमुदकं निरगमयदिति शेषः ॥ ॥२५॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९२&oldid=202834" इत्यस्माद् पुनः प्राप्तिः