सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.८४

विकिस्रोतः तः
← सूक्तं १०.८३ ऋग्वेदः - मण्डल १०
सूक्तं १०.८४
मन्युः तापसः
सूक्तं १०.८५ →
दे. मन्युः। १-३ त्रिष्टुप्, ४-७ जगती

अजिरनाम्न्येकाह इदं सूक्तं मरुत्वतीयशस्त्रे निविद्धानम् (आश्व.श्रौ. ९.८)


त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः ।
तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥१॥
अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।
हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥
सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् ।
उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥३॥
एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि ।
अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥४॥
विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।
प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥५॥
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥
संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।
भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥


सायणभाष्यम्

‘ त्वया मन्यो ' इति सप्तर्चं षोडशं सूक्तम् । आदितस्तिस्रस्त्रिष्टुभस्ततश्चतस्रो जगत्यः । पूर्ववदृषिदेवते । तथा चानुक्रान्तं- ‘ त्वया मन्यो चतुर्जगत्यन्तम् ' इति । अजिरनाम्न्येकाह इदं सूक्तं मरुत्वतीयशस्त्रे निविद्धानम् । सूत्रं पूर्वसूक्त एवोदाहृतम् । विनुत्यभिभूतिषु वज्रेषुष्वेकाहेष्वेते सूक्ते मरुत्वतीयनिष्केवल्ययोः शस्ये। सूत्रितं च -- विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते ' ( आश्व. श्रौ. ९. ८) इति ॥


त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥१

त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑माणासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ ।

ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥१

त्वया । मन्यो इति । सऽरथम् । आऽरुजन्तः । हर्षमाणासः । धृषिताः । मरुत्वः ।

तिग्मऽइषवः । आयुधा । सम्ऽशिशानाः । अभि । प्र । यन्तु । नरः । अग्निऽरूपाः ॥१

हे “मन्यो हे “मरुत्वः “त्वया “सरथं समानमेकमेव रथमारुह्येति शेषः । "आरुजन्तः गच्छन्तः “हर्षमाणासः हृष्टाः “धृषिताः धृष्टाः “तिग्मेषवः तीक्ष्णबाणाः “आयुधा आयुधानि “संशिशानाः सम्यग्निश्यन्तः “नरः युद्धस्य नेतार इन्द्रादयो देवास्त्वदनुचरा वा “अग्निरूपाः अग्निवत्तीक्ष्णदाहादिकर्माणो यद्वा संनद्धाः कवचिनः “अभि “प्र “यन्तु युद्धे सहायार्थम् । अत्र त्वया मन्यो सरथमारुह्य रुजन्तः' ( निरु. १०. ३०) इत्यादि निरुक्तमनुसंधेयम् ॥


अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्न॑ः सहुरे हू॒त ए॑धि ।

ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥२

अ॒ग्निःऽइ॑व । म॒न्यो॒ इति॑ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒ऽनीः । नः॒ । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ ।

ह॒त्वाय॑ । शत्रू॑न् । वि । भ॒ज॒स्व॒ । वेदः॑ । ओजः॑ । मिमा॑नः । वि । मृधः॑ । नु॒द॒स्व॒ ॥२

अग्निःऽइव । मन्यो इति । त्विषितः । सहस्व । सेनाऽनीः । नः । सहुरे । हूतः । एधि ।

हत्वाय । शत्रून् । वि । भजस्व । वेदः । ओजः । मिमानः । वि । मृधः । नुदस्व ॥२

हे “मन्यो “अग्निरिव “त्विषितः ज्वलितः “सहस्व अभिभव शत्रून् । हे “सहुरे सहनशील “सेनानीः “एधि भव “नः अस्माकं संग्रामे “हूतः सन् । किंच “हत्वाय हत्वा “शत्रून्वि “भजस्व प्रयच्छास्माकं “वेदः धनं शत्रुसंबन्धि। किंच “औजो “मिमानः अस्माकं बलं कुर्वन् “मृधः शत्रून् “वि “नुदस्व घातयेत्यर्थः ॥


सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।

उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥३

सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् । अ॒स्मे इति॑ । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् ।

उ॒ग्रम् । ते॒ । पाजः॑ । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒य॒से॒ । ए॒क॒ऽज॒ । त्वम् ॥३

सहस्व । मन्यो इति । अभिऽमातिम् । अस्मे इति । रुजन् । मृणन् । प्रऽमृणन् । प्र । इहि । शत्रून् ।

उग्रम् । ते । पाजः । ननु । आ । रुरुध्रे । वशी । वशम् । नयसे । एकऽज । त्वम् ॥३

हे “मन्यो “अस्मे अस्माकम् “अभिमातिम् अभिगन्तारं शत्रुं “सहस्व अभिभव । “रुजन् हिंसन् “मृणन् “प्रमृणन् प्रकर्षेण हिंसन् यथा पुनर्न जीवेत्तथा कुर्वंस्त्वं “शत्रून् प्रति “प्रेहि। “ते तव “पाजः बलम् “उग्रम् उद्गूर्णं के “ननु “आ “रुरुध्रे आरुन्धन्ति । न तथा संभवति हे “एकज “त्वम् असहायः “वशी त्वं “वशं “नयसे प्रापयसि शत्रुम् ॥


एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।

अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥४

एकः॑ । ब॒हू॒नाम् । अ॒सि॒ । म॒न्यो॒ इति॑ । ई॒ळि॒तः । विश॑म्ऽविशम् । यु॒धये॑ । सम् । शि॒शा॒धि॒ ।

अकृ॑त्तऽरुक् । त्वया॑ । यु॒जा । व॒यम् । द्यु॒ऽमन्त॑म् । घोष॑म् । वि॒ऽज॒याय॑ । कृ॒ण्म॒हे॒ ॥४

एकः । बहूनाम् । असि । मन्यो इति । ईळितः । विशम्ऽविशम् । युधये । सम् । शिशाधि ।

अकृत्तऽरुक् । त्वया । युजा । वयम् । द्युऽमन्तम् । घोषम् । विऽजयाय । कृण्महे ॥४

हे “मन्यो “ईळितः स्तुतस्त्वम् “एकः एव असहाय एव “बहूनां शत्रूणाम् “असि भवसि पर्याप्तो हन्तुम् । अतः “विशंविशं तां तामस्मद्विरोधिनीं प्रजां “युधये युद्धाय “सं “शिशाधि सम्यक् । तीक्ष्णीकुरु । किंच हे “अकृत्तरुक् अच्छिन्नदीप्ते “त्वया "युजा सहायेन “वयं “द्युमन्तं दीप्तिमन्तं “घोषं सिंहनादवन्तं “विजयाय विशिष्टजयार्थं “कृण्महे कुर्मः ३ ॥


वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥५

वि॒जे॒ष॒ऽकृत् । इन्द्रः॑ऽइव । अ॒न॒व॒ऽब्र॒वः । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपाः । भ॒व॒ । इ॒ह ।

प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽब॒भूथ॑ ॥५

विजेषऽकृत् । इन्द्रःऽइव । अनवऽब्रवः । अस्माकम् । मन्यो इति । अधिऽपाः । भव । इह ।

प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यतः । आऽबभूथ ॥५

हे “मन्यो “इन्द्रइव "विजेषकृत् विजयकर्ता । तथा “अनवब्रवः अनिन्दितवचनः । ‘ अनवब्रवोऽनवक्षिप्तवचनः ' (निरु. ६. २९) इति यास्कः । ईदृशस्त्वम् “अस्माकम् “अधिपाः अधिकं पाता रक्षिता “भव “इह अस्मिन्यज्ञे । हे “सहुरे शत्रूणां सहनशील “ते “प्रियं “नाम स्तोत्रं “गृणीमसि गृणीमः स्तुमः । “यतः नाम्नः स्तोत्रात् त्वम् “आबभूथ आभवसि प्रवृद्धो भवसि “तमुत्सं बलस्योद्गमयितारं “विद्म जानीमः ॥


आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।

क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥६

आऽभू॑त्या । स॒ह॒ऽजाः । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । बि॒भ॒र्षि॒ । अ॒भि॒ऽभू॒ते॒ । उत्ऽत॑रम् ।

क्रत्वा॑ । नः॒ । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒ऽध॒नस्य॑ । पु॒रु॒ऽहू॒त॒ । स॒म्ऽसृजि॑ ॥६

आऽभूत्या । सहऽजाः । वज्र । सायक । सहः । बिभर्षि । अभिऽभूते । उत्ऽतरम् ।

क्रत्वा । नः । मन्यो इति । सह । मेदी । एधि । महाऽधनस्य । पुरुऽहूत । सम्ऽसृजि ॥६

हे “वज्र वज्रवत्सारभूत हे “सायक शत्रूणामन्तकर “अभिभूते शत्रूणामभिभावुक मन्यो “आभूत्या । आभूतिरभिभवः । तेन “सहजाः सहैवोत्पन्नस्त्वं “उत्तरम् उत्कृष्टतरं “सहः बलं “बिभर्षि धारयसि । हे “मन्यो “क्रत्वा कर्मणा “सह “नः अस्माकं “मेद्येधि स्निग्धो भव । कुत्रेति तदुच्यते । “महाधनस्य । संग्रामनामैतत् । संग्रामस्य “संसृजि सर्गे । हे “पुरुहूत बहुभिराहूतेति मन्युसंबोधनम्॥


संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।

भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒ः परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥७

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः ।

भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥७

सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः ।

भियम् । दधानाः । हृदयेषु । शत्रवः । पराऽजितासः । अप । नि । लयन्ताम् ॥७

“संसृष्टम् अविभागमापन्नम् "उभयम् उभयविधं “धनं “समाकृतं सम्यगानीतम् “अस्मभ्यं “दत्ताम् । कः । “वरुणश्च देवः “मन्युः च । “भियं भयं “हृदयेषु “दधानाः “शत्रवः अस्मद्विरोधिनः “पराजितासः पराजिताः "अप “नि “लयन्तां अपनिलीना भवन्तु ॥ ॥ १९॥ ॥ ६ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८४&oldid=202718" इत्यस्माद् प्रतिप्राप्तम्