ऋग्वेदः सूक्तं १०.७४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.७३ ऋग्वेदः - मण्डल १०
सूक्तं १०.७४
गौरिवीतिः शाक्त्यः
सूक्तं १०.७५ →
दे. इन्द्रः। त्रिष्टुप् ।


वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः ।
अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥१॥
हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् ।
चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः ॥२॥
इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् ।
धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥३॥
आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥४॥
शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् ।
ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥५॥
यद्वावान पुरुतमं पुराषाळा वृत्रहेन्द्रो नामान्यप्राः ।
अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥६॥


सायणभाष्यम्

‘ वसूनाम्' इति षड़ृचं षष्ठं सूक्तम्। ऋष्याद्याः पूर्ववत् । ' वसूनां षट्' इत्यनुक्रान्तम् । गतो विनियोगः ॥


वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।

अर्व॑न्तो वा॒ ये र॑यि॒मन्त॑ः सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥१

वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः ।

अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥१

वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः ।

अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥१

“इयक्षन् धनानि दातुमिच्छन्निन्द्रः “वसूनां धनानां लाभाय “वा “चर्कृषे अपकृष्यते । “धिया “वा। धीः कर्म धार्यमाणत्वात् । युद्धादिकर्मणा वा निमित्तेनाकृष्यते । “यज्ञैर्वा निमित्तभूतैः कृष्यते । कैरिति उच्यते । “रोदस्योः द्यावापृथिव्योः संबन्धिभिर्देवैः मनुष्यैश्चेत्यर्थः । “सातौ संग्रामे जेतव्ये सति “ये “अर्वन्तो “वा गच्छन्तः “रयिमन्तः भवन्ति तैरप्याकृष्यते। “ये “वनुं “वा हिंसां वा “सुश्रुणं सुप्रसिद्धामत्यन्तदुर्जयविषयां "सुश्रुतः सुश्रवसः प्रसिद्धाः कुर्वन्ति तैरपीन्द्र आकृष्यत इति ॥


हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् ।

चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ॥२

हवः॑ । ए॒षा॒म् । असु॑रः । न॒क्ष॒त॒ । द्याम् । श्र॒व॒स्य॒ता । मन॑सा । निं॒स॒त॒ । क्षाम् ।

चक्षा॑णाः । यत्र॑ । सु॒वि॒ताय॑ । दे॒वाः । द्यौः । न । वारे॑भिः । कृ॒णव॑न्त । स्वैः ॥२

हवः । एषाम् । असुरः । नक्षत । द्याम् । श्रवस्यता । मनसा । निंसत । क्षाम् ।

चक्षाणाः । यत्र । सुविताय । देवाः । द्यौः । न । वारेभिः । कृणवन्त । स्वैः ॥२

“एषाम् अनुष्ठातॄणामङ्गिरसां “हवः आह्वानशब्दः “असुरः इन्द्रस्य प्रेरकः द्यां दिवं “नक्षत व्याप्नोत् । तत्रत्या इन्द्रसंबन्धिनो देवाः “श्रवस्यता अन्नमिच्छता “मनसा “क्षां पृथिवीं “निंसत प्राप्तवन्तः । “यत्र यस्यां पृथिव्यां “चक्षाणाः पणिभिरपहृता गाः पश्यन्तः “देवाः “सुविताय सुष्ठु हिताय स्वात्मनोऽभ्युदयाय “द्यौर्न आदित्य इव “वारेभिः वरणीयैः “स्वैः तेजोभिः “कृणवन्त प्रकाशमकुर्वन् । गवां प्रदानायान्धकारमपनेतुमिति शेषः । अथवा । एषां यज्विनामपहृतानां गवां हवोऽसुर इन्द्रस्य प्रेरयिता सन्नक्षत। इन्द्रप्रेरिता अङ्गिरसः “श्रवस्यता अन्नं कीर्तिं वेच्छता मनसा क्षां भूमिं निंसत । अनुष्ठातॄणां गाः प्रदर्शयितुमित्यर्थः । इतरत्समानम् ॥


इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।

धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥३

इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् ।

धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥३

इयम् । एषाम् । अमृतानाम् । गीः । सर्वऽताता । ये । कृपणन्त । रत्नम् ।

धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥३

“इयमेषाममृतानां यष्टव्यानां देवानां “गीः स्तुतिः क्रियत इति शेषः । “ये देवाः “सर्वताता सर्वतातौ यज्ञे “कृपणन्त प्रयच्छन्ति याच्यन्ते वा “रत्नं रमणीयं धनम् । “धियं “च अस्मदीयां स्तुतिं च “यज्ञं “च साधन्तः साधयन्तः “ते “नः अस्मभ्यं “वसव्यं वसुसमूहम् “असामि अनल्पमसाधारणं वा “धान्तु प्रयच्छन्तु ।।


आ तत्त॑ इन्द्रा॒यव॑ः पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् ।

स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥४

आ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः॑ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गोऽम॑न्तम् । तितृ॑त्सान् ।

स॒कृ॒त्ऽस्व॑म् । ये । पु॒रु॒ऽपु॒त्राम् । म॒हीम् । स॒हस्र॑ऽधाराम् । बृ॒ह॒तीम् । दुधु॑क्षन् ॥४

आ । तत् । ते । इन्द्र । आयवः । पनन्त । अभि । ये । ऊर्वम् । गोऽमन्तम् । तितृत्सान् ।

सकृत्ऽस्वम् । ये । पुरुऽपुत्राम् । महीम् । सहस्रऽधाराम् । बृहतीम् । दुधुक्षन् ॥४

हे “इन्द्र “ते तव “आयवः मनुष्या अङ्गिरसः “तत् तदा “पनन्त “आ सर्वतः पनन्त स्तूयन्ते ।। “ये अङ्गिरसः “गोमन्तम् “ऊर्वं संघं पणिभिरपहृतं प्राप्तं “तितृत्सान् हिंसितुमैच्छन् । तृदेर्हिंसार्थस्य सनन्तस्य लेट्याडागमः । यद्योगादनिघातः । अभ्यस्तस्वरः । “ये चाङ्गिरसः “सकृत्स्वम् । या सकृत्सूते सा सकृत्सूः । तां सकृत्प्रजातां “पुरुपुत्रां बह्वोषधिवनस्पतिरूपपुत्रां “सहस्रधारां बहुलकामाना-- मुत्पादयित्रीं “बृहतीं विस्तृतां “महीं भूमिम् । यद्वा । पुरुपुत्रां बह्वोषधिवनस्पतिरूप पुत्रां “सहस्रधारां बहुकामवर्षित्रीं महीं महतीं पूज्यां वा बृहतीं परिमाणरहितां दिवं दुधुक्षन् दुदुहुः । ते पनन्तेति संबन्धः । ‘ सकृद्ध द्यौरजायत ' ( ऋ. सं. ६. ४८, २२ ) इत्याद्युक्तम् ॥


शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् ।

ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥५

शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ।

ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥५

शचीऽवः । इन्द्रम् । अवसे । कृणुध्वम् । अनानतम् । दमयन्तम् । पृतन्यून् ।

ऋभुक्षणम् । मघऽवानम् । सुऽवृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरुऽक्षुः ॥५

हे “शचीवः कर्मवन्तो यजमानाः । व्यत्ययेनैकवचनम् । “इन्द्रं देवम् “अवसे रक्षणाय “कृणुध्वं कुरुध्वम् । कीदृशमिन्द्रम्। “अनानतं कदाचिदपि परेषामनवनतं “पृतन्यून् पृतना इच्छतः शत्रून् “दमयन्तं वशं प्रापयन्तं “ऋभुक्षणं महान्तं “मघवानं धनवन्तं सुवृक्तिं सुष्टुतिम् ।' “यः “पुरुक्षुः बहुशब्द इन्द्रः “नर्यं नरेभ्यो हितम् । असुरविघातित्वात् । तादृशं “वज्रं “भर्ता बिभर्ति तमिन्द्रमवसे कृणुध्वमिति ॥


निष्केवल्ये यद्वावान' इत्येषा धाय्या। सूत्रितं च- ‘ यद्वावानेति धाय्या पिबा सुतस्य रसिन इति सामप्रगाथः' (आश्व. श्रौ. ५. १५) इति । महाव्रतेऽप्येषा । तथैव पञ्चमारण्यके सूत्रितं च – ' यद्वावानेति धाय्या सूददोहाः' (ऐ. आ. ५, २. २ ) इति ॥

यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।

अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥६

यत् । व॒वान॑ । पु॒रु॒ऽतम॑म् । पु॒रा॒षाट् । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । नामा॑नि । अ॒प्राः॒ ।

अचे॑ति । प्र॒ऽसहः॑ । पतिः॑ । तुवि॑ष्मान् । यत् । ई॒म् । उ॒श्मसि॑ । कर्त॑वे । कर॑त् । तत् ॥६

यत् । ववान । पुरुऽतमम् । पुराषाट् । आ । वृत्रऽहा । इन्द्रः । नामानि । अप्राः ।

अचेति । प्रऽसहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत् ॥६

“यत् यदा “पुरुतमम् अत्यन्तं प्रवृद्धतमं वृत्रं “ववान हन्ति पुराषाट् शत्रुपुराणामभिभविता इन्द्रः तदानीम् “आ अनन्तरमेव “वृत्रहेन्द्रः “नामानि उदकानि “अप्राः पूरयति । व्यत्ययेन मध्यमः । सोऽयमिन्द्रः “प्रासहः शत्रूणां प्रकर्षेणाभिभविता “पतिः सर्वस्य स्वामी “तुविष्मान् । तुवीति बहुनाम तत्सामर्थ्याद्धनं परिगृह्यते । बहुधन इत्यर्थः । ईदृशः सन् “अचेति सर्वैः प्रज्ञातः । स महानिन्द्रः “यदीं यदेतत्कर्म "उश्मसि वयं कामयामहे “तत् “करत् करोत्येव । इदं भवत्विदं भवत्विति यत्कामयामहे तत्तदानीमेव करोत्येव नोदास्त इत्यर्थः । ‘ सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाट्' (ऐ. ब्रा. ३. २२) इत्यादिकं ब्राह्मणमत्र द्रष्टव्यम् ॥ ॥ ५ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७४&oldid=195213" इत्यस्माद् पुनः प्राप्तिः