ऋग्वेदः सूक्तं १०.७
← सूक्तं १०.६ | ऋग्वेदः - मण्डल १० सूक्तं १०.७ त्रित आप्त्यः |
सूक्तं १०.८ → |
दे. अग्निः। त्रिष्टुप् |
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव ।
सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥१॥
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः ।
यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥२॥
अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् ।
अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥३॥
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता ।
ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥४॥
द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् ।
बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥५॥
स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः ।
यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥६॥
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ॥७॥
सायणभाष्यम्
‘ स्वस्ति नः' इति सप्तर्चं सप्तमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘स्वस्ति' इत्यनुक्रान्तम् । उक्तः सूक्तविनियोगः । स्वस्त्ययन्यां प्रधानस्य ‘ स्वस्ति नः' इत्येषानुवाक्या। सूत्रितं च - अग्निः स्वस्तिमान् स्वस्ति नो दिवो अग्ने पृथिव्याः' (आश्व. श्रौ. २. १०) इति ॥
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥१
स्व॒स्ति । नः॒ । दि॒वः । अ॒ग्ने॒ । पृ॒थि॒व्याः । वि॒श्वऽआ॑युः । धे॒हि॒ । य॒जथा॑य । दे॒व॒ ।
सचे॑महि । तव॑ । द॒स्म॒ । प्र॒ऽके॒तैः । उ॒रु॒ष्य । नः॒ । उ॒रुऽभिः॑ । दे॒व॒ । शंसैः॑ ॥१
स्वस्ति । नः । दिवः । अग्ने । पृथिव्याः । विश्वऽआयुः । धेहि । यजथाय । देव ।
सचेमहि । तव । दस्म । प्रऽकेतैः । उरुष्य । नः । उरुऽभिः । देव । शंसैः ॥१
हे “देव दानादिगुणविशिष्ट “अग्ने त्वं “दिवः “पृथिव्याः द्यावापृथिव्योः सकाशात् “नः अस्मभ्यं “विश्वायुः सर्वान्नं “स्वस्ति पुत्रादि “यजथाय देवयागार्थं “धेहि प्रयच्छ । सर्वोपद्रवरहिताः सर्वान्नपुत्रयुक्ताश्च सन्तो वयं यथा यज्वानो भवेम तथास्मान् कुर्विति वाक्यशेषः । अपि च वयं “सचेमहि । हे “दस्म दर्शनीय “देव अग्ने “उरुभिः बहुभिः “शंसैः शंसनीयैः “तव संबन्धिभिः “प्रकेतैः पालनोपायप्रज्ञानैः “नः अस्मान् "उरुष्य रक्ष ।।
इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राधः॑ ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥२
इ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ ।
य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥२
इमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः ।
यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मतिऽभिः । सुऽजात ॥२
हे “अग्ने “इमाः ईदृश्यः “मतयः स्तुतयः "तुभ्यं त्वदर्थं “जाताः अस्मदादिस्तोतृमुखादुत्पन्नाः । उच्चारिता इत्यर्थः । गोभिरश्वैः च सहितं “राधः त्वया दीयमानं हिरण्यादिकं धनम् “अभि “गृणन्ति अभिष्टुवन्ति । अस्मत् स्तुत्यनुरूपान्नमस्मभ्यं त्वया दत्तमिति प्रशंसन्ति । “यदा “मर्तः अस्मदादिको मनुष्यः “ते त्वया दीयमानं “भोगं भोगार्हं धनम् “अनु “आनट् प्राप्नोति लभते तदा हे “वसो प्रशस्यवसुमन् । यद्वा । स्वेन तेजसा सर्वस्याच्छादयितः । हे “सुजात शोभन कर्मार्थमुत्पन्नाग्ने त्वं “दधानः अस्मभ्यं धनं प्रयच्छन् “मतिभिः अस्मदीयाभिः स्तूयस इति शेषः ॥
अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् ।
अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥३
अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् ।
अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒म् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥३
अग्निम् । मन्ये । पितरम् । अग्निम् । आपिम् । अग्निम् । भ्रातरम् । सदम् । इत् । सखायम् ।
अग्नेः । अनीकम् । बृहतः । सपर्यम् । दिवि । शुक्रम् । यजतम् । सूर्यस्य ॥३
अहं स्तोता “पितरम् “अग्निम् एव “मन्ये जाने । “आपिं बन्धुम् “अग्निम् एव मन्ये । “भ्रातरम् “अग्निम् एव मन्ये । “सदमित् सदैवाविसंवादिनं “सखायम् अग्निमेव जानामि । “बृहतः महतः “अग्नेः “अनीकम् आहवनीयाख्यं मुखं “सपर्यं परिचरामि । तत्र लुप्तोपममेतत् । “दिवि द्युलोके स्थितं “यजतं यष्टव्यं पूजनीयं “सूर्यस्य संबन्धि “शुक्रं दीप्तिमत् मण्डलं यथा कश्चिदभिप्रेतार्थसिद्धये आराधयति तद्वत् ॥
सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।
ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥४
सि॒ध्राः । अ॒ग्ने॒ । धियः॑ । अ॒स्मे इति॑ । सनु॑त्रीः । यम् । त्राय॑से । दमे॑ । आ । नित्य॑ऽहोता ।
ऋ॒तऽवा॑ । सः । रो॒हित्ऽअ॑श्वः । पु॒रु॒ऽक्षुः । द्युऽभिः॑ । अ॒स्मै॒ । अह॑ऽभिः । वा॒मम् । अ॒स्तु॒ ॥४
सिध्राः । अग्ने । धियः । अस्मे इति । सनुत्रीः । यम् । त्रायसे । दमे । आ । नित्यऽहोता ।
ऋतऽवा । सः । रोहित्ऽअश्वः । पुरुऽक्षुः । द्युऽभिः । अस्मै । अहऽभिः । वामम् । अस्तु ॥४
हे “अग्ने “सनुत्रीः संभक्त्र्यः “अस्मे अस्माकं संबन्धिन्यः “धियः स्तुतयः “सिध्राः सिद्धा निष्पन्नाः । त्वदर्थमस्माभिः कृता इत्यर्थः । “दम “आ अस्मद्यज्ञगृहे मर्यादयावस्थितस्त्वं “नित्यहोता सततं होमनिष्पादको देवानामाह्वाता वा सन् “यं मां “त्रायसे कर्मवैगुण्यात् रक्षसि “सः अहं त्वत्प्रसादात् त्वत्सायुज्यं गतः सन् “ऋतवा यज्ञवान् सत्यवान् वा स्यामिति शेषः । "रोहिदश्वः रोहित्संज्ञकाश्वः “पुरुक्षुः बह्वन्नश्च स्याम् । किंच “अस्मै ईदृग्भूताय तुभ्यं “द्युभिः दीप्तेषु “अहभिः अहःसु दिवसेषु “वामं वननीयं हविः “अस्तु ।
द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् ।
बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥५
द्युऽभिः॑ । हि॒तम् । मि॒त्रम्ऽइ॑व । प्र॒ऽयोग॑म् । प्र॒त्नम् । ऋ॒त्विज॑म् । अ॒ध्व॒रस्य॑ । जा॒रम् ।
बा॒हुऽभ्या॑म् । अ॒ग्निम् । आ॒यवः॑ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥५
द्युऽभिः । हितम् । मित्रम्ऽइव । प्रऽयोगम् । प्रत्नम् । ऋत्विजम् । अध्वरस्य । जारम् ।
बाहुऽभ्याम् । अग्निम् । आयवः । अजनन्त । विक्षु । होतारम् । नि । असादयन्त ॥५
“द्युभिर्हितं दीप्तैराहितं “मित्रमिव स्निग्धमिव “प्रयोगं प्रयोक्तव्यं “प्रत्नं पुराणम् “ऋत्विजं होतृसंज्ञकम् । ' अग्निर्वे देवानां होतासीत् ' ( ऐ. ब्रा. २, ७; ३. १४ ) इति श्रुतेः । “अध्वरस्य यज्ञस्य “जारं समापयितारम् एवंभूतम् “अग्निमायवः यजमाना मनुष्याः “बाहुभ्याम् “अजनन्त जनितवन्तः । किंच “विक्षु मनुष्येषु । तदाकारेषु देवेष्वित्यर्थः । “होतारम् आह्वातारं “न्यसादयन्त नियमेन सादितवन्तः । देवानां यागार्थं निरूपितवन्त इत्यर्थः । ।
स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः ।
यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥६
स्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः॑ । कृ॒ण॒व॒त् । अप्र॑ऽचेताः ।
यथा॑ । अय॑जः । ऋ॒तुऽभिः॑ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥६
स्वयम् । यजस्व । दिवि । देव । देवान् । किम् । ते । पाकः । कृणवत् । अप्रऽचेताः ।
यथा । अयजः । ऋतुऽभिः । देव । देवान् । एव । यजस्व । तन्वम् । सुऽजात ॥६
हे “देव द्योतमानाग्ने त्वं “दिवि द्युलोके स्थितान् “देवान् इन्द्रादीन् “स्वयम् आत्मनैव “यजस्व । “पाकः पक्तव्यप्रज्ञः “अप्रचेताः अप्रकृष्टज्ञानो मनुष्यः “ते तव किं “कृणवत् किं करोति । त्वयानधिष्ठितः किंचिदपि न जानातीत्यर्थः । किंच हे “देव त्वम् “ऋतुभिः कालविशेषैः “देवान् “यथायजः इष्टवानसि “एव एवं हे “सुजात शोभनजन्मन्नग्ने “तन्वम् आत्मानमपि “यजस्व ।।
भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।
रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥७
भव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः ।
रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः॒ । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥७
भव । नः । अग्ने । अविता । उत । गोपाः । भव । वयःऽकृत् । उत । नः । वयःऽधाः ।
रास्व । च । नः । सुऽमहः । हव्यऽदातिम् । त्रास्व । उत । नः । तन्वः । अप्रऽयुच्छन् ॥७
हे “अग्ने त्वं “नः अस्माकम् “अविता दृष्टभयेभ्यो रक्षकः “भव भूयाः। “उत अपि च “गोपा: अदृष्टभयेभ्यो गोप्ता रक्षको भव । “उत अपि च “वयस्कृत् अन्नस्य कर्ता “भव । “वयोधा अन्नस्य दाता भव । हे “सुमहः सुष्ठु पूजनीयाग्ने त्वं स्वभूतां “हव्यदातिं हविषो दातिं “नः अस्मभ्यं “रास्व “च प्रयच्छ । “उत अपि च “नः अस्माकं स्वभूताः “तन्वः शरीराणि “अप्रयुच्छन् अप्रमाद्यन्' “त्रास्व पालय ॥ ॥ २॥
मण्डल १० | ||||
---|---|---|---|---|