सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.६७

विकिस्रोतः तः
← सूक्तं १०.६६ ऋग्वेदः - मण्डल १०
सूक्तं १०.६७
अयास्य आङ्गिरसः
सूक्तं १०.६८ →
दे. बृहस्पतिः। त्रिष्टुप्

आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदं सूक्तमावापार्थम्(आ.श्रौ. ७.९)

ऐरावतोपरि बृहस्पतिः


इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् ।
तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥
ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।
विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत् ॥३॥
अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥४॥
विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् ।
बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥५॥
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥६॥
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥७॥
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।
पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥


सायणभाष्यम्

‘ इमां धियम्' इति द्वादशर्चं सप्तमं सूक्तमाङ्गिरसस्यायास्यस्यार्षं त्रैष्टुभम् । इदमुत्तरं च बृहस्पतिदेवताकम् । तथा चानुक्रान्तम् - इमां धियं द्वादशायास्यो बार्हस्पत्यं तु ' इति । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदं सूक्तमावापार्थम् । सूत्रितं च -- इमां धियमिति ब्राह्मणाच्छंसी विष्णोर्नु कमिति सूक्ते' ( आश्व. श्रौ. ७. ९) इति ॥


इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् ।

तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥१

इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्र॑जाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् ।

तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः । अ॒यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥१

इमाम् । धियम् । सप्तऽशीर्ष्णीम् । पिता । नः । ऋतऽप्रजाताम् । बृहतीम् । अविन्दत् ।

तुरीयम् । स्वित् । जनयत् । विश्वऽजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥१

अत्रेतिहासमाचक्षते । पुर किलाङ्गिरा नामर्षिर्बृहस्पतिं पुत्रमलभत । स तु देवानां हितोपदेशनायेन्द्रस्य पुरोहितोऽभवत् । कदाचित्तस्य गावः पणिनामकैरसुरैरपहृत्य वलपुरं प्रापय्य त्रिषु स्थानेषु तमसावृतेषु स्थापिता आसन् । अथ तासामन्वेषणायेन्द्रेण प्रेरितो बृहस्पतिर्मरुद्भिः सह तत्रागत्य गवां गुहास्थितानां दर्शनाय सूर्यं जनयित्वा वलनामानमसुरं तदनुचरान् पणींश्च हत्वा गा आजहारेति । तदत्र दर्शयिष्यते । तथा चास्या ऋचोऽयमर्थः । “धियं कर्मणां धात्रीं “सप्तशीर्ष्णीं सप्तशिरस्कां सप्तभिः शिरःस्थानीयैस्तद्वत्प्रधानभूतैर्मरुद्गणैरुपेताम् । यद्वा सप्तच्छन्दोमयशिरस्काम् । “ऋतप्रजातां यज्ञार्थमुत्पन्नां “बृहतीं महतीम् “इमां तनुं “नः अस्माकं “पिता अङ्गिराः “अविन्दत् लब्धवान् । कर्मणां ध्यातारं बृहस्पतिं पुत्रमलभतेत्यर्थः । ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवत् ' (ऐ. ब्रा. ३. ३४ ) इति ब्राह्मणम् । तथा “तुरीयं “स्वित् नप्तारमपि “जनयत् अजनयत् “विश्वजन्यः सर्वजनहितः “इन्द्राय ईश्वराय बृहस्पतय इन्द्राय वा “उक्थं स्तोत्रं “शंसन् अयम् “अयास्यः नामर्षिः । पूर्वमेव नोऽस्माकं पिताकार्षीदित्याह ॥


ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।

विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥२

ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।

विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥२

ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः ।

विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥२

“ऋतं सत्यभूतं स्तोत्रं “शंसन्तः स्तुवन्तः “ऋजु कल्याणं "दीध्यानाः कर्माणि ध्यायन्तः “दिवः दीप्तस्य “असुरस्य प्रज्ञावतः अग्नेः “अङ्गिरसः पुत्रा: । अङ्गिरसो ह्यङ्गारेभ्यो जाता इत्युक्तम् । अङ्गारेष्वङ्गिराः ' ( निरु. ३. १७) इति । “वीराः विक्रान्तप्रज्ञा एतेऽङ्गिरसः “विप्रं प्रज्ञापकं “यज्ञस्य “धाम धारकं “पदं बृहस्पत्याख्यं “दधानाः कर्मणा धारयन्तः सन्तः “प्रथमम् आदित एव “मनन्त स्तुवन्ति । प्रज्ञापकं ह्येतत्स्थानं यद्बृहस्पतिरिति ॥


देवसुवां हविःषु बृहस्पतये वाचस्पतय इत्यस्य याज्या ‘ हंसैरिव' इत्येषा। सूत्रितं च--- ‘ बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः ' ( आश्व. श्रौ. ४. ११ ) इति ॥

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥३

हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् ।

बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥३

हंसैःऽइव । सखिऽभिः । वावदत्ऽभिः । अश्मन्ऽमयानि । नहना । विऽअस्यन् ।

बृहस्पतिः । अभिऽकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥३

“हंसैरिव मधुरवाग्भिः “सखिभिः सखिभूतैः “वावदद्भिः अत्यन्तै शब्दायमानैर्मरुद्भिः “अश्मन्मयानि अश्ममयानि “नहना गवां बन्धकान्यावरकाण्यसुराणां स्थानानि “व्यस्यन् विक्षिपन् शिथिलयन् “अभिकनिक्रदत् आभिमुख्येन शब्दयन् “गाः पणिभिरपहृतान् पशूनाजिहीर्षुः सः “बृहस्पतिः वर्तते । यद्वा । वावदद्भिरत्यन्तं स्तुवद्भिः स्तोतृभिः सह गाः स्तोत्रलक्षणा वाचोऽभिकनिक्रदत् आभिमुख्येनोच्चारयन् । “उत अपि च “प्रास्तौत् । कर्मणि प्रवृत्तौ यज्ञस्य सखिभिः सहासीनः साम गातुं प्रस्तौति । “विद्वान् सर्वं जानानः स उद्गाता भूत्वा “उत् “अगायत देवान् उद्गायति अभिष्टौति ॥


अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ ।

बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आव॑ः ॥४

अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ ।

बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः॑ ॥४

अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ ।

बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् । उस्राः । आ । अकः । वि । हि । तिस्रः । आवरित्यावः ॥४

पणयो गा आहृत्य त्रिषु स्थानेषु निदधुः । “अवः अवस्तात्स्थिताः “अनृतस्य तमसः “सेतौ स्थाने “गुहा गुहायां “तिष्ठन्तीः “गाः “द्वाभ्यां स्थानाभ्यामुदाजत् । ततः “परः परस्तादवस्थिता गाः “एकया एकेन स्थानेन उदगमयत् । तदेवाह। “बृहस्पतिः तस्मिन् “तमसि “ज्योतिः कर्तुम् “इच्छन् तत्र स्थिताः “उस्राः गाः “उत् “आकः उदकार्षीत् । प्रादुर्भूता अकार्षीत् । इत्थमयं तिस्रः असुराणां द्वारः “वि “आवः विवृतवान् खलु। वृणोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक्। ‘ बहुलं छन्दसि' इत्याडगमः ॥


वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।

बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥५

वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् ।

बृह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥५

विऽभिद्य । पुरम् । शयथा । ईम् । अपाचीम् । निः । त्रीणि । साकम् । उदऽधेः । अकृन्तत् ।

बृहस्पतिः । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्ऽइव । द्यौः ॥५

सः “बृहस्पतिः “शयथा “उपशयेन स्थित्वा “अपाचीं पराङ्मुखीम् “ईम् इमाम् असुरपुरीं “विभिद्य विदार्य “उदधेः वलात् मेघरूपादसुरात् “साकं सह युगपत् “त्रीणि उषसं “सूर्यं “गाम् एतानि त्रीणि “निः अकृन्तत् निर्गतमकार्षीत्। तमसावृतेषु स्थानेषूषःकालं ततः पश्चाद्भाविनं सूर्यं च जनयित्वा पशून्निरगमयदित्यर्थः । सोऽयम् “अर्कम् अर्चनीयं मन्त्रं सूर्यं “विवेद प्रज्ञापयति । कथमिव । यथा “स्तनयन् शब्दं कुर्वन् “द्यौः “इव स्थितः ॥


इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।

स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥६

इन्द्रः॑ । व॒लम् । र॒क्षि॒तार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ । रवे॑ण ।

स्वेदा॑ञ्जिऽभिः । आ॒ऽशिर॑म् । इ॒च्छमा॑नः । अरो॑दयत् । प॒णिम् । आ । गाः । अ॒मु॒ष्णा॒त् ॥६

इन्द्रः । वलम् । रक्षितारम् । दुघानाम् । करेणऽइव । वि । चकर्त । रवेण ।

स्वेदाञ्जिऽभिः । आऽशिरम् । इच्छमानः । अरोदयत् । पणिम् । आ । गाः । अमुष्णात् ॥६

“इन्द्रः ईश्वरो बृहस्पतिः “दुघानां क्षीरस्य दोग्ध्रीणां गवां “रक्षितारं “वलम् असुरं “करेणेव सायुधकर इव स्थितेन “रवेण शब्देन वलं “वि “चकर्त विचिच्छेद । किंच “स्वेदाञ्जिभिः । स्वेदाञ्जयो मरुतः क्षरदाभरणाः । तैः सह “आशिरम् आश्रयणं संयोगम् “इच्छमानः कामयमानः सः “पणिं वलस्थानुचरमेतन्नामानमसुरम् “अरोदयत् व्यनाशयत् । ततस्तेनापहृताः “गाः "अमुष्णात् आजहार ॥ ॥ १५ ॥


स ईं॑ स॒त्येभि॒ः सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥७

सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् । वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः ।

ब्रह्म॑णः । पतिः॑ । वृष॑ऽभिः । व॒राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥७

सः । ईम् । सत्येभिः । सखिऽभिः । शुचत्ऽभिः । गोऽधायसम् । वि । धनऽसैः । अदर्दरित्यदर्दः ।

ब्रह्मणः । पतिः । वृषऽभिः । वराहैः । घर्मऽस्वेदेभिः । द्रविणम् । वि । आनट् ॥७

“सः बृहस्पतिः सत्येभिः यथार्थबलैः “सखिभिः सखिभूतैः “शुचद्भिः दीप्यमानैः “धनसैः धनस्य संभक्तृभिर्मरुद्भिः सह “गोधायसं गवां धारकम् “ईम् एनं वलं “वि “अदर्दः व्यदारयत्। ततः “ब्रह्मणः ऋग्यजुःसामलक्षणस्य स्तोत्रस्य “पतिः अधिपतिः सः “वृषभिः वर्षितृभिः “वराहैः वराहारैर्वरस्य वरणीयस्योदकस्याहर्तृभिः “घर्मस्वेदेभिः दीप्तागमनैः । यद्वा क्षरदुदकैः । अथवा घर्मो यज्ञः । तं प्रति गन्तृभिः मरुद्भिः “द्रविण गोलक्षणं धनं “व्यानट् व्याप्नोत् ।।


ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः ।

बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भि॑ः ॥८

ते । स॒त्येन॑ । मन॑सा । गोऽप॑तिम् । गाः । इ॒या॒नासः॑ । इ॒ष॒ण॒य॒न्त॒ । धी॒भिः ।

बृह॒स्पतिः॑ । मि॒थःऽअ॑वद्यपेभिः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त॒ । स्व॒युक्ऽभिः॑ ॥८

ते । सत्येन । मनसा । गोऽपतिम् । गाः । इयानासः । इषणयन्त । धीभिः ।

बृहस्पतिः । मिथःऽअवद्यपेभिः । उत् । उस्रियाः । असृजत । स्वयुक्ऽभिः ॥८

“गाः पणिभिरपहृतान् पशून् “इयानासः अभिगच्छन्तः “सत्येन यथार्थभूतेन “मनसा युक्ताः "ते मरुतः “धीभिः आत्मीयैः कर्मभिरेतं बृहस्पतिं “गोपतिं तदाहरणेन गवां स्वामिनं कुर्म इति “इषणयन्त ऐच्छन् । “बृहस्पतिः च “मिथोअवद्यपेभिः । पातेः कर्मण्यौणादिकः कप्रत्ययः । अवद्यरूपादसुराद्रक्षितव्या गावो येषु मरुत्सु परस्परं संगच्छन्त इति ते तथोक्ताः । तैः “स्वयुग्भिः स्वयमेव युक्तैर्मरुद्भिः "उस्रियाः गाः “उत् “असृजत पर्वतान्निरगमयत् ॥


तं व॒र्धय॑न्तो म॒तिभि॑ः शि॒वाभि॑ः सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।

बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥९

तम् । व॒र्धय॑न्तः । म॒तिऽभिः॑ । शि॒वाभिः॑ । सिं॒हम्ऽइ॑व । नान॑दतम् । स॒धऽस्थे॑ ।

बृह॒स्पति॑म् । वृष॑णम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥९

तम् । वर्धयन्तः । मतिऽभिः । शिवाभिः । सिंहम्ऽइव । नानदतम् । सधऽस्थे ।

बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९

“सधस्थे । सह तिष्ठन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् “सिंहमिव “नानदतं पुनःपुनः शब्दायमानं “वृषणं कामानां वर्षितारं “जिष्णुं जयशीलं “तं “बृहस्पतिं “वर्धयन्तः मरुतो वयं “शूरसातौ शूरैः संभजनीये “भरेभरे संग्रामे “शिवाभिः कल्याणीभिः स्तुतिभिः “अनु “मदेम अनुष्टुमः । स्तोतृपरत्वेन वा योजनीयम् ॥


य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।

बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥१०

य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म॑ ।

बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ । बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥१०

यदा । वाजम् । असनत् । विश्वऽरूपम् । आ । द्याम् । अरुक्षत् । उत्ऽतराणि । सद्म ।

बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा ॥१०

स बृहस्पतिः “यदा यस्मिन् काले “विश्वरूपं नानारूपं “वाजं गोलक्षणमन्नम् “असनत् भजते यदा वाहृतपशुकः सन् “द्यां द्युलोकम् “अरुक्षत् आरोहति अथवा “उत्तराणि वा “सद्म स्थानान्यारोहति । रुहेर्लुङि च्लेः ‘शल इगुपधादनिटः क्सः । ( पा. सू. ३. १. ४५ )। तदानीं “वृषणं वर्षितारं “बृहस्पतिम् “आसा आस्येन देवाः “वर्धयन्तः भवन्ति । तथा “नाना दिक्षु “सन्तः भवन्तः “ज्योतिः “बिभ्रतः धारयन्तो देवाश्च स्तुवन्ति ।।


स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवै॑ः ।

प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥११

स॒त्याम् । आ॒ऽशिष॑म् । कृ॒णु॒त॒ । व॒यः॒ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभिः॑ । एवैः॑ ।

प॒श्चा । मृधः॑ । अप॑ । भ॒व॒न्तु॒ । विश्वाः॑ । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥११

सत्याम् । आऽशिषम् । कृणुत । वयःऽधै । कीरिम् । चित् । हि । अवथ । स्वेभिः । एवैः ।

पश्चा । मृधः । अप । भवन्तु । विश्वाः । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥११

हे बृहस्पतिप्रभृतयो देवाः “वयोधै अन्नस्य निधानायास्मदीयाम् “आशिषं स्तुतिं “सत्यां यथार्थां “कृणुत कुरुत । तथा यूयं “स्वेभिः आत्मीयैः “एवैः गमनैः “कीरिं स्तोतारं माम् “अवथ रक्षथ । हिरवधारणे । “पश्चा। ‘ °पश्चा च च्छन्दसि ' (पा. सू. ५. ३. ३३ ) इति निपातितः । पश्चात् “विश्वाः सर्वाः “मृधः हिंसित्र्यः “अप “भवन्तु नश्यन्तु। “तत् इदमस्माभिरुक्तं वचनं हे “विश्वमिन्वे विश्वस्य प्रीणयित्र्यौ हे “रोदसी द्यावापृथिव्यौ “शृणुतम् ॥


इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।

अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥१२

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ।

अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥१२

इन्द्रः । मह्ना । महतः । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ।

अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥१२

“इन्द्रः ईश्वरः “मह्ना महत्त्वेन युक्तो बृहस्पतिः “महतो “अर्णवस्य उदकवतः “अर्बुदस्य अम्बुदस्य मेघस्य “मूर्धानं शिरः “वि “अभिनत् व्यच्छिनत् । तदुच्यते । “अहिम् अन्तव्यमपामावरकं शत्रुम् “अहन् अवधीत् । ततः “सप्त सर्पणशीलाः “सिन्धून् स्यन्दमाना अपः । यद्वा । सप्तसंख्याका गङ्गाद्या नदीः । “अरिणात् समुद्रं प्रत्यगमयत् । अस्रावयद्वा । अथ प्रत्यक्षकृतः । हे द्यावापृथिव्यौ “देवैः सह “नः अस्मान् “प्रावतं प्ररक्षतम् ॥ ॥ १६ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६७&oldid=400549" इत्यस्माद् प्रतिप्राप्तम्