ऋग्वेदः सूक्तं १०.६३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.६२ ऋग्वेदः - मण्डल १०
सूक्तं १०.६३
गयः प्लातः
सूक्तं १०.६४ →
दे. विश्वे देवाः, १५-१६ पथ्या स्वस्तिः। जगती, १५ त्रिष्टुब्वा, १६-१७ त्रिष्टुप्।


परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः ।
ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥१॥
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः ।
ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥२॥
येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ।
उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥३॥
नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः ।
ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥४॥
सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् ।
ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये ॥५॥
को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन ।
को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥६॥
येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः ।
त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥७॥
य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः ।
ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥८॥
भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम् ।
अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥९॥
सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥१०॥
विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः ।
सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥११॥
अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः ।
आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ॥१२॥
अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि ।
यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥१३॥
यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।
प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥१४॥
स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।
स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥१५॥
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥१६॥
एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥१७॥


सायणभाष्यम्

‘ परावतो ये' इति सप्तदशर्चं तृतीयं सूक्तं प्लतेः पुत्रस्य गयस्यार्षम् । षोडशीसप्तदश्यौ त्रिष्टुभौ । पञ्चदशी त्रिष्टुब्जगती वा । शिष्टाश्चतुर्दश जगत्यः । ‘ स्वस्ति नः पथ्यासु' इति द्वे पथ्यास्वस्तिदेवताके। शिष्टा वैश्वदेव्यः । तथा चानुक्रान्तं -- परावतस्त्र्यूना गयः प्लातो द्वित्रिष्टुबन्तं तु स्वस्ति नस्त्रिटुब्वा सह चोत्तरया पथ्यास्वस्तिदेवत्या' इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहनि वैश्वदेवशस्त्र एतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रित च -– अनश्वो जातः परावतो य इति वैश्वदैवम् ' ( आश्व. श्रौ. ७. ७) इति ॥


प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।

य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥१

प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः ।

य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥१

पराऽवतः । ये । दिधिषन्ते । आप्यम् । मनुऽप्रीतासः । जनिम । विवस्वतः ।

ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः ॥१

"ये देवाः “परावतः दूरदेशादागत्य “आप्यं ज्ञातेयं मनुष्यैः सह बन्धुत्वं “दिधिषन्ते धारयन्ति । यद्वा । हविषां प्रदातृभिर्मनुष्यैः सह सख्यं कुर्म इति परस्परं शब्दायन्ते । धिष शब्दे । जौहोत्यादिकः । छान्दसो झस्यान्तादेशः । ‘ धिष धारणे इति कैश्चिदप्युपगम्यते । उक्तार्थमेव विशिनष्टि । "मनुप्रीतासः मनुष्यैः प्रीता देवाः “विवस्वतः विवस्वत्पुत्रस्य मनोः “जनिम जन्मानि मनुष्यान् धारयन्ति । किंच “ये “देवाः “नहुष्यस्य नहुषपुत्रस्य “ययातेः एतन्नामकस्य राजर्षेः “बर्हिषि यज्ञे “आसते उपविशन्ति “ते देवाः “नः अस्मान् “अधि “ब्रुवन्तु धनादिप्रदानेनास्मानधिकं वदन्तु ! पूजयन्त्वित्यर्थः ॥


विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।

ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥२

विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ ।

ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥२

विश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः ।

ये । स्थ । जाताः । अदितेः । अत्ऽभ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥२

हे “देवाः इन्द्रादयः । हिरवधारणे । “वः युष्माकमेव “नामानि नमनीयानि “विश्वा सर्वाणि शरीराणि "नमस्यानि नमस्कारार्हाणि भवन्ति “वन्द्या वन्द्यानि स्तोतव्यानि च भवन्ति । “उत अपि च “वः युष्माकं तानि शरीराणि “यज्ञियानि यज्ञार्हाणि भवन्ति । “ये यूयम् “अदितेः अदीनात् द्युलोकात् “अद्भ्यः । अन्तरिक्षनामैतत् । अन्तरिक्षात् । परिः पञ्चम्यर्थद्योतकः । “पृथिव्याः च “जाताः प्रादुर्भूताः “स्थ भवथ “ते यूयम् “इह अस्मिन्यज्ञे आगत्य “मे मदीयं “हवम् आह्वानं “श्रुत शृणुत ॥ ।


अग्निष्टोमे वैश्वदेवशस्त्रे ‘येभ्यो माता' इत्येषा धाय्या । सूत्रितं च -- अयं वेनश्चोदयत्पृश्निगर्भा येभ्यो माता मधुमत् ' ( आश्व. श्रौ. ५. १८) इति ॥

येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑ः पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।

उ॒क्थशु॑ष्मान्वृषभ॒रान्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥३

येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः ।

उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । सु॒ऽअप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥३

येभ्यः । माता । मधुऽमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिऽबर्हाः ।

उक्थऽशुष्मान् । वृषऽभरान् । सुऽअप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥३

“माता सर्वस्य निर्मात्री पृथिवी “येभ्यः देवेभ्यो देवार्थं “मधुमत् माधुर्योपेतं पयः सारभूतं. क्षीरं “पिन्वते क्षरति । तथा “अदितिः अदीना “अद्रिबर्हा: मेघैः परिवृढा प्रवृद्धा परिवृद्धमेघा वा “द्यौः च “पीयूषं पिन्वते । द्यावापृथिव्यौ हविरुत्पादयत इत्यर्थः । ऋषिरात्मानं संबोध्याह । “उक्थशुष्मान् स्तुतिबलान् “वृषभरान् वृष्टेराहर्तॄन् । “ ह्रग्रहोर्भः' इति भः । “स्वप्नसः सुकर्मणः “तानादित्यान् अदितेः पुत्रान् देवान् “स्वस्तये अविनाशाय “अनु “मद अनुस्तुहि । माद्यतेर्लोटि व्यत्ययेन शप् । मन्दतेर्वा स्तुत्यर्थस्य अनित्यमागमशासनम् ' इति नुमभावः ॥


नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।

ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥४

नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ।

ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥४

नृऽचक्षसः । अनिऽमिषन्तः । अर्हणा । बृहत् । देवासः । अमृतऽत्वम् । आनशुः ।

ज्योतिःऽरथाः । अहिऽमायाः । अनागसः । दिवः । वर्ष्माणम् । वसते । स्वस्तये ॥४

“नृचक्षसः कर्मनेतॄणां मनुष्याणां द्रष्टारः अत एव “अनिमिषन्तः निमेषमकुर्वाणाः सर्वदा जागरूकाः “देवासः देवाः “अर्हणा लोकस्य परिचरणार्थं स्तोतव्यत्वाय “बृहत् बृंहितम् "अमृतत्वम् अमरणधर्मम् “आनशुः प्राप्ताः । देवाः खलु मनुष्यैः पूज्याः । तस्मात्पूजाहेतुं देवत्वमानशिरे। अत एव “ज्योतीरथाः दीप्यमानरथोपेताः “अहिमायाः कैश्चिदप्यहन्तव्यप्रज्ञाः “अनागसः पापरहिता आदित्याः “दिवः द्युलोकस्य “वर्ष्माणं नाभिस्थानं समुच्छ्रितं देशं “स्वस्तये अविनाशाय लोकस्य क्षेमकरणार्थं “वसते अधिवसन्ति । यद्वा स्वतेजसाच्छादयन्ति ।।


स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् ।

ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥५

स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् ।

तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥५

सम्ऽराजः । ये । सुऽवृधः । यज्ञम् । आऽययुः । अपरिऽह्वृताः । दधिरे । दिवि । क्षयम् ।

तान् । आ । विवास । नमसा । सुवृक्तिऽभिः । महः । आदित्यान् । अदितिम् । स्वस्तये ॥५

“सम्राजः सर्वेषां राजानः स्वतेजोभिः सम्यग्राजमानाः “सुवृधः सुवृद्धाः "ये देवाः “यज्ञमाययुः आयान्ति सोमादिहविर्भक्षणार्थम् । ततः “अपरिह्वृताः कैश्चिदप्यहिंसिता ये देवाः “दिवि द्युलोके “क्षयं निवासं “दधिरे विदधति कुर्वन्ति । ऋषिरात्मानमाह। “महः महतो गुणाधिक्येन “आदित्यान् अदितेः पुत्रान् “तान् प्रसिद्धान् देवान् “अदितिं तेषां मातरमेतन्नामिकां च “स्वस्तये अविनाशाय “नमसा हवीरूपेणान्नेन “सुवृक्तिभिः शोभनाभिः स्तुतिभिश्च “आ “विवास आभिमुख्येन परिचर । विवासतिः परिचरणकर्मा ॥ ॥ ३ ॥


को व॒ः स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।

को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो न॒ः पर्ष॒दत्यंह॑ः स्व॒स्तये॑ ॥६

कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ ।

कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥६

कः । वः । स्तोमम् । राधति । यम् । जुजोषथ । विश्वे । देवासः । मनुषः । यति । स्थन ।

कः । वः । अध्वरम् । तुविऽजाताः । अरम् । करत् । यः । नः । पर्षत् । अति । अंहः । स्वस्तये ॥६

ऋषिर्दैवान् प्रति बहुधा वितर्कयति । हे देवाः “वः युष्माकं “कः स्तोता “स्तोमं त्रिवृत्पञ्चदशादिलक्षणं “राधति संसाधयति । न कश्चिदस्तीत्यर्थः । यद्वा । मदन्यः को वो युष्मभ्यं स्तोमं करोति । यूयं “यं स्तोतारं “जुजोषथ सेवध्वे । ‘ जुषी प्रीतिसेवनयोः ' । लेटि शपः श्लुः । अड़ागमः । किंच हे "मनुषः मन्तारो ज्ञातारो हे “विश्वे “देवासः देवा यूयं “यति यत्संख्याः “स्थन भवथ ।। यच्छब्दादपि छान्दसो डतिर्दृष्टव्यः । हे “तुविजाताः धावादिविभागेन बहुजनता हे देव। युष्मदर्थं “कः वा यजमानः “अध्वरे यज्ञम् “अरं “करत अलंकरोति स्तुतिभिर्हविर्भिश्च । मदन्यो नास्तीत्यर्थः । “यः यज्ञः “नः अस्मान् “स्वस्तये अविनाशाय “अंहः पापरूपं मार्गमवैदिकं “अति “पर्षत् अतिपारयति तं यज्ञं को वालंकरोतीति ।।


येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒ः समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।

त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा न॑ः कर्त सु॒पथा॑ स्व॒स्तये॑ ॥७

येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः ।

ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥७

येभ्यः । होत्राम् । प्रथमाम् । आऽयेजे । मनुः । समिद्धऽअग्निः । मनसा । सप्त । होतृऽभिः ।

ते । आदित्याः । अभयम् । शर्म । यच्छत । सुऽगा । नः । कर्त । सुऽपथा । स्वस्तये ॥७

“समिद्धाग्निः हविर्भिः सम्यग्दीप्ताग्निः “मनुः वैवस्वतो मनुष्याणां प्रथमभावी श्रद्धधानेन “मनसा “सप्त सप्तसंख्याकैः “होतृभिः वषट्कर्तृभिर्ऋत्विग्भिश्च सह “येभ्यः युष्मभ्यं “प्रथमां प्रथमं मुख्यं यद्वा सर्वेषां मनुष्याणामग्रे क्रियमाणत्वादाद्यं “होत्राम् । हूयन्ते हवींष्यत्रेति होत्रा यज्ञः । तम् । यद्वा । आहूयन्ते देवाः स्तुतिभिरत्रेति । तं यज्ञम् “आयेजे आभिमुख्येनेष्टवान् । यजेर्लिटि रूपम् । यद्वा । लटि लोपस्त आत्मनेपदेषु ' इति तलोपः। ‘ यजिवप्योरलिट्येत्वं वक्तव्यम्। (का. ६, ४, १२०. ४ ) इति वचनादेकारः । हे “आदित्याः अदितेः पुत्रा हे देवा: “ते यूयं नोऽस्मभ्यम् “अभयं “शर्म च सुखं प्रयच्छत् । किंच “नः अस्माकं “स्वस्तये क्षेमाय “सुपथा सुपथानि शोभनान् वैदिकमार्गान् “सुगा सुष्ठु गन्तव्यान् “कर्त कुरुत । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तबादेशः ॥


य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः ।

ते न॑ः कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥८

ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः ।

ते । नः॒ । कृ॒तात् । अकृ॑तात् । एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥८

ये । ईशिरे । भुवनस्य । प्रऽचेतसः । विश्वस्य । स्थातुः । जगतः । च । मन्तवः ।

ते । नः । कृतात् । अकृतात् । एनसः । परि । अद्य । देवासः । पिपृत । स्वस्तये ॥८

“प्रचेतसः प्रकृष्टज्ञानाः “मन्तवः सर्वस्य वेदितार: “ये देवा: “स्थातुः स्थावरस्य “जगतः जङ्गमस्य “विश्वस्य सर्वस्य “भुवनस्य लोकस्य “ईशिरे ईश्वरा भवन्ति । अथ प्रत्यक्षकृतः । हे “देवासः देवा य उक्तगुणाः “ते यूयं “नः अस्मान् “कृतात् कायिकात्पापात् “अकृतात् करचरणादिभिरकृतात् “एनसः किंतु मानसात्पापाच्च “अद्य अस्मिन्दिने “स्वस्तये अविनाशायायुषोऽभिवृद्धये “पिपृत पारयत । पापरहितान् कुरुतेत्यर्थः ।।


भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् ।

अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुत॑ः स्व॒स्तये॑ ॥९

भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् ।

अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥९

भरेषु । इन्द्रम् । सुऽहवम् । हवामहे । अंहःऽमुचम् । सुऽकृतम् । दैव्यम् । जनम् ।

अग्निम् । मित्रम् । वरुणम् । सातये । भगम् । द्यावापृथिवी इति । मरुतः । स्वस्तये ॥९

"अंहोमुचम् अंहसः पापस्य मोचकं “सुहवं शोभनाह्वानम् “इन्द्रं “भरेषु । भृणन्ति भर्जयन्ति विनाशयन्ति शत्रूनत्रेति भराः संग्रामाः । तेषु “हवामहे रक्षणायाह्वयामः । किंच “सुकृतं सुकर्माणं “दैव्यं देवसंबन्धिनमन्यं “जनं चाह्वयामहे । तं जनमुद्दिशति । “अग्निं “मित्रं “वरुणं “भगं भजनीयमेतन्नामानं देवं “द्यावापृथिवी द्यावापृथिव्यौ “मरुतः च “सातये अन्नलाभाय “स्वस्तये अविनाशाय रक्षणायाह्वयामहे ।।


अदितिदेवताकस्य पशोः ‘सुत्रामाणम्' इत्येषा वपायागस्य याज्या । सूत्रितं च -- अदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसम् ' (आश्व. श्रौ.. ३. ८) इति । प्रायणीयेष्टावादित्यस्य हविष एषैवानुवाक्या सैवोदयनीयायां याज्या । सूत्रितं च --- सुत्रामाणं पृथिवीं द्यामनेहसं महीमू षु मातरं सुव्रतानाम् ' ( आश्व. श्रौ. ४. ३ ) इति । प्रयाणेऽनयैव नावमारोहेत् । सूत्रितं च -- सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् ' (आश्व. गृ. २. ६. ८) इति ।।

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।

दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥१०

सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ।

दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥१०

सुऽत्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ।

दैवीम् । नावम् । सुऽअरित्राम् । अनागसम् । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥१०

द्युलोको नौरूपकतया स्तूयते । “सुत्रामाणं सुष्ठु त्रायन्तीं “पृथिवीं विस्तृताम् “अनेहसं पापरहितां “सुशर्माणं शोभनसुखयुक्ताम् “अदितिम् अदीनां “सुप्रणीतिं सुप्रणयनां सुष्ठु प्रणेत्रीं “दैवीं देवसंबन्धिनीं “स्वरित्रां शोभनारित्रां जलाहरणशीलदारुयुक्ताम् “अनागसं पापरहिताम् “अस्रवन्तीं अगच्छन्तीमविनश्वरीं “नावं नावमिव स्थितां “द्यां “स्वस्तये अविनाशाय देवत्वप्राप्तये “आ “रुहेम वयमारोहेम । रोहतेर्लिङि ‘ लिङयाशिष्यङ् ' इत्यङ्प्रत्ययः ॥ ॥ ४ ॥


विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुत॑ः ।

स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥११

विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ ।

स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥११

विश्वे । यजत्राः । अधि । वोचत । ऊतये । त्रायध्वम् । नः । दुःऽएवायाः । अभिऽह्रुतः ।

सत्यया । वः । देवऽहूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये ॥११

हे यजत्राः यजनीया हे “विश्वे सर्वे देवा यूयम् “ऊतये रक्षणार्थम् “अधि “वोचत अस्मानधिब्रूत । आभाष्य च “अभिह्रुतः अभिहिंसित्र्याः “दुरेवायाः दुर्गतेः “नः अस्मान् “त्रायध्वम् । यद्येवं कुरुथ तर्हि हे “देवाः “शृण्वतः स्तोत्राण्यस्माभिरुक्तानि तादृशान् “वः युष्मान् “सत्यया यथार्थभूतया “देवहूत्या । देवा हूयन्तेऽनयेति देवहूतिः स्तुतिः । तया वयं “हुवेम आह्वयेम । किमर्थम् । “अवसे रक्षणाय शत्रुभ्यः “स्वस्तये क्षेमाय जीवनाभिवृद्धये च ॥


अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।

आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु ण॒ः शर्म॑ यच्छता स्व॒स्तये॑ ॥१२

अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः ।

आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥१२

अप । अमीवाम् । अप । विश्वाम् । अनाहुतिम् । अप । अरातिम् । दुःऽविदत्राम् । अघऽयतः ।

आरे । देवाः । द्वेषः । अस्मत् । युयोतन । उरु । नः । शर्म । यच्छत । स्वस्तये ॥१२

हे “देवाः “अमीवां रोगादिकं यद्वा रोगवद्बाधकं शत्रुमस्मत्तो दूरे “अप कुरुत पृथक्कुरुत । तथा “विश्वां सर्वाम् “अनाहुतिं देवानामनाह्वानबुद्धिं यद्वा देवानां महाशत्रुं पृथक्कुरुत । किंच “अरातिम् अदानं लोभबुद्धिं यद्वा देवेभ्यो हविषामदातारं शत्रुम् “अप गमयत । अपि च “अघायतः पापमिच्छतः शत्रोः “दुर्विदत्रां दुर्ज्ञानं दुष्टां बुद्धिम् इत्थं च “द्वेषः द्वेष्टॄन् सर्वाञ्छत्रून् “अस्मत् अस्मत्तः “आरे दूरे "युयोतन पृथक्कुरुत । एवं सति यूयं “नः अस्मभ्यम् “उरु विस्तीर्णं "शर्म सुखं “स्वस्तये कल्याणाय प्रयच्छत ।।


अरि॑ष्ट॒ः स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।

यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥१३

अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ ।

यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥१३

अरिष्टः । सः । मर्तः । विश्वः । एधते । प्र । प्रऽजाभिः । जायते । धर्मणः । परि ।

यम् । आदित्यासः । नयथ । सुनीतिऽभिः । अति । विश्वानि । दुःऽइता । स्वस्तये ॥१३

हे देवाः “विश्वः सर्वः “मर्तः “सः मनुष्यः “अरिष्टः कैश्चिदप्यहिंसितः सन् “एधते प-श्वादिभिर्वर्धते । तथा “धर्मणस्परि धारकात्कर्मणोऽनन्तरं से मनुष्यः “प्रजाभिः पुत्रादिभिः “प्र “जायते प्रकर्षेणाविर्भूतो भवति । हे “आदित्यासः आदित्या देवा: “यं मनुष्यं “सुनीतिभिः सुनयनैः “विश्वानि सर्वाणि “दुरिता दुरितानि पापानि तद्रूपाञ्छत्रून्वा “स्वस्तये क्षेमाय “अति “नयथ अतीत्य सन्मार्गे नयथ । स वर्धत इति समन्वयः ॥


यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ ।

प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥१४

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ ।

प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥ १४

यम् । देवासः । अवथ । वाजऽसातौ । यम् । शूरऽसाता । मरुतः । हिते । धने ।

प्रातःऽयावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये ॥१४

हे “देवासः देवाः “वाजसातौ अन्नभजनेऽन्नलाभे वा “यं रथम् “अवथ रक्षथ हे “मरुतः “शूरसाता। संग्रामनामैतत् शूराः स्यन्ति खिद्यन्तेऽत्रेति शूराः सीयन्ते विनाश्यन्ते योद्धृभिरत्रेति । तस्मिन्युद्धे “यं रथं “हिते निहिते “धने धनमुद्दिश्य । ‘ निमित्तात्कर्मसंयोगे ' ( प. सू. २. ३. ३६. ६) इति सप्तमी । तदुद्दिश्य रक्षथ । सर्वेषां देवानां मुख्यत्वादिन्द्रमेवाभिलक्ष्य वदत्युत्तरार्धेन। हे “इन्द्र सर्वेषां मुख्य प्रातर्यावाणं प्रातरेव युद्धं प्रति गन्तारं “सानसिं संभजनीयम् “अरिष्यन्तं कैश्चिदप्यहिंसितम् । यद्वा । इन्द्रसहायानां मरुतामबाधकम् । तं “रथं “स्वस्तये अस्माकं रक्षणाय वयम् “आ “रुहेम आरोहेम ।


प्रायणीयेष्टौ पथ्यास्वस्तेर्यागस्य ' स्वस्ति नः पथ्यासु ' इत्येषानुवाक्या । उत्तरा याज्या । सूत्रितं च ---- स्वस्ति नः पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्मान् ' ( आश्व. श्रौ. ४. ३ ) इति । उदयनीयायामेत एव विपर्यस्ते याज्यानुबाक्ये । सूत्रितं च -- विपरीताश्च याज्यानुवाक्याः ' इति ॥

स्व॒स्ति न॑ः प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति ।

स्व॒स्ति न॑ः पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥१५

स्व॒स्ति । नः॒ । प॒थ्या॑सु । धन्व॑ऽसु । स्व॒स्ति । अ॒प्ऽसु । वृ॒जने॑ । स्वः॑ऽवति ।

स्व॒स्ति । नः॒ । पु॒त्र॒ऽकृ॒थेषु॑ । योनि॑षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥१५

स्वस्ति । नः । पथ्यासु । धन्वऽसु । स्वस्ति । अप्ऽसु । वृजने । स्वःऽवति ।

स्वस्ति । नः । पुत्रऽकृथेषु । योनिषु । स्वस्ति । राये । मरुतः । दधातन ॥१५

हे “मरुतः मितराविणो देवाः “नः अस्माकं “पथ्यासु पथियोग्येषु सोदकेषु देशेषु “स्वस्ति कल्याणं कुरुत । तथा “धन्वसु निरुदकेषु देशेषु "स्वस्ति कल्याणमुदकजननलक्षणं कुरुत । तथा “अप्सु उदकेषु स्वस्ति । तथा “स्वर्वति सर्वैरायुधैर्युक्ते सेनालक्षणे “वृजने शत्रूणामावर्जके बले च कल्याणं कुरुत । “नः अस्माकं “पुत्रकृथेषु पुत्राणां कर्तृषूत्पादकेषु स्त्रीणां “योनिषु “स्वस्ति कल्याणं यथा गर्भा न पतन्ति तथा क्षेमं कुरुत । किंच नोऽस्माकं “राये धनाय गवादिलक्षणाय “स्वस्ति क्षेमं “दधातन धत्त कुरुत ॥


स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।

सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥१६

स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ ।

सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥१६

स्वस्तिः । इत् । हि । प्रऽपथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति ।

सा । नः । अमा । सो इति । अरणे । नि । पातु । सुऽआवेशा । भवतु । देवऽगोपा ॥१६

या पृथिवी गन्तुमुद्युक्तानां “प्रपथे प्रकृष्टाय मार्गाय “स्वस्तिरित् क्षेमकारिण्येव भवति “श्रेष्ठा प्रशस्यतमा “रेक्णस्वती धनवती “या पृथिवी “वामं वननीयं यशम् “अभि “एति उत्तरवेद्यात्मना वाभिप्राप्नोति “सा पृथिवी “नः “अस्माकम् “अमा। गृहनामैतत् । गृहं रक्षतु । तथा “सो सा उ सैव “अरणे गन्तव्ये देशेऽरणेऽरमणेऽरण्यादिके देशे वा नोऽस्मान् “नि “पातु नितरां रक्षतु । तथा “देवगोपा देवा गोपयितारो यस्याः सन्ति सा पृथिव्यस्माकं “स्वावेशा शोभननिवासा “भवतु ॥


ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।

ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥१७

ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।

ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥१७

एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।

ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥१७

हे “विश्वे “आदित्याः सर्वे देवाः हे “अदिते देवानां मातरेतन्नामिके देवि “वः युष्मान् “मनीषी प्राज्ञः स्तोता “प्लतेः एतन्नामकस्यर्षेः “सूनुः पुत्री गयो नामं “एव एवमुक्तरीत्या “अवीवृधत् स्तुतिभिरवर्धयत् । वर्धतेर्ण्यन्तस्य लुङि रूपम् । “अमर्त्येन मनुष्यधर्मरहितेन स्तुतेन येन देवजनेन “नरः मनुष्याः “ईशानासः धनस्येश्वराः स्वामिनो भवन्ति सः “दिव्यः दिवि भवः “जनः देवगणः “गयेन एतन्नामकेन मया “अस्तावि अभिष्टुतोऽभूत् । स्तौतेः कर्मणि लुङि चङि रूपम् ॥ ॥ ५ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६३&oldid=202405" इत्यस्माद् पुनः प्राप्तिः