ऋग्वेदः सूक्तं १०.६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.५९ ऋग्वेदः - मण्डल १०
सूक्तं १०.६०
बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः, ६ अगस्त्यस्वसा एषां माता ऋषिका।
सूक्तं १०.६१ →
दे. १-४, ६ असमातिः, ५ इन्द्रः, ७-११ जीवः, १२ हस्तः । अनुष्टुप्, १-५ गायत्री, ८-९ पंक्तिः


आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् ।
अगन्म बिभ्रतो नमः ॥१॥
असमातिं नितोशनं त्वेषं निययिनं रथम् ।
भजेरथस्य सत्पतिम् ॥२॥
यो जनान्महिषाँ इवातितस्थौ पवीरवान् ।
उतापवीरवान्युधा ॥३॥
यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते ।
दिवीव पञ्च कृष्टयः ॥४॥
इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।
दिवीव सूर्यं दृशे ॥५॥
अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।
पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥६॥
अयं मातायं पितायं जीवातुरागमत् ।
इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥७॥
यथा युगं वरत्रया नह्यन्ति धरुणाय कम् ।
एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥८॥
यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् ।
एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥९॥
यमादहं वैवस्वतात्सुबन्धोर्मन आभरम् ।
जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥१०॥
न्यग्वातोऽव वाति न्यक्तपति सूर्यः ।
नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥११॥
अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥१२॥


सायणभाष्यम्

‘आ जनम् ' इति द्वादशर्चमष्टादशं सूक्तम् । गौपायना बन्ध्वादय ऋषयः । षष्ठ्यास्त्वगस्त्यस्य स्वसैषां मातर्षिका । आदितः पञ्च गायत्र्यः । अष्टमीनवम्यौ पङ्क्ती । शिष्टा अनुष्टुभः। आदितश्चतसृणामसमातिनाम्नो राज्ञः स्तूयमानत्वात् स एव देवता । पञ्चम्या इन्द्रः । षष्ठ्या अप्यसमातिः । ततः पञ्चानां सुबन्धोर्जीविताह्वानरूपोऽर्थो देवता । अयं मे हस्तः' इत्यस्या लब्धसंज्ञस्य सुबन्धोः स्पर्शनहेतुभूतो देवता । तथा चानुक्रमणिका – आ जनमिति द्वादशर्चमानुष्टुभं चतसृभिरसमातिमस्तुवन्पञ्चम्येन्द्रं षष्ठ्यागस्त्यस्य स्वसा मातैषां राजानमस्तौत्पराभिः सुबन्धोर्जीवमाह्वयंस्तमन्यया लब्धसंज्ञमस्पृशन् पञ्चाद्या गायत्र्योऽष्टम्याद्ये पङ्क्ती ' इति ।।


आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् ।

अग॑न्म॒ बिभ्र॑तो॒ नम॑ः ॥१

आ । जन॑म् । त्वे॒षऽस॑न्दृशम् । माही॑नानाम् । उप॑ऽस्तुतम् ।

अग॑न्म । बिभ्र॑तः । नमः॑ ॥१

आ । जनम् । त्वेषऽसन्दृशम् । माहीनानाम् । उपऽस्तुतम् ।

अगन्म । बिभ्रतः । नमः ॥१

इदमादिभिस्तिसृभी राजानं स्तुवन्ति। वयं बन्ध्वादयः “जनं जनपदमसुनीतिस्वभूतम् “आ “अगन्म अभिगताः । गमेर्लुङि ‘ मन्त्रे घस' इति च्लेर्लुक्। ‘ म्वोश्च । इति मकारस्य नकारः । कीदृशं जनम् । “त्वेषसंदृशं दीप्तदर्शनं “माहीनानां महताम् “उपस्तुतम् उपगतस्तुतिम् । तादौ च° इति गतेः प्रकृतिस्वरः । कीदृशा वयम् । “नमः नमस्कारं “बिभ्रतः धारयन्तः । कुर्वन्त इत्यर्थः । यद्वा । जनमसमातिमित्यर्थः । शिष्टं समानम् । नमो बिभ्रत इति राजकृते नमस्कारं धारयन्त इत्यर्थः ।।


अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ॑म् ।

भ॒जेर॑थस्य॒ सत्प॑तिम् ॥२

अस॑मातिम् । नि॒ऽतोश॑नम् । त्वे॒षम् । नि॒ऽय॒यिन॑म् । रथ॑म् ।

भ॒जेऽर॑थस्य । सत्ऽप॑तिम् ॥२

असमातिम् । निऽतोशनम् । त्वेषम् । निऽययिनम् । रथम् ।

भजेऽरथस्य । सत्ऽपतिम् ॥२

“असमातिं राजानं “नितीशनं शत्रूणां हन्तारम् । नितोशतिर्वधकर्मा। “त्वेषं दीप्तम् । “निययिनं “रथम् इत्युपमाप्रधानो निर्देशः । रथवत् सर्वाभिमतप्राप्तिसाधनं “भजेरथस्य एतन्नामकस्य राज्ञो वंशे जातम् । यद्वा । एतन्नामा कश्चिदस्य शत्रुः । तस्य निययिनम् । ‘हलदन्तात्' (पा. सू. ६. ३. ९) इति सप्तम्या अलुक् । “सत्पतिं सतां पालकम् ॥


यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् ।

उ॒ताप॑वीरवान्यु॒धा ॥३

यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् ।

उ॒त । अप॑वीरवान् । यु॒धा ॥३

यः । जनान् । महिषान्ऽइव । अतिऽतस्थौ । पवीरवान् ।

उत । अपवीरवान् । युधा ॥३

“यः असमातिः “जनान् स्वविरोधिभूतान् “अतितस्थौ अतिक्रम्य तिष्ठति । पराभावयतीत्यर्थः । क इव। “महिषान् सिंह “इव । कीदृशः सन् । “पवीरवान् । पवीरः पविः । खड्गवान् । “उत अपि च "अपवीरवान् अपगतखड्गः सन् । शस्त्रसाहाय्यमपि कदाचिन्नापेक्षत इत्यर्थः । किं कुर्वन् । “युधा योधनेन । युद्ध्वेत्यर्थः ॥


यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते ।

दि॒वी॑व॒ पञ्च॑ कृ॒ष्टय॑ः ॥४

यस्य॑ । इ॒क्ष्वा॒कुः । उप॑ । व्र॒ते । रे॒वान् । म॒रा॒यी । एध॑ते ।

दि॒विऽइ॑व । पञ्च॑ । कृ॒ष्टयः॑ ॥४

यस्य । इक्ष्वाकुः । उप । व्रते । रेवान् । मरायी । एधते ।

दिविऽइव । पञ्च । कृष्टयः ॥४

“यस्य जनपदस्य “इक्ष्वाकुः राजा “व्रते कर्मणि रक्षणरूपे “उप “एधते प्रवर्धते । कीदृशः सन् । “रेवान् रयिवान् “मरायी शत्रूणां मारकश्च सन् । विशेषणद्वयेन जनानां दानादिरूपेण धनलाभः परराजोपद्रवापत्तिश्चोक्ता भवति । एवं सति तद्विषयस्थाः “पञ्च “कृष्टयः निषादपञ्चमाश्चत्वारो वर्णाः “दिवीव द्युलोके यथा संकल्पसिद्धाः सन्तः सुखिनो भवन्ति तद्वत्सुखिनो भवन्तीति शेषः ॥


इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय ।

दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥५

इन्द्र॑ । क्ष॒त्रा । अस॑मातिषु । रथ॑ऽप्रोष्ठेषु । धा॒र॒य॒ ।

दि॒विऽइ॑व । सूर्य॑म् । दृ॒शे ॥५

इन्द्र । क्षत्रा । असमातिषु । रथऽप्रोष्ठेषु । धारय ।

दिविऽइव । सूर्यम् । दृशे ॥५

अनयेन्द्रमाह्वयतेऽसमात्यर्थम् । हे “इन्द्र “क्षत्रा क्षत्राणि बलानि “रथप्रोष्ठेषु “असमातिषु ।। एकस्मिन् बहुवचनं पूजार्थम् । रथप्रोष्ठेऽसमातौ “धारय। “दिवीव “सूर्यं दिवि यथा सूर्यं “दृशे सर्वेषां दर्शनीय स्थापितवानसि तद्वदत्र बलं धारय ।


अ॒गस्त्य॑स्य॒ नद्भ्य॒ः सप्ती॑ युनक्षि॒ रोहि॑ता ।

प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धस॑ः ॥६

अ॒गस्त्य॑स्य । नत्ऽभ्यः॑ । सप्ती॒ इति॑ । यु॒न॒क्षि॒ । रोहि॑ता ।

प॒णीन् । नि । अ॒क्र॒मीः॒ । अ॒भि । विश्वा॑न् । रा॒ज॒न् । अ॒रा॒धसः॑ ॥६

अगस्त्यस्य । नत्ऽभ्यः । सप्ती इति । युनक्षि । रोहिता ।

पणीन् । नि । अक्रमीः । अभि । विश्वान् । राजन् । अराधसः ॥६

अनयागस्त्यस्य स्वसा बन्ध्वादीनां माता राजानं स्तौति । हे “राजन् असमाते त्वम् “अगस्त्यस्य ऋषेः “नद्भ्यः नन्दयितृभ्यो बन्ध्वादिभ्यो निमित्तभूतेभ्यस्तेषां धनप्राप्तये “सप्ती सर्पणस्वभावावश्वौ “रोहिता रोहितवर्णौ "युनक्षि योजय रथे । तथा कृत्वा “विश्वान् सर्वान् “अराधसः अदातॄनयजमानान् "पणीन् वणिजः लुब्धकान् “नि निकृष्टं नितरां वा “अभि “अक्रमीः अभिभव ॥ ॥ २४ ॥


अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् ।

इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब॑न्ध॒वेहि॒ निरि॑हि ॥७

अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातुः॑ । आ । अ॒ग॒म॒त् ।

इ॒दम् । तव॑ । प्र॒ऽसर्प॑णम् । सुब॑न्धो॒ इति॒ सुऽब॑न्धो । आ । इ॒हि॒ । निः । इ॒हि॒ ॥७

अयम् । माता । अयम् । पिता । अयम् । जीवातुः । आ । अगमत् ।

इदम् । तव । प्रऽसर्पणम् । सुबन्धो इति सुऽबन्धो । आ । इहि । निः । इहि ॥७

अत्र शेषे शाट्यायनकम् - ‘अथाग्निं द्वैपदेन सूक्तेनास्तुवन् । अग्निः स्तुत आजगाम । आगत्य चाह किंकामा मागच्छतेति । सुबन्धोरेवासुं पुनर्वनुयामेत्यब्रुवन् । एषान्तःपरिधीत्यब्रवीत्तमादद्ध्वमिति । तन्निराह । अयं मातायं पिता' इति । शौनकश्च - स्तुतः स राजा सुप्रीतस्तस्थौ गौपायनानभि ॥ सूक्तेन तेऽस्तुवन्नग्निं द्वैपदेन यथात्रिषु । अथाग्निरब्रवीदेतानयमन्तःपरिध्यसुः ॥ सुबन्धोरस्य चेक्ष्वाकोर्मया गुप्तो हितार्थिना। सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः ॥ स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति । अयं मातेति हृष्टास्ते सुबन्धोरसुमाह्वयन् ॥ शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि । सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते' ( बृहद्दे. ७. ९७. १०१ ) इति ॥ “अयम् अग्निः “माता । अयम् एव “पिता । “अयं "जीवातुः जीवयिता “आगमत् आजगाम । अतो हे “सुबन्धो जीवपरिधौ वर्तमान “इदं तव शरीरं “तव प्रसर्पणं प्रकर्षेण सर्पणसाधनम् । अत इदं प्रति “एहि आगच्छ । “निरिहि निर्गच्छ परिधेः सकाशात् । अन्य एवं व्याचक्षते । हे निर्गतप्राण सुबन्धो अयम् । विभक्तिव्यत्ययः । इयं मातायं पितायं जीवातुर्जीवनफलभूतः पुत्रश्चागमदिति संबध्यते ।। सर्वे त्वामागता दुःखिताः सन्तः । शिष्टं समानम् ॥


यथा॑ यु॒गं व॑र॒त्रया॒ नह्य॑न्ति ध॒रुणा॑य॒ कम् ।

ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥८

यथा॑ । यु॒गम् । व॒र॒त्रया॑ । नह्य॑न्ति । ध॒रुणा॑य । कम् ।

ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥८

यथा । युगम् । वरत्रया । नह्यन्ति । धरुणाय । कम् ।

एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥८

"यथा "युगं “वरत्रया पाशेन “नह्यन्ति बध्नन्ति “धरुणाय रथादिधारणाय । "कम् इति पादपूरणः । “एव एवं “ते “मनः “दाधार परिधावग्निः । किमर्थम् । “जीवातवे जीवनाय “न “मृत्यवे मरणाय न “अथो अपि च “अरिष्टतातये अविनाशाय । स्वार्थिकस्तातिः ॥


यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् ।

ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥९

यथा॑ । इ॒यम् । पृ॒थि॒वी । म॒ही । दा॒धार॑ । इ॒मान् । वन॒स्पती॑न् ।

ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥९

यथा । इयम् । पृथिवी । मही । दाधार । इमान् । वनस्पतीन् ।

एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥९

“यथेयं “पृथिवी “मही “इमान् “वनस्पतीन वृक्षादीन् “दाधार । शिष्टमुक्तम् ॥


य॒माद॒हं वै॑वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् ।

जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥१०

य॒मात् । अ॒हम् । वै॒व॒स्व॒तात् । सु॒ऽबन्धोः॑ । मनः॑ । आ । अ॒भ॒र॒म् ।

जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥१०

यमात् । अहम् । वैवस्वतात् । सुऽबन्धोः । मनः । आ । अभरम् ।

जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥१०

इयं निगदसिद्धा ॥


न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्य॑ः ।

नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रप॑ः ॥११

न्य॑क् । वातः॑ । अव॑ । वा॒ति॒ । न्य॑क् । त॒प॒ति॒ । सूर्यः॑ ।

नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य॑क् । भ॒व॒तु॒ । ते॒ । रपः॑ ॥११

न्यक् । वातः । अव । वाति । न्यक् । तपति । सूर्यः ।

नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः ॥११

“वातः वायुर्द्युलोकात् “न्यक् नीचीनम् “अव “वाति गच्छति । “सूर्यः च “न्यक् “तपति । “अघ्न्या अहननीया गौः “नीचीनं “दुहे दुग्धे। एवं “ते “रपः पापं “न्यक् नीचीनं “भवतु ॥


अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।

अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥१२

अ॒यम् । मे॒ । हस्तः॑ । भग॑ऽवान् । अ॒यम् । मे॒ । भग॑वत्ऽतरः ।

अ॒यम् । मे॒ । वि॒श्वऽभे॑षजः । अ॒यम् । शि॒वऽअ॑भिमर्शनः ॥१२

अयम् । मे । हस्तः । भगऽवान् । अयम् । मे । भगवत्ऽतरः ।

अयम् । मे । विश्वऽभेषजः । अयम् । शिवऽअभिमर्शनः ॥१२

अनया बन्ध्वादयो लब्धजीवं सुबन्धुं पाणिभिरस्पृशन् । “अयं “मे “हस्तो “भगवान् यस्मात् सजीवं सुबन्धुं स्पृशति तस्मात् । तथा “अयं “मे हस्तः “भगवत्तरः अतिशयेन भगवान् । तथा “अयं “मे हस्तः “विश्वभेषजः जीवचिकित्सासाधनसवौंषधवान् तत्स्थानीयो वा । “अयं “शिवाभिमर्शनः मङ्गलस्पर्शनः । यतो जीवन्तं स्पृशत्यत इत्यर्थः ॥ ॥ २५ ॥ ॥ ४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६०&oldid=195211" इत्यस्माद् पुनः प्राप्तिः