ऋग्वेदः सूक्तं १०.५३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.५२ ऋग्वेदः - मण्डल १०
सूक्तं १०.५३
देवाः, ४-५ सौचीकोऽग्निः
सूक्तं १०.५४ →
दे. अग्निः, ४-५ देवाः। १-५, ८ त्रिष्टुप्, ६-७, ९-११ जगती


यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् ।
स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥१॥
अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् ।
यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन ॥२॥
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् ।
स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥३॥
तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम ।
ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥४॥
पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः ।
पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥५॥
तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥६॥
अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत ।
अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥७॥
अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः ।
अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥८॥
त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शंतमा ।
शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥९॥
सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ ।
विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥१०॥
गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया ।
स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥११॥


सायणभाष्यम्

यमैच्छाम' इत्येकादशर्चमेकादशं सूक्तम् । देवानां वाक्यत्वाद्देवा ऋषयः । तदद्य' इति द्वृचस्य सौचीकोऽग्निर्ऋषिः। ‘ तन्तु तन्वन् ' इत्याद्या अष्टमीवर्जिता जगत्यः । अष्टमी शिष्टाश्च त्रिष्टुभः । तथा चानुक्रान्तं -- तन्तुमाद्या जगत्योऽष्टमीवर्जम्' इति । शिष्टमुक्तम् । गतः सूक्तविनियोगः ॥


यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् ।

स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑र॒ः पूर्वो॑ अ॒स्मत् ॥१

यम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् ।

सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥१

यम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकित्वान् ।

सः । नः । यक्षत् । देवऽताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत् ॥१

“यम् अग्निम् “ऐच्छाम अन्विष्टवन्तो वयं “मनसा हविष्प्रापणबुद्ध्या मह्यं हविः प्रापयत्विति बुद्ध्येत्यर्थः । सोऽयम् अग्निः “आगात् आजगाम । कीदृशोऽग्निः । “यज्ञस्य यज्ञं “विद्वान् जानंस्तथा “परुषः परूंषि संधातव्यान्यङ्गानि “चिकित्वान् अभिगच्छन् । “सः अग्निः “यजीयान् यष्टृतमः “नः अस्मान् “देवताता देवतातौ यज्ञे “यक्षत् यजतु । “नि “षत्सद्धि न्यसीदत् खलु वेद्यामिति शेषः ।। कीदृशः सन् । अन्तरः ऋत्विजां यष्टव्यानां देवानां च मध्ये संचरन् “अस्मत् "पूर्वः अस्मत्तो देवेभ्यः पूर्वभावी सन् । अग्निं समिध्य पश्चाद्धि देव आहूयन्ते ॥


दर्शपूर्णमासयोः पुरा अराधि' इत्येषा जप्या । सूत्रमुदाहृतम् ॥

अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् ।

यजा॑महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥२

अरा॑धि । होता॑ । नि॒ऽसदा॑ । यजी॑यान् । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यत् ।

यजा॑महै । य॒ज्ञिया॑न् । हन्त॑ । दे॒वान् । ईळा॑महै । ईड्या॑न् । आज्ये॑न ॥२

अराधि । होता । निऽसदा । यजीयान् । अभि । प्रयांसि । सुऽधितानि । हि । ख्यत् ।

यजामहै । यज्ञियान् । हन्त । देवान् । ईळामहै । ईड्यान् । आज्येन ॥२

अयमग्निः “होता होमनिष्पादकः “यजीयान् यष्टृतमश्च सन् “निषदा वेद्यां निषदनेन “अराधि सिद्धोऽभूत् । आहुतियोग्योऽभूदित्यर्थः । तथाभूतोऽयं “सुधितानि सुष्ठु निहितानि “प्रयांसि चरुपुरोडाशाद्यन्नानि “अभि: “हि ख्यत् अभिचष्टे सर्वतः पश्यति । हीति पूरणः । कया बुद्ध्येति । “यज्ञियान् यष्टव्यान् आहुतिभाजः "देवान् सुष्टु हन्त शीघ्रम् “आज्येन यजामहै तथा “ईड्यान् स्तुतिभाजो देवान् स्तुत्या ईळामहै इति बुद्ध्येति शेषः ॥


यस्मिन्यजमाने जीवति मृतशब्दो जायते तस्य सुरभिमतीष्टिः कर्तव्या। साध्वीमकः' इत्येषा तत्र याज्या । सूत्रितं च - अग्निर्होता न्यसीदद्यजीयान् साध्वीमकर्देववीतिं नो अद्य ' (आश्व. श्रौ. ३. १३) इति ॥

सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् ।

स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥३

सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् ।

सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥३

साध्वीम् । अकः । देवऽवीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् ।

सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवऽहूतिम् । नः । अद्य ॥३

अयमग्निः सुष्टु अद्य “नः अस्माकं “देववीतिं देवानामागमनवन्तं देवानां हविर्भक्षणोपेतं वा यज्ञं “साध्वीमकः साधुमकरोत् । वयं च “यज्ञस्य “गुह्यां गूढतरां “जिह्वामविदाम लब्धवन्तः स्म । अग्निर्हि यज्ञस्य जिह्वा तेन देवानां पानाज्जिह्वात्वेनोपचारः । “सः तादृशोऽग्निः “सुरभिः सुगन्धः “आयुः देवैः दत्तमायुष्यं “वसानः आच्छादयन् “आगात् आगच्छति । आगत्य च “नः अस्मदर्थं “देवहूतिं देवानामाह्वानवन्तं यज्ञं “भद्रात्मकः कल्याणं कृतवान् “अद्य इदानीम् ॥


दर्शपूर्णमासयोः सामिधेन्यर्थं प्रेषितेन होत्रा ‘तदद्य वाचः' इत्येषा जप्या। स्रुगादापनात् पूर्वमपि जप्या । सूत्रितं च -- तदद्य वाचः प्रथमं मसीयेति समाप्य' (आश्व.श्रौ. १.२) इति ॥

तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म ।

ऊर्जा॑द उ॒त य॑ज्ञियास॒ः पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥४

तत् । अ॒द्य । वा॒चः । प्र॒थ॒मम् । म॒सी॒य॒ । येन॑ । असु॑रान् । अ॒भि । दे॒वाः । असा॑म ।

ऊर्ज॑ऽअदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥४

तत् । अद्य । वाचः । प्रथमम् । मसीय । येन । असुरान् । अभि । देवाः । असाम ।

ऊर्जऽअदः । उत । यज्ञियासः । पञ्च । जनाः । मम । होत्रम् । जुषध्वम् ॥४

इदमुत्तरं चाग्नेर्वाक्यमित्युक्तम् । “अद्य इदानीं “प्रथमम् । मुख्यनामैतत् । वाचां मुख्यं “तत् “वाचः वचः वचनं “मसीय मंसीय उच्चारयामि । “येन वचसा अहं “देवाः च वयम् "असुरान् “अभि “असाम अभिभवेम । किं तत् प्रथमं वचनमिति उच्यते । “ऊर्जादः हे अन्नादः उत अपि च “यज्ञियासः यज्ञार्हा हे “पञ्च “जनाः देवमनुष्यादयः यूयं “मम “होत्रं “जुषध्वं सेवध्वमिति । एवं बहूच्यमानेऽग्निमनूद्यन्ति सर्वे देवा इत्यभिप्रायः । अत्र ‘तदद्य वाचः' (निरु. ३. ८) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ।


पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।

पृ॒थि॒वी न॒ः पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥५

पञ्च॑ । जनाः॑ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ।

पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥५

पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोऽजाताः । उत । ये । यज्ञियासः ।

पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥५

“पञ्च जनाः देवादयः “मम “होत्रं हवमाह्वानं “जुषन्तां सेवन्तम्। अपि च “गोजाताः भूम्यामुत्पन्नाः । यद्वा । गोशब्देन तज्जं पय आदिकमुच्यते । हविरर्थं प्रादुर्भूता इत्यर्थः । तादृशा ये सन्ति । “उत अपि च “ये यज्ञियासः यज्ञार्हाः सन्ति ते मम होत्रं जुषन्ताम्। किंच “पृथिवी पृथिवीदेवता “पार्थिवात् पृथिवीसंबन्धात् “नः अस्मान् “अंहसः पापात् “पातु रक्षतु । तथा “अन्तरिक्षम् अन्तरिक्षदेवता "दिव्यात् आन्तरिक्षादंहसः पापसकाशात् “अस्मान् “पातु ॥ ॥१३॥


गार्हपत्यादारभ्याहवनीयाद्वेदिं वेदतृणैरास्तृणाति • तन्तुम् ' इत्यनया। सूत्रितं च --अविधून्वन् संततं स्तृणन् सव्येन गार्हपत्यादाहवनीयमेति तन्तुं तन्वन्रजसो भानुमन्विहि ' ( आश्व. श्रौ. १. ११) इति । अग्निहोत्रहोमेऽप्यनयोदकधारा स्रावणीया । सूत्रितं च - ‘ गार्हपत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वन्रजसो भानुमन्विहि' ( आश्व. श्रौ. २. २) इति । अग्न्यन्तराले श्वातिक्रमणेऽनया गार्हपत्याहवनीययोर्मध्यमुदकेन भस्मना च पूरयेत् । सूत्रितं च - ‘ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च संतनुयात् ' (अश्व. श्रौ. ३.१० ) इति । अग्निमारुतेऽप्येषा धाय्या । सूत्रितं च - तन्तुं तन्वन्रजसो भानुमन्विह्येवा न इन्द्रो मघवा विरप्शी' (आश्व. श्रौ.५.२०) इति ॥

तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॑म् ॥६

तन्तु॑म् । त॒न्वन् । रज॑सः । भा॒नुम् । अनु॑ । इ॒हि॒ । ज्योति॑ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् ।

अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑ । भ॒व॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥६

तन्तुम् । तन्वन् । रजसः । भानुम् । अनु । इहि । ज्योतिष्मतः । पथः । रक्ष । धिया । कृतान् ।

अनुल्बणम् । वयत । जोगुवाम् । अपः । मनुः । भव । जनय । दैव्यम् । जनम् ॥६

हे अग्ने “तन्तुं यज्ञं “तन्वन् विस्तारयन् “रजसः रञ्जनात्मकस्य लोकस्य “भानुं भासकमादित्यम् “अन्विहि अनुगच्छ। रश्मिद्वारा सूर्यमण्डलं प्रविशेत्यर्थः । किंच “ज्योतिष्मतः प्रकाशवतो यज्ञस्य “पथः गमनमार्गान् । अथवा ज्योतिष्मतो दीप्तिमतः स्वर्गस्य पथो मार्गान् देवयानान् । “रक्ष पालय । कीदृशान्मार्गान् । “धिया कर्मणा “कृतान् संपादितान् । किंच सोऽग्निः "जोगुवां स्तोतॄणाम् “अपः । कर्मनामैतत् । क्रियया व्याप्यं कर्म “अनुल्बणम् अनतिरिक्तं “वयत करोतु । 'यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः ' (तै. सं. ३. ४. ३. ७) इति हि ब्राह्मणम् । स त्वं “मनुर्भव मन्तव्यो भव । स्तुत्यो भवेत्यर्थः। किंच “दैव्यं “जनं देवसंघं “जनय उत्पादय । यज्ञाभिगमनवन्तं कुर्वित्यर्थः ॥


अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत ।

अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥७

अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ ।

अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥७

अक्षऽनहः । नह्यतन । उत । सोम्याः । इष्कृणुध्वम् । रशनाः । आ । उत । पिंशत ।

अष्टाऽवन्धुरम् । वहत । अभितः । रथम् । येन । देवासः । अनयन् । अभि । प्रियम् ॥७

अत्र यज्ञजिगमिषवो देवाः परस्परं ब्रुवते । हे “सोम्याः सोमार्हा देवाः यूयम् “अक्षानहः अक्षेषु नह्यान् बन्धनीयानश्वान् “नह्यतन नह्यत बघ्नीत रथे। “उत अपि च “रशनाः अश्वबन्धनप्रग्रहान् “इष्कृणुध्वं निष्कुरुत सम्यक् संस्कुरुत । नकारलोपश्छान्दसः। “उत अपि च “आ “पिंशत । ‘ पिश अवयवे'। अश्वानलंकुरुतेत्यर्थः । अष्टावन्धुरम् । वन्धुरं सारथिनिवासस्थानम् । अष्टसंख्याकवन्धुरोपेतं “रथं सूर्यसंबन्धिनम् "अभितः सर्वतः “वहत । सूर्यरथेन साकं युष्मदीयान्रथान् यज्ञं प्रति गमयतेत्यर्थः । “येन “देवासः देवाः “प्रियम् अस्मान् “अनयन् अभिगमयन्ति तं रथमभितो वहतेति संबन्धः । यद्वा । तं यज्ञं प्रति वहतेति योज्यम् ॥


वैवाहिके प्रयाणे यदि नावा तार्या नदी स्यात् तदानीम् ' अश्मन्वती' इत्यर्धर्चेन वधूं नावमारोहयेत् । उत्तरेणार्धर्चेन नदीमुत्क्रमयेत् । सूत्रितं च - अश्मन्वती रीयते सं रभध्वमित्यर्धर्चेन नावमारोहयेदुत्तरेणोत्क्रमयेत्' (आश्व. गृ. १. ८. २-३ ) इति ॥

अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः ।

अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥८

अश्म॑न्ऽवती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒यः॒ ।

अत्र॑ । ज॒हा॒म॒ । ये । अस॑न् । अशे॑वाः । शि॒वान् । व॒यम् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥८

अश्मन्ऽवती । रीयते । सम् । रभध्वम् । उत् । तिष्ठत । प्र । तरत । सखायः ।

अत्र । जहाम । ये । असन् । अशेवाः । शिवान् । वयम् । उत् । तरेम । अभि । वाजान् ॥८

अनयापि देवा यज्ञजिगमिषवः परस्परं ब्रुवते । “अश्मन्वती नाम नदी “रीयते गच्छति । ‘री गतिरेषणयोः'। तां यज्ञगमनायोत्तरीतुम् "उत्तिष्ठत उद्गच्छत । तथा कृत्वा “प्र “तरत तां नदीमुल्लङ्घयत । हे “सखायः यजमानस्य सखिभूता इति देवानां संबोधनम् । “अत्र अस्यां नद्यां “जहाम परित्यजाम । कानिति उच्यते । "ये “अशेवाः । शेवमिति सुखनाम। येऽसुखभूताः “असन् अभवन् अस्मानाश्रित्य वर्तन्ते ताञ्जहाम । तथा कृत्वा “शिवान् सुखकराणि “वाजान् अन्नानि हवींषि “अभि प्राप्तुम् “उत्तरेम ॥


त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा ।

शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पति॑ः ॥९

त्वष्टा॑ । मा॒या । वे॒त् । अ॒पसा॑म् । अ॒पःऽत॑मः । बिभ्र॑त् । पात्रा॑ । दे॒व॒ऽपाना॑नि । शम्ऽत॑मा ।

शिशी॑ते । नू॒नम् । प॒र॒शुम् । सु॒ऽआ॒य॒सम् । येन॑ । वृ॒श्चात् । एत॑शः । ब्रह्म॑णः । पतिः॑ ॥९

त्वष्टा । माया । वेत् । अपसाम् । अपःऽतमः । बिभ्रत् । पात्रा । देवऽपानानि । शम्ऽतमा ।

शिशीते । नूनम् । परशुम् । सुऽआयसम् । येन । वृश्चात् । एतशः । ब्रह्मणः । पतिः ॥९

अयं “त्वष्टा देवशिल्पी “मायाः। कर्मनामैतत् । कर्माणि पात्रनिर्माणविषयाणि "वेत् वेत्ति जानाति । स च त्वष्टा “अपसां शोभनकर्मवतां मध्ये “अपस्तमः अतिशयेन शोभनकर्मा “देवपानानि देवाः पिबन्ति येषु तानि “पात्रा सोमपात्राणि “बिभ्रत् धारयन् वर्तत इति शेषः । स च त्वष्टा “नूनम् इदानीमग्नौ हविर्वहनायाङ्गीकृते सति स्वायसं शोभनायःसारभूतं “परशुं “शिशीते तीक्ष्णयति । त्वष्टा पात्रसंपादनार्थं “येन परशुना “एतशः एतशवर्णः “ब्रह्मणस्पतिः ब्रह्मणो मन्त्रस्य पाता पात्रादिसंपादनरूपस्य कर्मणः स्वामी वा “वृश्चात् वृश्चति ॥


स॒तो नू॒नं क॑वय॒ः सं शि॑शीत॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्ष॑थ ।

वि॒द्वांस॑ः प॒दा गुह्या॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥१०

स॒तः । नू॒नम् । क॒व॒यः॒ । सम् । शि॒शी॒त॒ । वाशी॑भिः । याभिः॑ । अ॒मृता॑य । तक्ष॑थ ।

वि॒द्वांसः॑ । प॒दा । गुह्या॑नि । क॒र्त॒न॒ । येन॑ । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः ॥१०

सतः । नूनम् । कवयः । सम् । शिशीत । वाशीभिः । याभिः । अमृताय । तक्षथ ।

विद्वांसः । पदा । गुह्यानि । कर्तन । येन । देवासः । अमृतऽत्वम् । आनशुः ॥१०

हे “कवयः मेधाविनस्त्वष्टुर्मम शिष्या ऋभवः “सतः । सन्त इत्यर्थः । प्रशस्ता यूयं “नूनम् इदानीं सं “शिशीत अत्यर्थं तीक्ष्णीकुरुत वाशीः। “याभिः “वाशीभिः पात्राणि “अमृताय सोमाय । तत्पानायेत्यर्थः । यद्वा युष्माकममृतत्वाय । तदर्थं “तक्षथ संपादयथ । हे कवयः “विद्वांसः यूयं “गुह्यानि गोपनीयानि “पदा पदानि निवासस्थानानि “कर्तन कुरुत । “येन स्थानकरणेन “देवासः देवा यूयम् "अमृतत्वमानशुः प्राप्ता यूयम् । एवं स्वशिष्यानाह॥ ।


गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ ।

स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जिति॑म् ॥११

गर्भे॑ । योषा॑म् । अद॑धुः । व॒त्सम् । आ॒सनि॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ ।

सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । सि॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥११

गर्भे । योषाम् । अदधुः । वत्सम् । आसनि । अपीच्येन । मनसा । उत । जिह्वया ।

सः । विश्वाहा । सुऽमनाः । योग्याः । अभि । सिसासनिः । वनते । कारः । इत् । जितिम् ॥११

ते मरुतः “गर्भे मृताया गोर्मध्ये ग्राहके चर्मणि मृताया गोः संबन्धिनि “योषां कांचिद्गाम् “अदधुः धारितवन्तः । निश्चर्मणो गामरिणीत धीतिभिः (ऋ. सं. १. १६१. ७ ) इत्युक्तम् । तथा “आसनि मृताया आस्ये "वत्सम् अदधुः । केन साधनेन “अपीच्येन “मनसा देवत्वमाकाङ्क्षता “उत अपि च "जिह्वया । सादृश्यप्रधानोऽयं निर्देशः । जिह्वावदायतया वाश्येत्यर्थः । यद्वा । जिह्वया युक्तां योषामिति संबन्धः । “सिषासनिः संभजनशीलः “सः ऋभुसंघः “विश्वाहा सर्वेष्वहःसु सर्वदा “योग्याः स्वोचिताः “सुमनाः स्तुतीः “अभि “वनते । स च संघः “जितिं शत्रुजयं कामं “कार “इत् कर्तैव शत्रुजयकर्तैव ॥ ॥ १४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५३&oldid=202364" इत्यस्माद् पुनः प्राप्तिः