ऋग्वेदः सूक्तं १०.४९
← सूक्तं १०.४८ | ऋग्वेदः - मण्डल १० सूक्तं १०.४९ वैकुण्ठ इन्द्रः |
सूक्तं १०.५० → |
दे. इन्द्रः। जगती, २, ११ त्रिष्टुप् |
अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् ।
अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥१॥
मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः ।
अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥२॥
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः ।
अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥३॥
अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् ।
अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥४॥
अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।
अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥५॥
अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् ।
यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥६॥
अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा ।
यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥७॥
अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् ।
अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥८॥
अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥९॥
अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥१०॥
एवा देवाँ इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः ।
विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥११॥
सायणभाष्यम्
अहं दाम् ' इत्येकादशर्चं सप्तमं सूक्तम् । वैकुण्ठ एवर्षिर्देवता च । द्वितीयैकादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । अनुक्रान्तं च - ‘ अहं दामन्त्योपाद्ये च ' इति । द्वितीये रात्रिपर्याये मैत्रावरुणस्येदं सूक्तम् । सूत्रितं च -- अहं दां पाता सुतमिन्द्रो अस्तु सोमम्' (आश्व. श्रौ. ६. ४) इति ॥
अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् ।
अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥१
अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥१
अहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वर्धनम् ।
अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥१
“अहम् इन्द्रः “गृणते स्तुवते “पूर्व्यं मुख्यं “वसु धनं “दाम् अदाम्। “अहम् एव “ब्रह्म परिवृढं कर्म स्तुतिलक्षणं “मह्यं “वर्धनं “कृणवं करोमि । स्तोतुः संबन्धि स्तोत्रं तस्मै धनं प्रयच्छन् मह्यमेव वर्धनं करोमीत्यर्थः । तथा “अहं “यजमानस्य मामुद्दिश्य यष्टुर्धनस्य “चोदिता प्रेरकः “भुवं भवामि । “अयज्वनः अयष्टुः । अयष्टारमित्यर्थः । तं “विश्वस्मिन् “भरे सर्वस्मिन्नपि संग्रामे “साक्षि अभिभवामि ।।
मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तव॑ः ।
अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥२
माम् । धुः॒ । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः॑ ।
अ॒हम् । हरी॒ इति॑ । वृष॑णा । विऽव्र॑ता । र॒घू इति॑ । अ॒हम् । वज्र॑म् । शव॑से । धृ॒ष्णु । आ । द॒दे॒ ॥२
माम् । धुः । इन्द्रम् । नाम । देवता । दिवः । च । ग्मः । च । अपाम् । च । जन्तवः ।
अहम् । हरी इति । वृषणा । विऽव्रता । रघू इति । अहम् । वज्रम् । शवसे । धृष्णु । आ । ददे ॥२
“इन्द्रं “नाम इन्द्रनामानं "मां "देवता देवानां मध्ये “दिवः द्युलोकस्य । ग्मा पृथिव्यापोऽन्तरिक्षम् । एतेषु लोकेषु “जन्तवः जाताः “मा मामेव “धुः दधुः धारयन्ति हविर्भिः स्तुतिभिश्च । "अहं यज्ञगमनाय संग्रामगमनाय वा “हरी हरितवर्णौ “वृषणा पुंस्त्वोपेतौ “विव्रता विविधकर्माणौ “रघू लघू शीघ्रगती अश्वौ नियोजयामि रथे । तथा “अहं “धृष्णु धर्षकं “वज्रम् आयुधं "शवसे बलाय “आ “ददे स्वीकरोमि ॥
अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑ः ।
अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥३
अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ ।
अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । य॒म॒म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥३
अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः ।
अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥३
“अहम् इन्द्रः “अत्कम् आच्छादकं शत्रुपुत्रं “कवये उशनस ऋषये तस्य सुखवासाय “हथैः बहुप्रकारैः प्रहारैः तत्साधनैरायुधैर्वा “शिश्नथं ताडितवानस्मि । श्नथतिर्वधकर्मा । किंच “अहं “कुत्सम् एतन्नामकमृषिम् “आभिरूतिभिः वधादिरूपैः। ‘ कुत्साय शुष्णमशुषं नि बर्हीः ' (ऋ. सं. ४, १६. १२) इत्यादि मन्त्रान्तरम् । रक्षणैः “आवम् अरक्षम् । पूर्वमेव कृतान्यपि रक्षणानीदानीमिव कृतानीत्यनुवदति । कुत्सार्थं “शुष्णस्य एतन्नामकस्यासुरस्य “श्नथिता हिंसिता । तस्य हननायेत्यर्थः । “वधः वज्रं “यमं प्रहरणाय नियमितवानस्मि । अपि च “अहम् “आर्यम् आर्यसंबन्धि। आर्याणां देयमित्यर्थः । तादृशं “नाम । उदकनामैतत् । नामकमुदकं “दस्यवे शत्रवे उपक्षपयित्रे “न “ररे न दत्तवानस्मि । यद्वा । आर्यं पूज्यमित्यसाधारणं नाम दस्यवे न दत्तवानस्मि । अत्रेन्द्रस्यात्मस्तुतौ कुत्सरक्षणशुष्णवधादिकम् आवः कुत्समिन्द्र यस्मिञ्चाकन्' (ऋ. सं. १. ३३. १४) ‘ शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र ' ( ऋ. सं. १. १०३. ८) इत्यादिषु बहुधा प्रपञ्चितम् । अतोऽत्र ग्रन्थविस्तरभयान्न वक्ष्यते ॥
अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् ।
अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥४
अ॒हम् । पि॒ताऽइ॑व । वे॒त॒सून् । अ॒भिष्ट॑ये । तुग्र॑म् । कुत्सा॑य । स्मत्ऽइ॑भम् । च॒ । र॒न्ध॒य॒म् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । रा॒जनि॑ । प्र । यत् । भ॒रे॒ । तुज॑ये । न । प्रि॒या । आ॒ऽधृषे॑ ॥४
अहम् । पिताऽइव । वेतसून् । अभिष्टये । तुग्रम् । कुत्साय । स्मत्ऽइभम् । च । रन्धयम् ।
अहम् । भुवम् । यजमानस्य । राजनि । प्र । यत् । भरे । तुजये । न । प्रिया । आऽधृषे ॥४
“अहम् इन्द्रः “पितेव पिता पुत्रायेव स यथा तस्मै निर्वाहार्थमभिमतं देशं प्रसाधयति तद्वत् “वेतसून एतन्नामकान जनपदान् “अभिष्टये अभीच्छते “कुत्साय महर्षये “तुग्रं "स्मदिभं “च “रन्धयं वशमनयम् । “अहं “यजमानस्य “राजनि राजनार्थं "भुवम् अभवम् । समर्थं इति शेषः । “यत् यस्मात् “तुजये “न पुत्रायेव पिता तस्मै यजमानाय “आधृषे शत्रूणां धर्षणाय “प्रिया प्रियाणि “प्र “भरे प्रभरामि तस्माद्यजमानस्य राजनि भुवमिति संबन्धः ॥
अ॒हं र॑न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् ।
अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरन्धयम् ॥५
अ॒हम् । र॒न्ध॒य॒म् । मृग॑यम् । श्रु॒तर्व॑णे । यत् । मा॒ । अजि॑हीत । व॒युना॑ । च॒न । आ॒नु॒षक् ।
अ॒हम् । वे॒शम् । न॒म्रम् । आ॒यवे॑ । अ॒क॒र॒म् । अ॒हम् । सव्या॑य । पट्ऽगृ॑भिम् । अ॒र॒न्ध॒य॒म् ॥५
अहम् । रन्धयम् । मृगयम् । श्रुतर्वणे । यत् । मा । अजिहीत । वयुना । चन । आनुषक् ।
अहम् । वेशम् । नम्रम् । आयवे । अकरम् । अहम् । सव्याय । पट्ऽगृभिम् । अरन्धयम् ॥५
“अहम् इन्द्रः “मृगयम् एतन्नामकमसुरं “श्रुतर्वणे एतन्नामकाय महर्षये “रन्धयम् । रध्यतिर्वशगमने । वशमनयम् । “यत् यस्मात् श्रुतर्वा मा माम् “अजिहीत । ' ओहाङ गतौ '। आगच्छत् । तदेवोच्यते । “वयुना प्रज्ञानेन स्तोत्रेण “आनुषक् अनुषक्तोऽभूत् । “चन इति पूरणः । “अहं “वेशम् एतन्नामानं “नम्रं प्रह्वं “करम् अकार्षम् । करोतेर्लुङि ‘कृमृदृरुहिभ्य इति च्लेरङ । अडभावश्छान्दसः । “अहं “सव्याय एतन्नामकाय “पड्गृभिम् एतन्नामकम् "अरन्धयं वशमनयम् ॥ ॥ ७ ॥
अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जम् ।
यद्व॒र्धय॑न्तं प्र॒थय॑न्तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ॥६
अ॒हम् । सः । यः । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । सम् । वृ॒त्राऽइ॑व । दास॑म् । वृ॒त्र॒ऽहा । अरु॑जम् ।
यत् । व॒र्धय॑न्तम् । प्र॒थय॑न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज॑सः । रो॒च॒ना । अक॑रम् ॥६
अहम् । सः । यः । नवऽवास्त्वम् । बृहत्ऽरथम् । सम् । वृत्राऽइव । दासम् । वृत्रऽहा । अरुजम् ।
यत् । वर्धयन्तम् । प्रथयन्तम् । आनुषक् । दूरे । पारे । रजसः । रोचना । अकरम् ॥६
“अहम् इन्द्रः “सः अस्मि “यः अहं “नववास्त्वं “बृहद्रथं च “वृत्रेव वृत्रमिव “दासम् उपक्षपयितारमिव नववास्त्वं बृहद्रथं च "अरुजम् अहं भग्नमकरवम्। ‘रुजो भङ्गे '। “यत् यदा “वर्धयन्तं वर्धमानं "प्रथयन्तं प्रथमानं चोभौ शत्रू “आनुषक् अनुषक्तः सन् “रोचना रोचनस्य “रजसः लोकस्य “दूरे “पारे “अकरं कृतवानस्मि ।।
अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभि॒ः प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा ।
यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथै॑ः ॥७
अ॒हम् । सूर्य॑स्य । परि॑ । या॒मि॒ । आ॒शुऽभिः॑ । प्र । ए॒त॒शेभिः॑ । वह॑मानः । ओज॑सा ।
यत् । मा॒ । सा॒वः । मनु॑षः । आह॑ । निः॒ऽनिजे॑ । ऋध॑क् । कृ॒षे॒ । दास॑म् । कृत्व्य॑म् । हथैः॑ ॥७
अहम् । सूर्यस्य । परि । यामि । आशुऽभिः । प्र । एतशेभिः । वहमानः । ओजसा ।
यत् । मा । सावः । मनुषः । आह । निःऽनिजे । ऋधक् । कृषे । दासम् । कृत्व्यम् । हथैः ॥७
“अहं “सूर्यस्य देवस्य “आशुभिः शीघ्रगामिभिः “एतशेभिः एतशवर्णैरश्वैः "वहमानः उह्यमानः “ओजसा आत्मीयेन बलेन प्रकर्षेण “परि “यामि परिगच्छामि सूर्यात्मना । किंच “यत् यदा “मा मां “मनुषः मनुष्यस्य “सावः सोमाभिषवः “आह ब्रूते । आह्वयतीत्यर्थः । किमर्थमाह । “निर्णिजे । निर्णिगिति रूपनाम । यज्ञस्वरूपायेत्यर्थः । तदानीं “कृत्व्यं कर्तव्यम् । हन्तव्यमित्यर्थः । “दासम् उपक्षपयितारं शत्रुं “हथैः हननसाधनैः “ऋधक्कृषे पृथक्करोमि । ऋधगित्ययं पृथगर्थे ।
अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टर॒ः प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदु॑म् ।
अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ॥८
अ॒हम् । स॒प्त॒ऽहा । नहु॑षः । नहुः॑ऽतरः । प्र । अ॒श्र॒व॒य॒म् । शव॑सा । तु॒र्वश॑म् । यदु॑म् ।
अ॒हम् । नि । अ॒न्यम् । सह॑सा । सहः॑ । क॒र॒म् । नव॑ । व्राध॑तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥८
अहम् । सप्तऽहा । नहुषः । नहुःऽतरः । प्र । अश्रवयम् । शवसा । तुर्वशम् । यदुम् ।
अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम् ॥८
“अहं "सप्तहा सप्तसंख्याकानां शत्रुपुरां हन्ता। ‘सप्त यत्पुरः शर्म शारदीः ' (ऋ. सं. १. १७४.२ ) इत्युक्तम् । यद्वा । सप्त नमुच्यादीन् हतवान् । किंच “नहुषः बन्धकस्यापि “नहुष्टरः बन्धकतरोऽहं “शवसा बलेन "तुर्वशं “यदुं च “प्राश्रावयं शत्रुसंबन्धिगवादिप्रदानेन श्रावितवानस्मि । तौ यथा लोके श्रुतौ भवतः तथाकार्षमित्यर्थः । किंच “अहम् “अन्यं चास्मत्स्तोतारं “सहसा बलेन “सहः बलिनं “करम् “अकार्षम् । करोतेर्लुङि ‘कृमृदृरुहि°' इति च्लेरङ्। अडभावः । किंच “नव नवसंख्याकाः “नवतिं “च नवतिसंख्याकाश्च । नवोत्तरनवतिमित्यर्थः । कथंभूताः । “व्राधतः वर्धमानाः “वक्षयम् अवहम् । व्यनाशयमित्यर्थः ॥
अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्व॑ः पृथि॒व्यां सी॒रा अधि॑ ।
अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥९
अ॒हम् । स॒प्त । स्र॒वतः॑ । धा॒र॒य॒म् । वृषा॑ । द्र॒वि॒त्न्वः॑ । पृ॒थि॒व्याम् । सी॒राः । अधि॑ ।
अ॒हम् । अर्णां॑सि । वि । ति॒रा॒मि॒ । सु॒ऽक्रतुः॑ । यु॒धा । वि॒द॒म् । मन॑वे । गा॒तुम् । इ॒ष्टये॑ ॥९
अहम् । सप्त । स्रवतः । धारयम् । वृषा । द्रवित्न्वः । पृथिव्याम् । सीराः । अधि ।
अहम् । अर्णांसि । वि । तिरामि । सुऽक्रतुः । युधा । विदम् । मनवे । गातुम् । इष्टये ॥९
“वृषा वर्षकः “अहं “सप्त “स्रवतः स्रवतीर्नदी: “धारयम् अधारयम् । कीदृश्यस्ताः । “द्रवित्न्वः द्रवन्तीः। ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घाभावः । “सीराः सरणशीलाः । कुत्र। “पृथिव्याम् । “सुक्रतुः शोभनकर्मा “अहम् “अर्णांसि उदकानि “वि “तिरामि प्रयच्छामि । किंच “मनवे मनुष्याय “इष्टये तस्य गमनाय “गातुं मार्गं “युधा संप्रहारेण । निरोधपरिहारेणेत्यर्थः । “विदम् अलम्भयम् । प्रायच्छमित्यर्थः । विदेर्लाभार्थस्य • पुषादि (पा. सू. ३. १. ५५) इत्यादिना च्लेरङ्॥ ।
अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् ।
स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥१०
अ॒हम् । तत् । आ॒सु॒ । धा॒र॒य॒म् । यत् । आ॒सु॒ । न । दे॒वः । च॒न । त्वष्टा॑ । अधा॑रयत् । रुश॑त् ।
स्पा॒र्हम् । गवा॑म् । ऊधः॑ऽसु । व॒क्षणा॑सु । आ । मधोः॑ । मधु॑ । श्वात्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥१०
अहम् । तत् । आसु । धारयम् । यत् । आसु । न । देवः । चन । त्वष्टा । अधारयत् । रुशत् ।
स्पार्हम् । गवाम् । ऊधःऽसु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आऽशिरम् ॥१०
“अहं “तत् प्रसिद्धं पयः “आसु गोषु “धारयं धृतवानस्मि । धृञ् धारणे । ण्यन्तस्य लङि रूपम् । “यत् पयः “आसु गोषु “देवश्चन “त्वष्टा देवशिल्पी सूर्यो वा देवः “न “चन “अधारयत धर्तुं नाशक्नोत् । कीदृक् पयोऽधारयमिति चेत् उच्यते । “रुशत् दीप्तं “स्पार्हं स्पृहणीयम् । केषु प्रदेशेष्विति उच्यते । “गवामूधःसु उद्धततरेषु गवां पयोधारणप्रदेशेषु । किंच “मधु उदकं “वक्षणासु । नदीनामैतत् । वहनशीलासु नदीषु धारयामीत्यनुषज्यते । नद्युदकधारणस्थावधिरुच्यते । “आ “मधोः आ उदकोत्पत्तेः । आगामिवर्षासमयपर्यन्तमित्यर्थः । कीदृशं मध्विति तदुच्यते । “श्वात्र्यम् । श्वात्रमिति क्षिप्रनाम । क्षिप्रगमनार्हम् । यद्वा । श्वात्र्यमित्युत्तरत्र संबध्यते । श्वात्र्यं सुखावहं “सोमं प्रति “आशिरं धारयम् ॥
ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः ।
विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रास॑ः स्वयशो गृणन्ति ॥११
ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः ।
विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥११
एव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघऽवा । सत्यऽराधाः ।
विश्वा । इत् । ता । ते । हरिऽवः । शचीऽवः । अभि । तुरासः । स्वऽयशः । गृणन्ति ॥११
अथानयेन्द्र इन्द्रभावं परित्यज्य ऋषिभावेनाह । “एव एवमुक्तप्रकारेण “देवान् “नॄन् च “इन्द्रः देवः “प्र “विव्ये प्रकर्षेण गमयति । तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते । ( तै. सं. ६. ३. १. ४ ) इति ब्राह्मणम् । किमन्यसहायेन नेत्याह । “च्यौत्नेन स्वीयेन बलेन । कीदृश इन्द्रः । “मघवा धनवान् “सत्यराधाः सत्यधनः । अथ प्रत्यक्षेणाह । हे “हरिवः हरिभ्यां तद्वन् “शचीवः कर्मवन् हे “स्वयशः स्वायत्तकीर्तेऽन्नवन् वेन्द्र “ता तानि “विश्वा सर्वाणि कर्माणि "ते तव संबन्धीनि येषु कर्मसु "तुरासः त्वरमाणा ऋत्विजः “अभि “गृणन्ति अभिष्टुवन्ति ॥ ॥ ८ ॥
मण्डल १० | ||||
---|---|---|---|---|