ऋग्वेदः सूक्तं १०.४८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.४७ ऋग्वेदः - मण्डल १०
सूक्तं १०.४८
वैकुण्ठ इन्द्रः
सूक्तं १०.४९ →
दे. इन्द्रः। जगती, ७, १०-११ त्रिष्टुप्।


अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः ।
मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥१॥
अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि ।
अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥२॥
मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् ।
ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥३॥
अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् ।
पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥४॥
अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन ।
सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥५॥
अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत ।
आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥६॥
अभीदमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति ।
खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥७॥
अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् ।
यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥८॥
प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता ।
दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥९॥
प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति ।
स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः ॥१०॥
आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम ।
ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् ॥११॥


सायणभाष्यम्

अहं भुवम्' इत्येकादशर्चं षष्ठं सूक्तम् । पूर्वसूक्तेन सप्तगुना स्तुतो हृष्टः सन्निदमादिसूक्तत्रयेण स्वयमात्मानमस्तौत् । तस्माद्वैकुण्ठस्येन्द्रस्य वाक्यत्वात् “ यस्य वाक्यं स ऋषिः' इति परिभाषया इन्द्र ऋषिः । वैकुण्ठस्येन्द्रस्य च स्तूयमानत्वात् ' या तेनोच्यते सा देवता ' इति परिभाषया इन्द्र एव देवता । दशम्येकादशीसप्तम्यस्त्रिष्टुभः । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रान्तं - स सप्तगुस्तुतिसंहृष्ट आत्मानमुत्तरैस्त्रिभिस्तुष्टावाहं भुवमेकादशान्त्ये त्रिष्टुभौ सप्तमी च ' इति । अतिरात्रे द्वितीयपर्याये होतुः शस्त्र एतत्सूक्तम् । सूत्रितं च - ‘ अहं भुवमपाय्यस्यान्धसो मदायेति याज्या ' ( आश्व. श्रौ. ६. ४ ) इति । समूळ्हस्य दशरात्रस्य तृतीये छन्दोमे निष्केवल्येऽप्येतत्सूक्तम् । अहं भुवं तत्त इन्द्रियमिति निष्केवल्यम् ' (आश्व. श्रौ. ८.७) इति हि सूत्रितम् ॥


अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः ।

मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥१

अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒या॒मि॒ । शश्व॑तः ।

माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥१

अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जयामि । शश्वतः ।

माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥१

“अहम् इन्द्रः "वसुनः धनस्य पूर्व्यः मुख्योऽसाधारणः “पतिः स्वामी “भुवम् अभवम् । भवतेर्लंङि बहुलं छन्दसि ' इति शपो लुक् । 'अचि नुधातुभ्रुवाम् ' इत्यादिना उवङादेशः । अडभावश्छान्दसः । तथा “अहं “शश्वतः । बहुनामैतत् । बहोः शत्रोः संबन्धीनि “धनानि । “सम् इत्येकीभावे । सह “जयामि । किंच “माम् एव “जन्तवः प्राणिनो यजमानाः "हवन्ते आह्वयन्ति । “पितरं “न पितरमिव पुत्राः । “अहं “दाशुषे हविषो दात्रे यजमानाय “भोजनम् अन्नं “वि “भजामि ददामि ॥


अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ ।

अ॒हं दस्यु॑भ्य॒ः परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥२

अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒ताय॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ ।

अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥२

अहम् । इन्द्रः । रोधः । वक्षः । अथर्वणः । त्रिताय । गाः । अजनयम् । अहेः । अधि ।

अहम् । दस्युऽभ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने ॥२

आद्यपादस्येतिहासमाहुः । आथर्वणं दध्यञ्चं मधुविद्यावन्तमिन्द्र आगत्य मधुविद्यां कस्यचिन्न ब्रूया इति नियमितवान् । यदि ब्रूयास्ते शिरो हरामीत्युक्तवान् । स चाथर्वणोऽश्विभ्यामुवाच । इदं वै तन्मधु दध्यङ्ङाथर्वाणोऽश्विभ्यामुवाच ' (श. ब्रा. १४.२.५.१६) ‘ अश्वस्य शीर्ष्णा प्र यदीमुवाच ' (ऋ. सं. १. ११६. १२) इति हि श्रुतिः । स चेन्द्र आगत्य दधीचः शिरोऽहरदिति तदत्रोच्यते । “इन्द्रः “अहम् “अथर्वणः अथर्वणः पुत्रस्य दधीचः “वक्षः । तदुपलक्षितं शिर इत्यर्थः । तस्य "रोधः रोधको हर्तास्मि । तथा “त्रिताय एतन्नामकायाप्त्याय कूपपतितायोद्धरणार्थम् “अहेः मेघस्य “अधि उपरि “गाः उदकानि “अजनयम् उदपादयम् । त्रितस्य कूपपतितस्येन्द्रं प्रत्युद्धरणप्रार्थनं 'सं मा तपन्त्यभितः' ( ऋ. सं. १०.३३.२) इत्यत्र प्रतिपादितम् । तथा “अहं “दस्युभ्यः उपक्षपयितृभ्यः शत्रुभ्यः सकाशात् “नृम्णं धनम् “आ “ददे आदत्तवानस्मि । किं कुर्वन् । “गोत्रा गवामुदकानां रक्षकान मेघान “शिक्षन् विनयन्। किमर्थम् । “मातरिश्वने मातरिश्वनः पुत्राय “दधीचे एतन्नामकायर्षये वर्षकामाय प्रवर्षयितुमिच्छन् ॥


मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् ।

ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥३

मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् ।

मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥३

मह्यम् । त्वष्टा । वज्रम् । अतक्षत् । आयसम् । मयि । देवासः । अवृजन् । अपि । क्रतुम् ।

मम । अनीकम् । सूर्यस्यऽइव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च ॥३

“मह्यं मदर्थं “त्वष्टा देवः “आयसम् अयोमयं “वज्रम् आयुधम् “अतक्षत संपादितवान्। देवाः “मयि विषये “क्रतुं स्वविरोधिहननरूपं कर्म “अपि “अवृजन् समपादयन् । “मम “अनीकं सेनासमूहं सूर्यानीकमिव “दुष्टरम् अन्येन तरीतुमशक्यम्। “माम् एव “कृतेन कर्मणा “कर्त्वेन इतः परं कर्तव्येन वृत्रवधादिरूपेण “आर्यन्ति गच्छन्ति । आर्यतिर्गतिकर्म। यद्वा । अर्यमीश्वरं कुर्वन्ति ।


अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् ।

पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥४

अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अश्व्य॑म् । प॒शुम् । पु॒री॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् ।

पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । दा॒शुषे॑ । यत् । मा॒ । सोमा॑सः । उ॒क्थिनः॑ । अम॑न्दिषुः ॥४

अहम् । एतम् । गव्ययम् । अश्व्यम् । पशुम् । पुरीषिणम् । सायकेन । हिरण्ययम् ।

पुरु । सहस्रा । नि । शिशामि । दाशुषे । यत् । मा । सोमासः । उक्थिनः । अमन्दिषुः ॥४

“अहमेतं “गव्ययं गोमयम् “अश्व्यम् अश्वमयं “हिरण्ययं हिरण्यालंकारोपेतं “पुरीषिणम् । पुरीषमुदकं क्षीररूपम् । तद्वन्तं “पशुं शत्रुसंबन्धिनम् । जात्येकवचनम् । पशुसंघमित्यर्थः । तं “सायकेन आयुधेन अजयम् । तथा “पुरु पुरूणि “सहस्रा सहस्राणि शस्त्राणि “नि “शिशामि संस्करोमि “दाशुषे हविर्दत्तवते यजमानाय । वैरिविनाशायेत्यर्थः । कदेति उच्यते । “यत् यदा “मा मां “सोमासः सोमाः “उक्थिनः शस्त्रोपेताः सन्तः अथवा सोमेन शस्त्रैश्चोपेता यजमानाः “अमन्दिषुः तर्पयन्ति ।


अ॒हमिन्द्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न ।

सोम॒मिन्मा॑ सु॒न्वन्तो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥५

अ॒हम् । इन्द्रः॑ । न । परा॑ । जि॒ग्ये॒ । इत् । धन॑म् । न । मृ॒त्यवे॑ । अव॑ । त॒स्थे॒ । कदा॑ । च॒न ।

सोम॑म् । इत् । मा॒ । सु॒न्वन्तः॑ । या॒च॒त॒ । वसु॑ । न । मे॒ । पू॒र॒वः॒ । स॒ख्ये । रि॒षा॒थ॒न॒ ॥५

अहम् । इन्द्रः । न । परा । जिग्ये । इत् । धनम् । न । मृत्यवे । अव । तस्थे । कदा । चन ।

सोमम् । इत् । मा । सुन्वन्तः । याचत । वसु । न । मे । पूरवः । सख्ये । रिषाथन ॥५

“इन्द्रः सर्वस्य धनस्य स्वामी "अहं “धनम् आत्मीयं “न “परा “जिग्य “इत् नैव पराभावयामि । मदीयं धनं न पराभूयत इत्यर्थः। किंचाहं “मृत्यवे सर्वेषां मारकाय “कदा “चन कदापि “न “अव “तस्थे नावस्थितो भवामि । इन्द्रभक्ता न मृत्युभाजो भवन्ति किल किमु वक्तव्यमिन्द्रस्य मृत्युविरहे । यस्मादेवं तस्मात् “सोमं “सुन्वन्तः हे यजमानाः "वसु युष्मदपेक्षितं धनं “मा “इत् मामेव “याचत । हे “पूरवः मनुष्याः “मे “सख्ये “न “रिषाथन मा रिष्टा भवथ। मत्सख्यं मा विनाशयत ॥ ॥ ५ ॥


अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत ।

आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विन॑ः ॥६

अ॒हम् । ए॒तान् । शाश्व॑सतः । द्वाऽद्वा॑ । इन्द्र॑म् । ये । वज्र॑म् । यु॒धये॑ । अकृ॑ण्वत ।

आ॒ऽह्वय॑मानान् । अव॑ । हन्म॑ना । अ॒ह॒न॒म् । दृ॒ळ्हा । वद॑न् । अन॑मस्युः । न॒म॒स्विनः॑ ॥६

अहम् । एतान् । शाश्वसतः । द्वाऽद्वा । इन्द्रम् । ये । वज्रम् । युधये । अकृण्वत ।

आऽह्वयमानान् । अव । हन्मना । अहनम् । दृळ्हा । वदन् । अनमस्युः । नमस्विनः ॥६

“अहम् इन्द्रः “एतान् वक्ष्यमाणान् "शाश्वसतः भृशं प्राणतः प्रवृद्धबलान् शत्रून् “द्वाद्वा द्वौ द्वौ। युग्मभूतानित्यर्थः। तानहनमिति संबन्धः। एतानित्युक्तं कानित्याह । “ये शत्रवः “इन्द्रं शत्रूणां दारकम् । इन्द्रः शत्रूणां दारयिता इति निरुक्तम् (निरु. १०. ८ )। ईदृशं “वज्रं बलिनं यद्वा वज्रवन्तं “युधये युद्धाय “अकृण्वत अकुर्वत तानेतानित्यर्थः । पुनः कीदृशान् । “आह्वयमानान् एहि युध्यस्वेत्याह्वयतः शत्रून् “नमस्विनः नमनवतो बलान्नामयित्वा "अनमस्युः अप्रणतिशीलः सन् “दृळ्हा दृढानि भयजनकानि स्थिराणि वचनानि “वदन् "अहनं हतवानस्मि ॥


अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रय॑ः करन्ति ।

खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥७

अ॒भि । इ॒दम् । एक॑म् । एकः॑ । अ॒स्मि॒ । नि॒ष्षाट् । अ॒भि । द्वा । किम् । ऊं॒ इति॑ । त्रयः॑ । क॒र॒न्ति॒ ।

खले॑ । न । प॒र्षान् । प्रति॑ । ह॒न्मि॒ । भूरि॑ । किम् । मा॒ । नि॒न्द॒न्ति॒ । शत्र॑वः । अ॒नि॒न्द्राः ॥७

अभि । इदम् । एकम् । एकः । अस्मि । निष्षाट् । अभि । द्वा । किम् । ऊं इति । त्रयः । करन्ति ।

खले । न । पर्षान् । प्रति । हन्मि । भूरि । किम् । मा । निन्दन्ति । शत्रवः । अनिन्द्राः ॥७

अहम् “इदम् इदानीम् “एकं शत्रुम् “एकः असहाय एव सन् "अभि "अस्मि अभिभवामि । किंच “निष्षाट् सपत्नान्निःषहमाणोऽहं “द्वा द्वावप्यसह्यौ शत्रू “अभि अस्मि । “किमु किं वा “त्रयः शत्रवः “करन्ति कुर्वन्ति । तानप्यभिभवामीत्यर्थः । किं बहुना । “खले “न खलनिष्पादने यथा जीर्णव्रीह्यादिस्तम्बाननायासेन प्रतिहन्ति कर्षकः तद्वत् "पर्षान् निष्ठुरान् “भूरि बहून् शत्रून् “प्रति “हन्मि । “मा माम् “अनिन्द्राः इन्द्ररहिता इन्द्रमजानन्त इन्द्रविरोधिनः “शत्रवः मामिन्द्रं “किं “निन्दन्ति । निन्दितुमशक्ता इत्यर्थः । अत्र ‘ अभिभवामि' (निरु. ३. १०) इत्यादि निरुक्तं द्रष्टव्यम् ॥


अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् ।

यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥८

अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् ।

यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥८

अहम् । गुङ्गुऽभ्यः । अतिथिऽग्वम् । इष्करम् । इषम् । न । वृत्रऽतुरम् । विक्षु । धारयम् ।

यत् । पर्णयऽघ्ने । उत । वा । करञ्जऽहे । प्र । अहम् । महे । वृत्रऽहत्ये । अशुश्रवि ॥८

“अहम् इन्द्रः “गुङ्गुभ्यः एतन्नामकेभ्यो जनपदेभ्यो रक्षणाय “अतिथिग्वम् अतिथिगोः पुत्रं दिवोदासमृषिम् “इष्करं निष्कर्तारं “वृत्रतुरं शत्रूणां हिंसक “विक्षु प्रजासु मध्ये “इषं “न अन्नमिव तासामन्नं यथा भोगाय भवति तद्वदन्नस्थानीयं “धारयं धारितवानस्मि । कदेति उच्यते । “यत् यदा “पर्णयघ्ने पर्णयनामकस्यासुरस्य हननवति “उत “वा अपि च “करञ्जहे एतन्नामकस्य हननोपेते “महे महति “वृत्रहत्ये संग्रामे “अशुश्रवि श्रुतोऽभवम् ॥


प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता ।

दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करम् ॥९

प्र । मे॒ । नमी॑ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा॑म् । एषे॑ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता ।

दि॒द्युम् । यत् । अ॒स्य॒ । स॒म्ऽइ॒थेषु॑ । मं॒हय॑म् । आत् । इत् । ए॒न॒म् । शंस्य॑म् । उ॒क्थ्य॑म् । क॒र॒म् ॥९

प्र । मे । नमी । साप्यः । इषे । भुजे । भूत् । गवाम् । एषे । सख्या । कृणुत । द्विता ।

दिद्युम् । यत् । अस्य । सम्ऽइथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम् ॥९

“मे मम मत्संबन्धी “नमी । नामकत्वान्नमः स्तोत्रम् । तदस्यास्तीति नमी स्तोता “साप्यः । सर्वैराश्रयणीयः सन् “इषे अन्नाय “भुजे भोगाय “प्र “भूत प्रभवति । तं मत्स्तोतारं मनुष्याः “गवामेषे अन्वेषणाय “सख्या सख्याय च “द्विता द्विविधं द्विप्रकाराय ”कृणुत कृण्वन्ति । गवां दातारं सखायं च कुर्वन्तीत्यर्थः । यद्वा। गवामेष एषणे द्विता द्वैधाय सख्याय शारीराय सैनिकाय च सख्यायं कृण्वन्ति । कदेति उच्यते । “यत् यदा “अस्य मत्संबन्धिनः स्तोतुर्जयार्थं “समिथेषु संग्रामेषु “दिद्युम् आयुधं “मंहयं स्वीकुर्यामित्यर्थः । “आदित् अनन्तरमेव “एनं स्तोतारं “शंस्यं स्तुत्यम् “उक्थ्यम् उक्थार्हं “करम् अकरं करोमि ॥


प्र नेम॑स्मिन्ददृशे॒ सोमो॑ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति ।

स ति॒ग्मशृ॑ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥१०

प्र । नेम॑स्मिन् । द॒दृ॒शे॒ । सोमः॑ । अ॒न्तः । गो॒पाः । नेम॑म् । आ॒विः । अ॒स्था । कृ॒णो॒ति॒ ।

सः । ति॒ग्मऽशृ॑ङ्गम् । वृ॒ष॒भम् । युयु॑त्सन् । द्रु॒हः । त॒स्थौ॒ । ब॒हु॒ले । ब॒द्धः । अ॒न्तरिति॑ ॥१०

प्र । नेमस्मिन् । ददृशे । सोमः । अन्तः । गोपाः । नेमम् । आविः । अस्था । कृणोति ।

सः । तिग्मऽशृङ्गम् । वृषभम् । युयुत्सन् । द्रुहः । तस्थौ । बहुले । बद्धः । अन्तरिति ॥१०

“नेमस्मिन् । नेमशब्दोऽर्धपर्यायः । यष्टा अयष्टा च द्वौ पुरुषौ युध्यन्तौ। तयोरेकस्मिन् यष्टरीत्यर्थः । तस्मिन् “अन्तः “सोमः “ददृशे दृश्यते । तं "नेमम् अर्धमेकं “गोपाः गोपायितेन्द्रः “अस्था क्षेपणसाधनेन वज्रेण “आविः “कृणोति प्रकटयति । शत्रुभिरनभिभूतं करोतीत्यर्थः । “सः यत्र सोमो न दृश्यते सः “तिग्मशृङ्गं तीक्ष्णायुधं “वृषभं बाणान् वर्षयन्तमिन्द्रेणानुगृहीतं प्रति “युयुत्सन् योद्भुमिच्छन् “द्रुहः द्रोग्ध्रा “बद्धः सन् "बहुले अन्धकारे “अन्तः तस्य मध्ये “तस्थौ तिष्ठति । यद्वा एवं व्याख्येयम् । नेमस्मिन्निन्द्रभक्तेऽन्तः सोमो ददृशे । नेममन्यं गोपाः स्वभक्तरक्षक इन्द्रोऽस्था अस्थ्ना वज्रेणाविष्कृणोति । आविष्करोति । वज्रेण पीडयतीत्यर्थः । स नेमो द्रुहस्तिग्मशृङ्गं वृषभमिन्द्रं युयुत्सन् । शिष्टं समानम् ॥


आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ ।

ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हम् ॥११

आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ ।

ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥११

आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम ।

ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥११

“आदित्यानां “वसूनां “रुद्रियाणां रुद्राणां यद्वा रुद्रपुत्राणां मरुतां च “देवानां “धाम स्थानं “देवः इन्द्रः “न “मिनाति न हिनस्ति । “ते आदित्यादयः “मा मां “भद्राय “शवसे “ततक्षुः अनुगृह्णन्तु । “अपराजितमस्तृतम् अहिंसितम् “अषाळ्हम् अनभिभूतम् ॥


[सम्पाद्यताम्]

१०.४८.७

ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु । याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।।बृहद्देवता १.४९ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४८&oldid=202195" इत्यस्माद् पुनः प्राप्तिः