सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.२

विकिस्रोतः तः
← सूक्तं १०.१ ऋग्वेदः - मण्डल १०
सूक्तं १०.२
त्रित आप्त्यः
सूक्तं १०.३ →
दे. अग्निः। त्रिष्टुप्

पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँरृतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥१॥
वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥२॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् ।
अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥३॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥४॥
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥५॥
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥६॥
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥७॥

सायणभाष्यम्

‘पिप्रीहि' इति सप्तर्चं द्वितीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘पिप्रीहि' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । दर्शपूर्णमासयोराद्या स्विष्टकृतोऽनुवाक्या । सूत्रित च- ‘ अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या' ( आश्व, श्रौ. १. ६) इति ॥


पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह ।

ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥१

पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।

ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥१

पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह ।

ये । देव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १ ॥

हे "यविष्ठ युवतमाग्ने "उशतः स्तुतीः श्रोतुं कामयमानान् “देवान् “पिप्रीहि हविर्भिः प्रीणय । हे "ऋतुपते ऋतूनां देवयागकालानां स्वामिन्नग्ने “ऋतून् यागकालान् “विद्वान् जानानस्त्वम् “इह अस्मिन् यज्ञे तान् “यज पूजय । किंच हे अग्ने “दैव्याः देवेषु भवाः “ अग्निर्होताश्विनावध्वर्यू त्वष्टाग्नीन्मिन्न उपवक्ता' (तै. आ. ३. ३) इत्यत्रोक्ताः “ये “ऋत्विजः सन्ति "तेभिः तैः सह देवान् यज । यद्वा । दैव्या देवेषु भवा ऋत्विज आश्वलायनेनोक्ताः चन्द्रमा ब्रह्मादित्योऽध्वर्युः पर्जन्य उद्गाता (आश्व. गृ. १. २३. ८-९) इति । तैः सह यज । यस्मात् “त्वं होतॄणां मध्ये “आयजिष्ठः अभिमुख्येन देवानां यष्टृतमः “असि भवसि ॥


वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।

स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥२

वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।

स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥२

वेषि । होत्रम् । उत। पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा।

स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥ २ ॥

हे अग्ने “जनानां यजमानार्थं “होत्रं होतुः कर्म तेन क्रियमाणं स्तोत्रं "वेषि कामयसे। “उत अपि च “पोत्रं पोतुः कर्म तेन क्रियमाणां स्तुतिं कामयसे। किंच “मन्धाता मेधावी “ऋतावा सत्यवांस्त्वं द्रविणोदाः “असि धनस्य प्रदाता भवसि । अथ परोक्षकृतः । वयं देवेभ्यः “हवींषि “स्वाहा “कृणवाम स्वाहा करवाम। प्रयच्छाम । ततः “देवः दीप्यमानः “अर्हन् प्रशंस्यो यजमानयोग्यो वा “अग्निः देवान “यजतु । तैर्हविर्भिः पूजयतु ।


दर्शपूर्णमासातिपत्त्यादौ निमित्ते पाथिकृतीष्टिः कर्तव्या। तत्र ‘ आ देवानाम्' इत्येषा याज्या । सूत्रितं च- 'वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्म' (आश्व. श्रौ. ३. १०) इति । प्रायणीयायामाग्नेयस्यैषैव याज्योदयनीयायां सैवानुवाक्या। सूत्रितं च--- अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' (आश्व, श्रौ. ४. ३) इति । विपरीताश्च याज्यानुवाक्या इति ॥

आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् ।

अ॒ग्निर्वि॒द्वान्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्स ऋ॒तून्क॑ल्पयाति ॥३

आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् ।

अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥३

आ। देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् ।

अग्निः । विद्वान् । सः । यजात् । सः । इत् । ॐ इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ ३ ॥

“देवानां देवलोकादिगमनसाधनं देवानां स्वभूतं “पन्थां पन्थानं तम् “अपि वैदिकमार्गं वयम् “आ “अगन्म आगतवन्तो भवेम येन देवान् प्राप्नुमः । तथा वयं “यत् कर्म अनुष्ठातुं “शक्नवाम शक्नुमः समर्था भवामः “तत् कर्म अनुक्रमेण “प्रवोळ्हुं प्रकर्षेण वोढुं समाप्तिं प्रापयितुं समर्था भवेम । अनन्तरं “विद्वान् तं पन्थानं जानानः “सः “अग्निः “यजात् देवान् यजतु । “सेदु स एव खलु “होता मनुष्याणां होमनिप्पादकः । ततः सः एवाग्निः अध्वरान् यज्ञान् किंच “ऋतून् कालान् कल्पयाति कल्पयतु करोतु ॥


व्रतातिपत्तौ व्रातपतीष्टिः कर्तव्या । तत्र ' यद्वो वयम्' इत्येषा याज्या । सूत्रितं च -- त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि' (आश्व. श्रौ. ३. १३) इति ॥

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।

अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥४

तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः ।

अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥४

यत् । वः । वयम् । प्रऽमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःऽतरासः ।

अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुऽभिः । कल्पयाति ॥४॥

हे देवाः “अविदुष्टरासः अविद्वत्तरा अत्यन्तमजानन्तः “वयं “वः युष्माकं “यत् यत्किंचित् “व्रतानि कर्माणि “विदुषां भवतां जानतामेव “प्रमिनाम प्रहिंसितवन्तः। भवत्सु जानत्सु नित्यनैमित्तिककर्माणि विलोपितवन्त इत्यर्थः । “विद्वान् एतत् सर्वं “जानानः अग्निः स्विष्टकृत् “तत् एतत् विश्वं सर्वं कर्मजातम् “आ “पृणाति आपूरयतु। फलसहितं करोत्वित्यर्थः । केनापूरयतु तत्राह। “येभिः “ऋतुभिः यागयोग्यैः कालैः “देवान् “कल्पयाति कल्पयति कर्माङ्गभावाय समर्थयति तैरापूरयतु ।


यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।

अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥५

यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।

अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥५

यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः ।

अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥५॥

“दीनदक्षाः सततयाजनेन दीनबला दीनोत्साहा वा “मर्त्यासः मर्त्या मनुष्या ऋत्विजः “पाकत्रा पाकेन । बहुलग्रहणादस्मादपि तृतीयार्थे त्राप्रत्यर्थः । पाकेन पक्तव्येन विशिष्टज्ञानरहितेनाल्पेन वा मनसा युक्ताः सन्तो यज्ञसंबन्धि “यत् कर्म “न “मन्वते न जानन्ति तत् कर्म “विजानन् "होता देवानामाह्वाता होमनिष्पादको वा “क्रतुवित् कर्मवित् "यजिष्ठः देवानामतिशयेन यष्टा सः “अग्निः स्विष्टकृत् “ऋतुशः ऋतावृतौ स्वे स्वे यागयोग्ये काले “देवान् “यजाति यजतु हविर्भिः पूजयतु ।।


विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।

स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥६

विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ ।

सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥६

विश्वेषाम् । हि। अध्वराणाम् । अनीकम् । चित्रम्। केतुम् । जनिता। त्वा। जजान ।।

सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः॥६॥

हे अग्ने “विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानाम् “अनीकं मुखं प्रधानं “चित्रं चायनीयं नानारूपं वा “केतुं प्रज्ञापकं “त्वा त्वां “जनिता जनयिता प्रजापतिर्यजमानो वा “जजान जनयामास । उत्पादितः “सः त्वं “नृवतीः दासादियुक्ताः “क्षाः । पृथिवीनामैतत् । क्षयन्त्यत्रेति क्षा भूमिः। “अनु “आ यजस्व अनुप्रयच्छ । यद्वा । नृवतीनृभिः संस्कृतानि क्षा अनु पृथिवीं वेदिलक्षणामनुगतानि वेद्यामासादितानि “स्पार्हाः स्पृहणीयानि “क्षुमतीः स्तुतिमन्त्रलक्षणशब्दवन्ति “विश्वजन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् तानि "इषः अन्नानि हविर्लक्षणानि यजस्व देवेभ्यः प्रयच्छ॥


यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।

पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥७

यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ ।

पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥७

यम् । त्वा । द्यावापृथिवी इति । यम्। त्वा । आपः । त्वष्टा। यम् । त्वा। सुऽजनिमा । जजान।

पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि। भाहि ॥७॥

हे अग्ने ये “त्वा त्वां “द्यावापृथिवी जनितवत्यौ आदित्यात्मनाग्न्यात्मना वा । तथा “यं त्वाम् "आपः मेघोदरगता विद्युदात्मना स्थितं जनितवत्यः । यद्वा । आप इत्यन्तरिक्षनाम । द्यावापृथिवी अन्तरिक्षं चेमे त्रयो लोका यं त्वामजीजनन् । किंच "सुजनिमा शोभनजननः त्वष्टा प्रजापतिः “यं "त्वां “जजान जनयामास हे अग्ने “पितृयाणं पितरो येन मार्गेण गच्छन्ति ते “पन्थां हविर्वहनमार्गम् "अनु “प्रविद्वान् प्रजानंस्त्वं “समिधानः समिध्यमानः सन् “द्युमत् दीप्तियुक्तं यथा भवति तथा “वि “भाहि विशेषेण दीप्यसे ॥ ॥ ३० ॥



मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२&oldid=343045" इत्यस्माद् प्रतिप्राप्तम्