ऋग्वेदः सूक्तं १०.१७७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.१७६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७७
पतङ्गः प्राजापत्यः।
सूक्तं १०.१७८ →
दे. मायाभेदः। त्रिष्टुप्, १ जगती।


पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥१॥
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥२॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥३॥


सायणभाष्यम्

‘ पतङ्गम् ' इति तृचं षड्विंशं सूक्तं प्रजापतिपुत्रस्य पतङ्गस्यार्षम् । आद्या जगती ततस्त्रिष्टुभौ । मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम् । अनुक्रान्तं च-- ‘ पतङ्गं तृचं पतङ्गः प्राजापत्यो मायाभेदं जगत्यादि ' इति । प्रवर्ग्येऽभिष्टव आद्ये ऋचौ । सूत्रितं च - पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यः' (आश्व. श्रौ. ४. ६) इति ।।


प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ ।

स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ १

प॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ ।

स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् । प॒दम् । इ॒च्छ॒न्ति॒ । वे॒धसः॑ ॥१

पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः ।

समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् । पदम् । इच्छन्ति । वेधसः ॥१

“असुरस्य असनकुशलस्य सर्वोपाधिविहीनस्य परब्रह्मणः संबन्धिया “मायया त्रिगुणात्मिकया “अक्तं व्यक्तमभिव्यक्तम् । यद्वा। मायेति प्रज्ञानाम । प्रज्ञया संबद्धं सर्वज्ञं “पतङ्गम्। पतति गच्छतीति पतङ्गः सूर्यः । तं “विपश्चितः विद्वांसः "हृदा हृत्स्थेन । तात्स्थ्यात्ताच्छब्द्यम् । हृदि निरुद्धेन “मनसा “पश्यन्ति जानन्ति । “कवयः क्रान्तदर्शिनस्ते “समुद्रे । समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम् । तस्मिन् “अन्तः मध्ये “वि “चक्षते विपश्यन्ति । मण्डलान्तर्वर्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः । य एवं “वेधसः विधातार उक्तप्रकारेण सूर्योपासनस्य कर्तारस्ते “मरीचीनां रश्मीनां “पदं स्थानं सूर्यमण्डलम् “इच्छन्ति अभिलषन्ति । तदुपासनया प्राप्नुवन्तीत्यर्थः । यद्वा । माययाक्तं जीवरूपेणाभिव्यक्तमात्मानं विपश्चितो वेदान्ताभिज्ञा हृत्स्थेनान्तर्मुखेन मनसा पतङ्गम् । पतति व्याप्नोतीति पतङ्गः परमात्मा । तं पश्यन्ति । उपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षात्कुर्वन्तीत्यर्थः । अपि च ते कवयः क्रान्तदर्शिनो वेदान्ताभिज्ञाः समुद्रे । समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा । तस्मिन्नधिष्ठानभूतेऽन्तर्मध्ये सर्वं दृश्यजातमध्यस्तत्वेन वि चक्षते विपश्यन्तीति । अतो दृग्व्यतिरिक्तस्य सर्वस्य मिथ्यात्वाद्वेधसो विधातारस्ते मरीचीनां वृत्तिज्ञानानां पदमधिष्ठानभूतं सच्चित्सुखात्मकं यत्परं ब्रह्म तदेवेच्छन्ति । तद्भावप्राप्तिमेव कामयन्ते ॥


वाग्देवत्ये पशौ ‘ पतङ्गो वाचम्' इति पुरोडाशस्यानुवाक्या । सूत्रितं च -- यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्ति ' ( आश्व. श्रौ. ३. ८) इति ॥

प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः ।

तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥ २

प॒त॒ङ्गः । वाच॑म् । मन॑सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः । अ॒व॒द॒त् । गर्भे॑ । अ॒न्तरिति॑ ।

ताम् । द्योत॑मानाम् । स्व॒र्य॑म् । म॒नी॒षाम् । ऋ॒तस्य॑ । प॒दे । क॒वयः॑ । नि । पा॒न्ति॒ ॥२

पतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति ।

ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥२

“पतङ्गः सूर्यः “वाचं त्रयीरूपां “मनसा प्रज्ञया “बिभर्ति धारयति । श्रूयते हि--- ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः' (तै. ब्रा.३.१२.९.१ ) इति । “ताम् एव वाचं “गर्भे शरीरस्य मध्ये वर्तमानः “गन्धर्वः । गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः । “अन्तः मध्ये “अवदत् वदति प्रेरयति । ‘ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ' ( पा. शि. ७) इति स्मरणात् । “द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा “मनीषां मनस ईशित्रीं “तां त्रयीरूपां वाचम् “ऋतस्य यज्ञस्य सत्यभूतस्य सूर्यस्य वा “पदे स्थाने “कवयः मेधाविन ऋषयः “नि “पान्ति । अध्यापनेन नितरां रक्षन्ति । यद्वा । पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचं मनसा बिभर्ति । कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्टवानित्यर्थः । स्मर्यते हि -- वेदशब्देश्य एवादौ निर्ममे स महेश्वरः' इति । गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत् प्रथममुच्चारितवान् । द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति निभृतं रक्षन्ति ।


प्रवर्ग्येऽभिष्टवे ‘अपश्यं गोपाम्' इत्येषा । सूत्रितं च - ‘ अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य ' (आश्व. श्रौ. ४. ६) इति ।।

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।

स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ ३

अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् ।

सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥३

अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।

सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥३

व्याख्यातेयमस्यवामीयसूक्ते ( ऋ. सं. १. १६४. ३१ ) । “गोप गोपयितारमादित्यम् “अपश्यम् अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति । कीदृशम् । “अनिपद्यमानम् उच्चैर्गच्छन्तम् । न ह्यसौ कदाचिन्नीचैः पद्यते । पथिभिः आकाशमार्गैः पूर्वाह्न “आ “चरन्तम् अस्मानभिलक्ष्य गच्छन्तं सार्थसमये “परा चरन्तं पराङ्मुख गच्छन्तम् । प्रकारद्वयमुच्चयार्थी शब्दौ । सः सूर्यः सध्रीचीः सहञ्चन्तीः “विषूचीः विविधं पृथक्पृथगञ्जन्तीः स्वस्वव्यापाराय गच्छन्तीः । प्राच्याद्या महादिशः सधीच्या विधूच्यः कोणदिशः। “वसानः स्वभासाच्छादयन् प्रकाशयन् “भुवनेषु लोकेषु अन्तः मध्ये “ “वरीवति । पुनःपुनरुद्यन् अस्तं गच्छंश्चावर्तते । यद्वा । गोपां शरीरस्य गोपायितारमनिपद्यमानमविनाशिनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मागैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् अहमदर्शम् ॥ ॥३५॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१