सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१७१

विकिस्रोतः तः
← सूक्तं १०.१७० ऋग्वेदः - मण्डल १०
सूक्तं १०.१७१
इटो भार्गवः
सूक्तं १०.१७२ →
इन्द्रः । गायत्री।


त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः ।
अशृणोः सोमिनो हवम् ॥१॥
त्वं मखस्य दोधतः शिरोऽव त्वचो भरः ।
अगच्छः सोमिनो गृहम् ॥२॥
त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् ।
मुहुः श्रथ्ना मनस्यवे ॥३॥
त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस्कृधि ।
देवानां चित्तिरो वशम् ॥४॥


सायणभाष्यम्

त्वं त्यम्' इति चतुर्ऋचं विंशं सूक्तं भृगुपुत्रस्येटस्यार्षं गायत्रमैन्द्रम् । अनुक्रान्तं च--- * त्वं त्यमिटो भार्गवो गायत्रम्' इति । गतो विनियोगः ॥


त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः ।

अशृ॑णोः सो॒मिनो॒ हव॑म् ॥१

त्वम् । त्यम् । इ॒टतः॑ । रथ॑म् । इन्द्र॑ । प्र । आ॒वः॒ । सु॒तऽव॑तः ।

अशृ॑णोः । सो॒मिनः॑ । हव॑म् ॥१

त्वम् । त्यम् । इटतः । रथम् । इन्द्र । प्र । आवः । सुतऽवतः । अशृणोः । सोमिनः । हवम् ।।१।।

हे "इन्द्र "सुतावतः सुतेनाभिषुतेन सोमेन युक्तस्य "इटतः इटस्य । ‘सुपां सुलुक्' इति ङसस्तस् । एतत्संज्ञस्यर्षेः त्यं तं प्रसिद्धं रथं "प्रावः प्रारक्षः । सोमिनः सोमयुक्तस्य मम हवम् आह्वानम् "अशृणोः शृणु ॥


त्वं म॒खस्य॒ दोध॑त॒ः शिरोऽव॑ त्व॒चो भ॑रः ।

अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥२

त्वम् । म॒खस्य॑ । दोध॑तः । शिरः॑ । अव॑ । त्व॒चः । भ॒रः॒ ।

अग॑च्छः । सो॒मिनः॑ । गृ॒हम् ॥२

त्वम् । मखस्य । दोधतः । शिरः । अव । त्वचः । भरः ।

अगच्छः । सोमिनः । गृहम् ॥ २॥

हे इन्द्र त्वं मखस्य यज्ञस्य दोधतः कम्पमानस्य देवेभ्यः पलायमानस्य शिरः प्रवर्ग्यरूपं त्वचः त्वगुपलक्षिताच्छरीरात् "अव भरः । अवयुत्य पृथक्कृत्य हृतवानसि । देवेभ्यो निष्क्रान्तस्य पुरुषाकारस्य धन्विनो यज्ञस्य शिर इन्द्रो वम्रिरूपेण ज्याघातनद्वारा पुरा चिच्छेद । तदभिप्रायेणेदमुक्तम् । श्रूयते हि - तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनद्रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष स प्रवर्ग्योऽभवत्' (तै. आ. १. ५. २) इति । स त्वं सोमिनः सोमवतो मम गृहम् vअगच्छः आगच्छ


त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् ।

मुहुः॑ श्रथ्ना मन॒स्यवे॑ ॥३

त्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य॑म् । आ॒स्त्र॒ऽबु॒ध्नाय॑ । वे॒न्यम् ।

मुहुः॑ । श्र॒थ्नाः॒ । म॒न॒स्यवे॑ ॥३

त्वम् । त्यम् । इन्द्र । मर्त्यम् । आस्त्रऽबुध्नाय । वेन्यम् ।

मुहुः । श्रथ्नाः । मनस्यवे ।। ३ ।।

हे "इन्द्र त्वं त्यं तं मर्त्यं मनुष्यं वेन्यं वेनस्य पुत्रं पृथुम् आस्त्रबुध्नाय । अस्त्रबुध्नो नाम कश्चित् । तस्य पुत्राय "मनस्यवे मननीयं स्तोत्रमिच्छते vमुहुः शश्वत् Vश्रथ्नाः अहिंसीः । वशमनय इत्यर्थः ॥ ।


त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि ।

दे॒वानां॑ चित्ति॒रो वश॑म् ॥४

त्वम् । त्यम् । इ॒न्द्र॒ । सूर्य॑म् । प॒श्चा । सन्त॑म् । पु॒रः । कृ॒धि॒ ।

दे॒वाना॑म् । चि॒त् । ति॒रः । वश॑म् ॥४

त्वम् । त्यम् । इन्द्र । सूर्यम् । पश्चा। सन्तम्। पुरः । कृधि ।

देवानाम् । चित्। तिरः। वशम्॥४॥

हे इन्द्र त्वं त्यं सूर्यं सायंसमये पश्चा पश्चात् सन्तं भवन्तं "पुरः परेद्युः प्रातःकाले पुरस्तात् कृधि करोषि। लकारव्यत्ययः । कीदृशम् । "देवानां चित् देवानामपि "तिरः तिरोहितं तैरपि क्व गत इति दुर्विज्ञातं "वशं कान्तम् ॥ ॥ २९ ॥



इट गतौ - गमने, अटनं, आरोहणं।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७१&oldid=196000" इत्यस्माद् प्रतिप्राप्तम्