ऋग्वेदः सूक्तं १०.१६९
← सूक्तं १०.१६८ | ऋग्वेदः - मण्डल १० सूक्तं १०.१६९ शबरः काक्षीवतः |
सूक्तं १०.१७० → |
दे. गावः। त्रिष्टुप् |
मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम् ।
पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृळ ॥१॥
याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद ।
या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥२॥
या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणि वेद ।
ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि ॥३॥
प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः ।
शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम ॥४॥
सायणभाष्यम्
' मयोभूः ' इति चतुर्ऋचमष्टादशं सूक्तं कक्षीवद्गोत्रस्य शबरस्यार्षं त्रैष्टुभं गोदेवत्यम् । अनुक्रान्तं च --' मयोभूः शबरः काक्षीवतो गव्यम् ' इति । घासाय वनं प्रतिष्ठमाना गा आदितो द्वाभ्यामभिमन्त्रणीयाः । सूत्रितं च --' गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि वातूस्रा इति द्वाभ्याम् ' (आश्व गृ. २. १०.५) इति ।।
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् ।
पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥ १
म॒यः॒ऽभूः । वातः॑ । अ॒भि । वा॒तु॒ । उ॒स्राः । ऊर्ज॑स्वतीः । ओष॑धीः । आ । रि॒श॒न्ता॒म् ।
पीव॑स्वतीः । जी॒वऽध॑न्याः । पि॒ब॒न्तु॒ । अ॒व॒साय॑ । प॒त्ऽवते॑ । रु॒द्र॒ । मृ॒ळ॒ ॥१
मयःऽभूः । वातः । अभि । वातु । उस्राः । ऊर्जस्वतीः । ओषधीः । आ । रिशन्ताम् ।
पीवस्वतीः । जीवऽधन्याः । पिबन्तु । अवसाय । पत्ऽवते । रुद्र । मृळ ॥१
“वातः वायुः “मयोभूः सुखस्य भाबयिता सन् “उस्राः गाः “अभि “वातु अभिगच्छतु । ताश्च गावः “ऊर्जस्वतीः रसवतीः “ओषधीः बलवन्ति तृणानि “आ “रिशन्ताम् अभितः स्वादयन्तु। तथा “पीवस्वतीः प्रवृद्धाः “जीवधन्याः जीवानां प्रीणयित्रीरपश्च “पिबन्तु । हे “रुद्र ज्वरादिरोगस्य प्रेक्षणेन संहर्तर्देव “पद्वते पादयुक्ताय “अवसाय अन्नाय गोरूपाय “मृळ उपदयां कुरु । मा बाधस्वेत्यर्थः ।।
याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ २
याः । सऽरू॑पाः । विऽरू॑पाः । एक॑ऽरूपाः । यासा॑म् । अ॒ग्निः । इष्ट्या॑ । नामा॑नि । वेद॑ ।
याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥२
याः । सऽरूपाः । विऽरूपाः । एकऽरूपाः । यासाम् । अग्निः । इष्ट्या । नामानि । वेद ।
याः । अङ्गिरसः । तपसा । इह । चक्रुः । ताभ्यः । पर्जन्य । महि । शर्म । यच्छ ॥२
“याः गावः “सरूपाः समानरूपा याश्च “विरूपाः विभिन्नरूपा याश्च “एकरूपाः एकेनैव वर्णेनोपेताः “यासां च गवां “नामानि ईडे रन्तेऽदित इत्यादीनि “इष्ट्या यागेन हेतुना “अग्निः वेद जानाति “याः च गाः “अङ्गिरसः ऋषयः “तपसा पशुप्राप्तिसाधनेन चित्रायागादिलक्षणेन “इह अस्मिँल्लोके “चक्रुः कृतवन्तः “ताभ्यः सर्वाभ्यो गोभ्यो हे “पर्जन्य “महि महत् “शर्म सुखं “यच्छ प्रदेहि ।।
' या देवेषु ' इति द्वाभ्यां सायं गृहमागच्छन्तीर्गा अनुमन्त्रयेत । सूत्र्यते हि - ' या देवेषु तन्वमैरयन्तेति च सूक्तशेषम् । आगावीयमेके ' (आश्व. गृ. २. १०.६-७) इति ।।
या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ॥ ३
याः । दे॒वेषु॑ । त॒न्व॑म् । ऐर॑यन्त । यासा॑म् । सोमः॑ । विश्वा॑ । रू॒पाणि॑ । वेद॑ ।
ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । प्र॒जाऽव॑तीः । इ॒न्द्र॒ । गो॒ऽस्थे । रि॒री॒हि॒ ॥३
याः । देवेषु । तन्वम् । ऐरयन्त । यासाम् । सोमः । विश्वा । रूपाणि । वेद ।
ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । प्रजाऽवतीः । इन्द्र । गोऽस्थे । रिरीहि ॥३
“याः गावः “देवेषु यष्टव्येषु “तन्वम् आत्मीयं शरीरम् “ऐरयन्त हवीरूपेण प्रेरयन्ति “यासां च गवां “विश्वा सर्वाणि “रूपाणि रूप्यमाणानि क्षीरादीनि श्रयणद्रव्याणि “सोमः “वेद जानाति “अस्मभ्यम् अस्मदर्थं “पयसा क्षीरेण “पिन्वमानाः वर्धमाना अत एव “प्रजावतीः प्रजाभिर्वत्सैरुपेताः “ताः गाः हे “इन्द्र “गोष्ठे अस्मदीये “रिरीहि गमय ।। ' री गतिरेषणयोः ' । छान्दसो विकरणस्य श्लुः।।
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः ।
शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥ ४
प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।
शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥४
प्रजाऽपतिः । मह्यम् । एताः । रराणः । विश्वैः । देवैः । पितृऽभिः । सम्ऽविदानः ।
शिवाः । सतीः । उप । नः । गोऽस्थम् । आ । अकरित्यकः । तासाम् । वयम् । प्रऽजया । सम् । सदेम ॥४
“प्रजापतिः विधाता “मह्यं स्तोत्रे “एता गाः “रराणः प्रयच्छन् ।। रातेर्व्यत्ययेन शानच् । छान्दसः शपः श्लुः । ' अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् ।। “विश्वैः सर्वैः “देवैः “पितृभिः च “संविदानः ऐकमत्यं गतः सन् “शिवाः “सतीः कल्याणीर्भवन्तीर्गाः “नः अस्माकं “गोष्ठं व्रजम् “उप गोष्ठसमीपे “अकः करोतु । “तासां गवां “प्रजया संतानेन “वयं “सं “सदेम संगच्छेमहि ।। सदेराशिषि लिङि लिङ्याशिष्यङ् ।। ।। २७ ।।
मण्डल १० | ||||
---|---|---|---|---|