ऋग्वेदः सूक्तं १०.१४३
← सूक्तं १०.१४२ | ऋग्वेदः - मण्डल १० सूक्तं १०.१४३ अत्रिः सांख्यः |
सूक्तं १०.१४४ → |
दे. अश्विनौ। अनुष्टुप् |
त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे ।
कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥१॥
त्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।
दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥२॥
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः ।
अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥३॥
चिते तद्वां सुराधसा रातिः सुमतिरश्विना ।
आ यन्नः सदने पृथौ समने पर्षथो नरा ॥४॥
युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।
यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥५॥
आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥६॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
दशमे मण्डले एकादशेऽनुवाके चतुर्दश सूक्तानि व्याकृतानि । 'त्यं चित्' इति षडृचं पञ्चदशं सूक्तं संख्यपुत्रस्यात्रेरार्षमानुष्टुभमश्विदेवताकम् । तथा चानुक्रान्तं- त्यं षट् सांख्योऽत्रिराश्विनम्' इति । प्रातरनुवाकाश्विनशस्त्रयोरानुष्टुभे छन्दसीदं सूक्तम् । सूत्र्यते हि- ’आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभम् ' ( आश्व. श्रौ. ४. १५) इति ॥
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे ।
क॒क्षीवं॑तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नवं॑ ॥१
त्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे ।
क॒क्षीव॑न्तम् । यदि॑ । पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥१
त्यम् । चित् । अत्रिम् । ऋतऽजुरम् । अर्थम् । अश्वम् । न । यातवे ।
कक्षीवन्तम् । यदि । पुनरिति । रथम् । न । कृणुथः । नवम् ॥१
हे अश्विनौ शतद्वारे पीडायन्त्रगृहेऽसुरैः प्रक्षिप्तो बद्धाङ्गो योऽत्रिरस्ति “त्यं “चित् तमपि “अत्रिम् “ऋतजुरम् । ऋतं स्तोत्रं यज्ञो वा । तेन जीर्यन्तम् । सर्वदा युवयोः परिचरणशीलमित्यर्थः।। जीर्यतेः क्विपि ‘बहुलं छन्दसि ' इति उत्वम् ॥ यद्वा । ऋतेन प्राप्तेनासुरकृतोपद्रवेण ज्वरितं रुग्णम् ।। ‘ज्वर रोगे'। ज्वरत्वर' इत्यादिना वकारस्योपधायाश्च स्थान ऊठ्। जूरी हिंसागत्योः' इत्यस्माद्वा क्विप् । अनयोः पक्षयोश्छान्दसो ह्रस्वः ।। ईदृशं तमत्रिम् “अर्थम् अर्थनीयं प्राप्तव्यं “यातवे गन्तुं युवां कृतवन्तौ । तत्र दृष्टान्तः । “अश्वं “न । यथाश्वो बन्धाद्विमुक्तः सन् शीघ्रं गच्छति एवमयमपि युवयोः प्रसादात् असुरकृतादुपद्रवजातात् विमुच्यमानो यथास्थानमगच्छदित्यर्थः ।। ' या प्रापणे इत्यस्मात् “तुमर्थे सेसेन्°' (पा. सू. ३. ४. ९ ) इति तवेन्प्रत्ययः ॥ "यदि । अपि च इत्यर्थः । “कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तद्वन्तम् ।। ‘आसन्दीवदष्ठीवत् (पा. सू. ८. २. १२) इत्यादौ निपातनात् संप्रसारणम् । दीर्घतमसः पुत्रम् उशिक्प्रसूतमृषिं मन्दबुद्धिं सन्तं युवां ”पुनः “नवं पुनरभिनवप्रज्ञं “कृणुथः अकृणुतम् अकुरुतम् । “रथं “न । यथा कश्चिच्छिल्पी जीर्णं रथं पुनरभिनवं करोति तद्वत् ॥ ‘कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लङर्थे व्यत्ययेन लट् । ‘धिन्विकृण्व्योरच्च' इत्युप्रत्ययः । तत्संनियोगेनाकारान्तादेशश्च । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । ‘सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६, १. १५८.११ ) इति वचनात् तिङ एव स्वरः शिष्यते । निपातैर्यद्यदिहन्त' इति निघातप्रतिषेधः ॥
त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त ।
दृ॒ळ्हं ग्रं॒थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥२
त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त ।
दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥२
त्यम् । चित् । अश्वम् । न । वाजिनम् । अरेणवः । यम् । अत्नत ।
दृळ्हम् । ग्रन्थिम् । न । वि । स्यतम् । अत्रिम् । यविष्ठम् । आ । रजः ॥२
“अरेणवः अहिंस्यमानाः प्रबला असुराः “वाजिनं वेगवन्तम् “अश्वं न अश्वमिव “यम् अत्रिम् “अत्नत अतन्वत बद्धमकृषत ।। तनोतेर्लुङि ‘तनिपत्योश्छन्दसि' इत्युपधालोपः। “त्यं “चित् तं च “अत्रिं "यविष्ठं युवतमं स्तुतेर्मिश्रयितृतमं वा “रजः। रजन्त्यस्मिन् जना इति रजो भूलोकः । रज इमं लोकम् “आ अभि हे अश्विनौ “वि “ष्यतं व्यमुञ्चतम् । दृढं स्थिरतरं “ग्रन्थिं "न ग्रन्थिमिव । यथा कश्चित् तादृशं ग्रन्थिमयत्नेन विमुञ्चति तथा युवां तमृषिमसुरकृताद्बन्धनात् मोचितवन्तावित्यर्थः ।। स्यतमिति ‘ षोऽन्तकर्मणि' इत्यस्माल्लङि श्यनि “ ओतः श्यनि' इत्योकारलोपे रूपम् । छान्दसोऽभावः ।। यद्वा । अत्रिं मां बन्धाद्वि ष्यतं विमुञ्चतमित्यृषिः असुरैर्बद्धः सन् अश्विनौ प्रार्थयते ।।
नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ ।
अथा॒ हि वां॑ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे॑ ॥३
नरा॑ । दंसि॑ष्ठौ । अत्र॑ये । शुभ्रा॑ । सिसा॑सतम् । धियः॑ ।
अथ॑ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति॑ । स्तोमः॑ । न । वि॒ऽशसे॑ ॥३
नरा । दंसिष्ठौ । अत्रये । शुभ्रा । सिसासतम् । धियः ।
अथ । हि । वाम् । दिवः । नरा । पुनरिति । स्तोमः । न । विऽशसे ॥३
हे “नरा नरौ नेतारी “दंसिष्ठौ दर्शनीयतमौ “शुभ्रा शोभमानौ ईदृशौ हे अश्विनौ “अत्रये ऋषये मह्यं “धियः कर्माणि बुद्धीर्वा “सिषासतं दातुमिच्छतम् । षणु दाने' । यद्वा । अत्रये इति षष्ठ्यर्थे चतुर्थी । अत्रेर्मम धियः स्तुतीः कर्माणि वा सिषासतं संभक्तुमिच्छतम् । सेवेथामित्यर्थः ॥ ‘वन षण संभक्तौ '। अस्मात्सनतेः सनोतेर्वा सनि ‘सनीवन्तर्ध० इति विकल्पनादिडभावे ‘जनसनखनाम्' इत्यात्वम् । शुभ्रेत्यस्यामन्त्रितस्य ' आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्त्वेन पदादपरत्वेन पादादित्वात् ' तिङ्ङतिङः' इति निघाताभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सनो नित्त्वादाद्युदात्तत्वम् ॥ “अथा “हि अनन्तरमेव “दिवः । दीव्यतीति स्तौतीति द्यौः स्तोता । तस्य मम “स्तोमो “न । नशब्दश्चार्थे । स्तोत्रं च हे “नरा नेतारावश्विनौ “वां युवां पुनः “विशसे । पुनरेवाद्यापि विशेषेण शंसितुं प्रभवतीति शेषः ।।।
चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना ।
आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥४
चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ ।
आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥४
चिते । तत् । वाम् । सुऽराधसा । रातिः । सुऽमतिः । अश्विना ।
आ । यत् । नः । सदने । पृथौ । समने । पर्षथः । नरा ॥४
हे "सुराधसा शोभनदानौ "अश्विना हे अश्विनौ "सुमतिः शोभना स्तुतिरस्मदीया “रातिः हविर्दानं च "तत् तस्मात्कारणात् "वां युवयोः "चिते ज्ञानाय भवति ।। ‘चिती संज्ञाने' । अस्मात् संपदादिलक्षणो भावे क्विप् । 'सावेकाचः” इति विभक्तेरुदात्तत्वम् ।। "यत् यस्मात्कारणात् "सदने यज्ञगृहे “पृथौ विस्तीर्णे “समने यज्ञे “नः अस्मान हे "नरा नेतारौ “आ “पर्षथः आपूरयथः अभितो रक्षथो वा तस्माद्युवामस्मदीयं परिचरणं ज्ञातवन्तावित्यनुमीमहे ॥ ‘पॄ पालनपूरणयोः ' इत्यस्माल्लेटि • सिब्बहुलम्' इति सिप् । ततः शप् ।।।
यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ईं॑खि॒तं ।
या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतं ॥५
यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् ।
या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥५
युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् ।
यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥५
हे अश्विनौ "युवं युवां "समुद्रे उदधौ निमग्नं "रजसः उदकस्य "पारे प्रान्ते तरङ्गसमूहे “ईङ्खितं डोलायितम् एवंभूतं "भुज्युं तुग्रपुत्रम् "अच्छ अभि "पतत्रिभिः पक्षोपेतैर्नौविशेषैः सह “आ “यातम् आगतवन्तौ स्थः । आगत्य च हे "नासत्या सत्यस्य नेतारौ सत्यस्वभावौ वा हे अश्विनौ "सातये युवयोः संभजनाय समर्थं "कृतं पुनर्युवामकुरुतम् ।। करोतेर्लङि छान्दसो विकरणस्य लुक् । अडभावश्च । लुङि वा मन्त्रे घस' इति च्लेर्लुक् ॥
आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा ।
सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥६
आ । वा॒म् । सु॒म्नैः । श॒म्यू इ॒वेति॑ श॒म्यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा ।
सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥६
आ । वाम् । सुम्नैः । शम्यू इवेति शम्यूऽइव । मंहिष्ठा । विश्वऽवेदसा ।
सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥६
हे "विश्ववेदसा सर्वज्ञौ सर्वधनौ वा हे "नरा नेतारौ “वां युवां "शंयूइव सुखयुक्तौ राजानाविव "मंहिष्ठा दातृतमावतिशयेन पूज्यौ वा सन्तौ सुम्नैः अस्मभ्यं दातव्यैः सुखैः सार्धम् "आ । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । आगच्छतम् । यद्वा । उपसर्गस्य भूषतमित्यनेन संबन्धः । मंहिष्ठेत्यपि संबोधनम् । हे मंहिष्ठा दातृतमौ उक्तगुणावश्विनौ वां युवां सुम्नैः सार्धं शंयूइव "अस्मे अस्मान् सम्यक् आ "भूषतम् अभिप्राप्नुतम् ॥' भू प्राप्तौ । अस्माल्लोटि व्यत्ययेन सिप्शपौ । यद्वा । ‘भूष अलंकारे' ॥ आ समन्तात् सम्यक् भूषतम् अलंकुरुतम् । "पिप्युषीः प्रवृद्धानि "इषः इष्यमाणानि पयांसि “उत्सं न गोरूध इव । यथा बहुभिः पयोभिः ऊधः अलंकृतं सत् दृश्यते अस्मानप्येवं बहुभिर्धनैरलंकुरुतमित्यर्थः ॥ पिप्युषीरिति प्यायतेर्लिटः क्वसुः । ‘लिड्यड्योश्च' इति पीभावः । जसि ‘वा छन्दसि' इति पूर्वसवर्णदीर्घः । यद्वा । उत्सः प्रवाहो यथा पिप्युषीः वृद्धानीषोऽन्नान्यलंकरोति' तद्वत् ।। ॥ १ ॥
मण्डल १० | ||||
---|---|---|---|---|