ऋग्वेदः सूक्तं १०.१२१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.१२० ऋग्वेदः - मण्डल १०
सूक्तं १०.१२१
हिरण्यगर्भः प्राजापत्यः
सूक्तं १०.१२२ →
कः (प्रजापतिः) । त्रिष्टुप्।


हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥१॥
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥३॥
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥४॥
येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥५॥
यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥६॥
आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् ।
ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥७॥
यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् ।
यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥८॥
मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान ।
यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥९॥
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥१०॥


सायणभाष्यम्

‘ हिरण्यगर्भः' इति दशर्चं नवमं सूक्तं प्रजापतिपुत्रस्य हिरण्यगर्भाख्यस्यार्षं त्रैष्टुभम् । कशब्दाभिधेयः प्रजापतिर्देवता । तथा चानुक्रान्तं - हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायम् ' इति । गतः सूक्तविनियोगः । प्राजापत्यस्य पशोर्वपापुरोडाशहविषां क्रमेणादितस्तिस्रोऽनुवाक्यास्ततस्तिस्रो याज्याः । सूत्रितं च -- ‘ हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः (आश्व. श्रौ. ३. ८) इति । वरुणप्रघासेषु कायस्य हविषो हिरण्यगर्भ इत्येषा याज्या। सूत्रितं च --- ‘ कथा नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः ' (आश्व श्रौ. २. १७ ) इति ।।


हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।

स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १

हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ।

सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥१

हिरण्यऽगर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् ।

सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥१

“हिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः। तथा च तैत्तिरीयकं -- ‘ प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. ५, ५. १. २) इति । यद्वा हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । “अग्रे प्रपञ्चोत्पत्तेः प्राक् “समवर्तत । मायाध्यक्षात सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधिभूतानां वियदादीनां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च “जातः जातमात्र एव “एकः अद्वितीयः सन् "भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः “पतिः ईश्वरः आसीत् । न केवलं पतिरासीदेव अपि तर्हि “सः हिरण्यगर्भः “पृथिवीं विस्तीर्णां “द्यां दिवम् “उत अपि च “इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च “दाधार धारयति ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यासदीर्घः ॥ “कस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते । यद्वा । सृष्ट्यर्थं कामयत इति कः । कमेर्डप्रत्ययः । यद्वा । कं सुखम् । तद्रूपत्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराख्यायते । ‘इन्द्रो वै वृत्रं हत्वा सर्वां विजितीर्विजित्याब्रवीत् ' ( ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्वनामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। 'सावेकाचः' इति प्राप्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कं प्रजापतिं “देवाय देवं दानादिगुणयुक्तं “हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरोडाशेन वा “विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥


य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।

यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २

यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।

यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२

यः । आत्मऽदाः । बलऽदाः । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवाः ।

यस्य । छाया । अमृतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥२

“यः प्रजापतिः “आत्मदाः आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते । यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत् । यद्वा आत्मनां शोधयिता । दैप् शोधने ' । ‘ आतो मनिन् इति विच् । “बलदाः बलस्य च दाता शोधयिता वा । “यस्य च “प्रशिषं प्रकृष्टं शासनमाज्ञां “विश्वे सर्वे प्राणिनः “उपासते प्रार्थयन्ते सेवन्ते वा । ‘ शासु अनुशिष्टौ । ‘ शास इत्° ( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । शासिवसिघसीनां च ' इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसेरनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति ' इति गतिरनुदात्ता । तथा “देवाः अपि “यस्य प्रशासनमुपासते । अपि च “अमृतम् अमृतत्वम् । भावप्रधानो निर्देशः । यद्वा । अमृतम् । मरणं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । तदपि “यस्य प्रजापतेः “छाया छायेव वर्ति भवति । “मृत्युः यमश्च प्राणापहारी छायेव भवति । तस्मै “कस्मै “देवाय इत्यादि समानं पूर्वेण “हविषा पुरोडाशात्मनेति तु विशेषः ॥


यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।

य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३

यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।

यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥३

यः । प्राणतः । निऽमिषतः । महिऽत्वा । एकः । इत् । राजा । जगतः । बभूव ।

यः । ईशे । अस्य । द्विऽपदः । चतुःऽपदः । कस्मै । देवाय । हविषा । विधेम ॥३

“यः हिरण्यगर्भः “प्राणतः प्रश्वसतः ॥ ‘ अन प्राणने ' । आदादिकः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥ “निमिषतः अक्षिपक्ष्मचलनं कुर्वतः ॥ अत्रापि पूर्ववद्विभक्तिरुदात्ता ॥ “जगतः जङ्गमस्य प्राणिजातस्य “महित्वा महत्त्वेन ॥ ‘ सुपां सुलुक् ' इति तृतीयाया आकारः ॥ माहात्म्येन “एक “इत् अद्वितीय एव ' सन् “राजा “बभूव ईश्वरो भवति ॥ भवतेर्णलि ‘ लिति ' (पा, सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ “अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य मनुष्यादेः “चतुष्पद: गवाश्वादेश्च “यः प्रजापतिः “ईशे ईष्टे ॥ ‘ ईश ऐश्वर्ये ' । आदादिकोऽनुदात्तेत् । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्य । ‘ उडिदम् इतीदमो विभक्तिरुदात्तै । द्वौ पादौ यस्य स द्विपात् । ‘संख्यासुपूर्वस्य' (पा. सू. ५. ४. १४० ) इति पादस्यान्त्यलोपः समासान्तः । असंज्ञायॆ ‘ पादः पत् ' (पा. सू. ६.४.१ ३०) इति पद्भावः । ‘ द्वित्रिभ्यां पाद्दन ' ( पा. सू. ६. २. १९७ ) इत्येकदेशविकृतस्यानन्यत्वादुत्तरपदान्तोदात्तत्वम् । स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया । ‘ बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरः । पूर्वपदस्य ‘त्रः संख्यायाः ' (फि. सू.२.५ ) इत्याद्युदात्तत्वम् । इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य षत्वम् ॥ ईदृशो यः प्रजापतिस्तस्मै “कस्मै इत्यादि सुबोधं “हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः ।।


यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः ।

यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४

यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः ।

यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥४

यस्य । इमे । हिमऽवन्तः । महिऽत्वा । यस्य । समुद्रम् । रसया । सह । आहुः ।

यस्य । इमाः । प्रऽदिशः । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥४

हिमा अस्मिन् सन्तीति हिमवान् । तेन बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते । यथा छत्रिणो गच्छन्तीति । “हिमवन्तः हिमवदुपलक्षिताः “इमे दृश्यमानाः सर्वे पर्वताः “यस्य प्रजापतेः “महित्वा महत्त्वं माहात्म्यमैश्वर्यमिति “आहुः । तेन सृष्टत्वात्तद्रूपेणावस्थानाद्वा । तथा “रसया। रसो जलम् । तद्वती रसा नदी ॥ अर्शआदित्वादच् ॥ जातावेकवचनम्। रसाभिर्नदीभिः सह "समुद्रम् । पूर्ववदेकवचनम् । सर्वान् समुद्रान् “यस्य महाभाग्यमिति “आहुः कथयन्ति सृष्ट्यभिज्ञाः । “यस्य च “इमाः “प्रदिशः प्राच्यारम्भा आग्नेय्याद्याः कोणदिश ईशितव्याः । तथा “बाहू । वचनव्यत्ययः । बाहवो भुजाः । भुजवत्प्राधान्ययुक्ताः प्रदिशश्च “यस्य स्वभूताः । तस्में “कस्मै इत्यादि समानं पूर्वेण ॥


येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ ।

यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ५

येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१॒॑रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।

यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥५

येन । द्यौः । उग्रा । पृथिवी । च । दृळ्हा । येन । स्वरिति स्वः । स्तभितम् । येन । नाकः ।

यः । अन्तरिक्षे । रजसः । विऽमानः । कस्मै । देवाय । हविषा । विधेम ॥५

“येन प्रजापतिना “द्यौः अन्तरिक्षम् “उग्रा उद्गूर्णविशेषगहनरूपा वा । “पृथिवी भूमिः “च “दृळ्हा येन स्थिरीकृता । “स्वः स्वर्गश्च “येन “स्तभितं स्तब्धं कृतम् । यथाधो न पतति तथोपरि अवस्थापितमित्यर्थः । ग्रसितस्कभितस्तभित०' इति निपात्यते ।। तथा “नाकः आदित्यश्च “येन अन्तरिक्षे स्तभितः । “यः च “अन्तरिक्षे “रजसः उदकस्य “विमानः निर्माता । तस्मै “कस्मै इत्यादि गतम् ।। ।। ३ ।।


यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ६

यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने॒ इति॑ ।

यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥६

यम् । क्रन्दसी इति । अवसा । तस्तभाने इति । अभि । ऐक्षेताम् । मनसा । रेजमाने इति ।

यत्र । अधि । सूरः । उत्ऽइतः । विऽभाति । कस्मै । देवाय । हविषा । विधेम ॥६

क्रन्दितवान् रोदितवाननयोः प्रजापतिरिति “क्रन्दसी द्यावापृथिव्यौ । श्रूयते हि -- यदरोदीत्तदनयो रोदस्त्वम् ' (तै. ब्रा. २, २. ९. ४ ) इति । ते “अवसा रक्षणेन हेतुना लोकस्य रक्षणार्थं “तस्तभाने प्रजापतिना सृष्टे लब्धस्थैर्ये सत्यौ "यं प्रजापतिं “मनसा बुद्ध्या “अभ्यैक्षेताम् आवयोर्महत्त्वमनेन इत्यभ्यपश्येताम् ॥ ‘ ईक्ष दर्शने '। लङि अडादित्वादाद्युदात्तः।। कीदृश्यौ द्यावापृथिव्यौ । “रेजमाने राजमाने दीप्यमाने ।। आकारस्य व्यत्ययेनैत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वा। लिटः कानच् । ‘ फणां च सप्तानाम् ' (पा. सू. ६. ४. १२५) इत्येत्वाभ्यासलोपौ। ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वाच्छप् । अत एव ‘ अभ्यस्तानामादिः इत्याद्युदात्तत्वम् ।। “यत्राधि यस्मिन्नाधारभूते प्रजापतौ "सूरः . सूर्यः “उदितः उदयं प्राप्तः सन् “विभाति प्रकाशते ।। उत्पूर्वादेतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।। तस्मै “कस्मै इत्यादि सुज्ञानम् ॥


आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।

ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ७

आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ।

ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥७

आपः । ह । यत् । बृहतीः । विश्वम् । आयन् । गर्भम् । दधानाः । जनयन्तीः । अग्निम् ।

ततः । देवानाम् । सम् । अवर्तत । असुः । एकः । कस्मै । देवाय । हविषा । विधेम ॥७

“बृहतीः बृहत्यो महत्यः ।। जसि वा छन्दसि ' इति पूर्वसवर्णदीर्घः । ‘ बृहन्महतो रुपसंख्यानम् ' इति ङीप उदात्तत्वम् ॥ “अग्निम्। उपलक्षणमेतत् । अग्न्युपलक्षितं सर्वं वियदादि भूतजातं “जनयन्तीः जनयन्त्यः तदर्थं “गर्भं हिरण्मयाण्डस्य गर्भभूतं प्रजापतिं “दधानाः धारयन्त्यः “आपो “ह आप एव “विश्वमायन् सर्वं जगत् व्याप्नुवन् “यत् यस्मात् “ततः तस्माद्धेतोः ”देवानां देवादीनां सर्वेषां प्राणिनाम् "असुः प्राणभूतः “एकः प्रजापतिः “समवर्तत समजायत । यद्वा । यत् यं गर्भं दधाना आपो विश्वात्मनावस्थितः ततो गर्भभूताः प्रजापतेर्देवादीनां प्राणात्मको वायुरजायत । अथवा । यत् । लिङ्गवचनयोर्व्यत्ययः । उक्तलक्षणा या आपो विश्वमावृत्य स्थिताः ततस्ताभ्योऽद्भ्यः सकाशादेकोऽद्वितीयोऽसुः प्राणात्मकः प्रजापतिः समवर्तत निश्चक्राम। तस्मै “कस्मै इत्यादि गतम् ॥


यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ८

यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् ।

यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥८

यः । चित् । आपः । महिना । परिऽअपश्यत् । दक्षम् । दधानाः । जनयन्तीः । यज्ञम् ।

यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम ॥८

“यज्ञं यज्ञोपलक्षितं विकारजातं “जनयन्तीः उत्पादयन्तीः तदर्थं “दक्षं प्रपञ्चात्मना वर्धिष्णुं प्रजापतिमात्मनि “दधानाः धारयित्रीः ॥ दधातेर्हेतौ शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ईदृशीः “आपः । व्यत्ययेन प्रथमा । अपः प्रलयकालीनाः “महिना महिम्ना । छान्दसो मलोपः। स्वमाहात्म्येन “यश्चित् यश्च प्रजापतिः “पर्यपश्यत् परितो दृष्टवान् “यः च “देवेष्वधि देवेषु मध्ये “देवः तेषामपीश्वरः सन् “एकः अद्वितीयः “आसीत् भवति ।। अस्तेश्छान्दसो लङ। ' अस्तिसिचोऽपृक्ते ' (पा. सू. ७. ३. ९६ ) इतीडागमः ।। तस्मै “कस्मै इत्यादि गतम् ॥


मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।

यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ९

मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ ।

यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥९

मा । नः । हिंसीत् । जनिता । यः । पृथिव्याः । यः । वा । दिवम् । सत्यऽधर्मा । जजान ।

यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम ॥९

स प्रजापतिः “नः अस्मान् “मा “हिंसीत् मा बाधताम् । “यः “पृथिव्याः भूमेः “जनिता जनयिता स्रष्टा । 'जनिता मन्त्रे ' इति णिलोपो निपात्यते । 'उदात्तयणो हल्पूर्वात् ' इति पृथिवीशब्दाद्विभक्तेरुदात्तत्वम् ।। “यो “वा यश्च “सत्यधर्मा सत्यमवितथं धर्म जगतो धारणं यस्य स तादृशः प्रजापतिः “दिवम् अन्तरिक्षोपलक्षितान् सर्वान् लोकान् “जजान जनयामास ।। ‘ जनी प्रादुर्भावे '। णिचि वृद्धौ ‘जनीजॄष्क्नसुरञ्जः० ' इति मिरवात् ‘ मिता हुस्वः' इति हुस्वत्वम् । ततो लिटि ‘ °अमन्त्रे (पा. सू. ३. १. ३५) इति निषेधादाम्प्रत्ययाभावे तिपो णलि वृद्धौ ‘ लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ "यश्च “बृहतीः महतीः “चन्द्राः आह्लादिनीः “अपः उदकानि “जजान जनयामास ।। ‘ ऊडिदम् ' इत्यादिना अप्शब्दादुत्तरस्य शस उदात्तत्वम् ।। तस्मै “कस्मै इत्यादि गतम् ।।


इळादधाख्य इष्ट्ययने प्राजापत्यस्य हविषः ‘ प्रजापते ' इत्येषानुवाक्या । सूत्रितं च -- ‘ प्राजापत्य इळादधः प्रजापते न त्वदेतान्यन्यः ' (आश्व. श्रौ. २. १४ ) इति । केशनखकीटादिभिः दुष्टानि हवींष्यनयैवाप्सु प्रक्षिपेत् । सूत्रितं च - ‘ अपोऽभ्यवहरेयुः प्रजापते न त्वदेतान्यन्यः ( आश्व. श्रौ . ३. १०) इति । चौलादिकर्मस्वप्यैषा होमार्था । सूत्रितं च--- तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादग्न अयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च ' ( आश्व. गृ. १. ४. ४) इति ॥

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।

यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १०

प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।

यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥१०

प्रजाऽपते । न । त्वत् । एतानि । अन्यः । विश्वा । जातानि । परि । ता । बभूव ।

यत्ऽकामाः । ते । जुहुमः । तत् । नः । अस्तु । वयम् । स्याम । पतयः । रयीणाम् ॥१०

हे “प्रजापते “त्वत् त्वत्तोऽन्यः कश्चित् “एतानि इदानीं वर्तमानानि “विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः ।। “जातानि प्रथमविकारभाञ्जि “ता तानि सर्वाणि भूतजातानि “न “परि “बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च “यत्कामाः यत्फलं कामयमानाः “ते तुभ्यं जुहुमः हवींषि प्रयच्छामः “तत् फलं “नः अस्माकम् “अस्तु भवतु । तथा “वयं च “रयीणां धनानां “पतयः ईश्वराः “स्याम भवेम ।। नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥ ॥ ४ ॥

[सम्पाद्यताम्]

प्रजाभ्यस्त्वेष यच्छर्म कमिच्छन्मनसा सुखम् । हिरण्यगर्भस्तेनैनम् ऋषिरर्चन्नुवाच कम् ।।बृहद्देवता २.४७ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१