ऋग्वेदः सूक्तं १०.११८
← सूक्तं १०.११७ | ऋग्वेदः - मण्डल १० सूक्तं १०.११८ उरुक्षय आमहीयवः |
सूक्तं १०.११९ → |
दे. रक्षोहाऽग्निः। गायत्री। |
अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा ।
स्वे क्षये शुचिव्रत ॥१॥
उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।
यत्त्वा स्रुचः समस्थिरन् ॥२॥
स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा ।
स्रुचा प्रतीकमज्यते ॥३॥
घृतेनाग्निः समज्यते मधुप्रतीक आहुतः ।
रोचमानो विभावसुः ॥४॥
जरमाणः समिध्यसे देवेभ्यो हव्यवाहन ।
तं त्वा हवन्त मर्त्याः ॥५॥
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।
अदाभ्यं गृहपतिम् ॥६॥
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह ।
गोपा ऋतस्य दीदिहि ॥७॥
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः ।
उरुक्षयेषु दीद्यत् ॥८॥
तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे ।
यजिष्ठं मानुषे जने ॥९॥
सायणभाष्यम्
‘ अग्ने हंसि' इति नवर्चं षष्ठं सूक्तममहीयुगोत्रस्योरुक्षयस्यार्षं गायत्रम् । रक्षोहाग्निर्देवता । • तथा चानुक्रम्यते-- अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं तु ' इति । मथ्यमानेऽग्नावजायमान इदमनुवक्तव्यम् । सूत्रितं च -- अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणमिति सूक्तमावपेत ' ( आश्व. श्रौ. २. १६ ) इति । प्रातरनुवाकाश्विनशस्त्रयोरपि गायत्रे छन्दसीदं सूक्तम् । "सूत्रितं च --- अग्ने हंस्यग्निं हिन्वन्तु नः' ( आश्व. श्रौ. ४. १३ ) इति । दशमेऽहनि धिष्ण्याङ्गाराभिविहरण आद्या जप्या। सूत्रितं च -- परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणम् ( आश्व. श्रौ. ८. १२ ) इति ।।
अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ॥ १
अग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ ।
स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥१
अग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ ।
स्वे । क्षये । शुचिऽव्रत ॥१
हे “शुचिव्रत पूतकर्मन् दीप्यमानतेजस्क वा हे “अग्ने “अत्रिणम् अत्तारं शत्रुं तमोरूपं नितरां “हंसि विनाशय ।। आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ।। किं कुर्वन् । “मर्त्येषु मनुष्येषु यजमानेष्वाभिमुख्येन “दीद्यत् कर्मसिद्ध्यर्थं प्रकाशमानः । दीदेतिर्दीप्तिकर्मा । तथा “स्वे आत्मीये “क्षये निवासभूते आहवनीयादिस्थाने दीप्यमानः ॥ ‘ क्षयो निवासे ' ( पा. सू. ६. १. २०१) इत्याद्युदात्तत्वम् ।।
उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।
यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥ २
उत् । ति॒ष्ठ॒सि॒ । सुऽआ॑हुतः । घृ॒तानि॑ । प्रति॑ । मो॒द॒से॒ ।
यत् । त्वा॒ । स्रुचः॑ । स॒म्ऽअस्थि॑रन् ॥२
उत् । तिष्ठसि । सुऽआहुतः । घृतानि । प्रति । मोदसे ।
यत् । त्वा । स्रुचः । सम्ऽअस्थिरन् ॥२
हे अग्ने “स्वाहुतः अस्माभिः सुष्ठु आहूयमानः सन् “उत्तिष्ठसि । अरणीभ्यामुद्गतो भव ।। ऊर्ध्वकर्मत्वादात्मनेपदाभावः (पा. सू. १. ३. २४ ) ।। उद्गत्य च “घृतानि घृतसहितान्यस्माभिर्दीयमानानि हवींषि “प्रति “मोदसे हृष्टो भव ॥ ‘मुद हर्षे '। भौवादिकः । अनुदात्तेत् ।। “यत् यदा “त्वा त्वां “स्रुचः जुह्वादीनि पात्राणि “समस्थिरन् संगतान्यभवन् ।। ‘ समवप्रविभ्यः स्थः' (पा. सू. १. ३. २२) इति लुङ्ग्यात्मनेपदम्। स्थाघ्वोरिच्च ' ( पा. सू. १. २. २७) इति सिचः कित्त्वमिकारश्चान्तादेशः । ‘ ह्रस्वादङ्गात् ' इति सिचो लोपः । व्यत्ययेन झस्य रन् । 'तिङि चोदात्तवति' इति गतेर्निघातः ।।
स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।
स्रु॒चा प्रती॑कमज्यते ॥ ३
सः । आऽहु॑तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।
स्रु॒चा । प्रती॑कम् । अ॒ज्य॒ते॒ ॥३
सः । आऽहुतः । वि । रोचते । अग्निः । ईळेन्यः । गिरा ।
स्रुचा । प्रतीकम् । अज्यते ॥३
“आहुतः आभिमुख्येन हुतः ।। ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरः ॥ “गिरा स्तुतिलक्षणया वाचा “ईळेन्यः स्तोतव्यः “सः “अग्निः “वि “रोचते अत्यर्थं दीप्यते । तथा “प्रतीकं सर्वेषां देवानां पूर्वमेव “स्रुचा घृतसहितया “अज्यते सिच्यते ।।
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।
रोच॑मानो वि॒भाव॑सुः ॥ ४
घृ॒तेन॑ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु॑ऽप्रतीकः । आऽहु॑तः ।
रोच॑मानः । वि॒भाऽव॑सुः ॥४
घृतेन । अग्निः । सम् । अज्यते । मधुऽप्रतीकः । आऽहुतः ।
रोचमानः । विभाऽवसुः ॥४
“अग्निः “घृतेन हविषा “समज्यते सम्यक् सिक्तो भवति । कीदृशः । “मधुप्रतीकः घृतप्रयुक्तावयवः “आहुतः स्तुतिभिर्हविर्भिर्वा “रोचमानः दीप्यमानः “विभावसुः स्वदीप्त्या सर्वमाच्छादयन् । यद्वा । दीप्तिरेव धनं यस्य सः ।।
अप्तोर्यामे होतुरतिरिक्तोक्थ्ये ' जरमाणः समिध्यसे' इत्यनुरूपस्तृचः । सूत्रितं च – जराबोध तद्विविड्ढि जरमाणः समिध्यसे ' (आश्व. श्रौ. ९. ११) इति ।।
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
तं त्वा॑ हवन्त॒ मर्त्याः॑ ॥ ५
जर॑माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः॑ ॥५
जरमाणः । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।
तम् । त्वा । हवन्त । मर्त्याः ॥५
हे "हव्यवाहन हव्यानां प्रापयितः ।। 'हव्येऽनन्तःपादम् ' (पा. सू. ३. २. ६६ ) इति न्युट् ॥ “जरमाणः स्तोतृभिः स्तूयमानः । जरतिः स्तुतिकर्मा । स त्वं “देवेभ्यः देवार्थं "समिध्यसे हविर्भिः सम्यग्दीप्यसे । “तं तादृशं “त्वा त्वां "मर्त्याः मनुष्येषु साधवो यजमानाः "हवन्त आह्वयन्ति ।। ह्वयतेर्लङि ‘बहुलं छन्दसि' इति संप्रसारणम् ॥ ॥ २४ ॥
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।
अदा॑भ्यं गृ॒हप॑तिम् ॥ ६
तम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ ।
अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥६
तम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत ।
अदाभ्यम् । गृहऽपतिम् ॥६
हे "मर्ताः ऋत्विजः "अमर्त्यं मनुष्यधर्मरहितम् "अग्निं "घृतेन हविषा "सपर्यत परिचरत ॥ सपरशब्दः कण्ड्वादिः ।। कीदृशम् । "[१]अदाभ्यं कैश्चिदप्यहिंस्यम् ।। ‘ दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३) इति ण्यत् ॥ "गृहपतिं गृहस्य स्वामिनं यजमानरूपम् ॥ ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरः ।।
अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह ।
गो॒पा ऋ॒तस्य॑ दीदिहि ॥ ७
अदा॑भ्येन । शो॒चिषा॑ । अग्ने॑ । रक्षः॑ । त्वम् । द॒ह॒ ।
गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ ॥७
अदाभ्येन । शोचिषा । अग्ने । रक्षः । त्वम् । दह ।
गोपाः । ऋतस्य । दीदिहि ॥७
हे "अग्ने “त्वम् "अदाभ्येन अहिंस्येन "शोचिषा तेजसा "रक्षः । जातावेकवचनम् । सर्वान् राक्षसान् "दह विनाशय । किंच “ऋतस्य यज्ञस्य "गोपाः गोपायिता सन् "दीदिहि दीप्यस्व ।।
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।
उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ ८
सः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ ।
उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥८
सः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातुऽधान्यः ।
उरुऽक्षयेषु । दीद्यत् ॥८
हे “अग्ने “स “त्वं “प्रतीकेन त्वदवयवभूतेन तेजसा "यातुधान्यः यातुधानी राक्षसीः "प्रत्योष प्रतिकूलं दह ।। ‘ उष दाहे' । भौवादिकः । लोटि हेर्लुक् । ‘ जातेरस्त्रीविषयात्°' (पा. सू. ४. १. ६३ ) इति यातुधानशब्दस्य ङीष् ' । 'उदात्तस्वरितयोर्यणः” इति स्वरितत्वम् ॥ किं कुर्वन् । “उरुक्षयेषु विस्तीर्णेषु निवासेष्वाहवनीयादिषु “दीद्यत् दीप्यमानः ॥
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥ ९
तम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ ।
यजि॑ष्ठम् । मानु॑षे । जने॑ ॥९
तम् । त्वा । गीःऽभिः । उरुऽक्षयाः । हव्यऽवाहम् । सम् । ईधिरे ।
यजिष्ठम् । मानुषे । जने ॥९
हे अग्ने "उरुक्षयाः बहुनिवासा यजमानाः "हव्यवाहं हविषां वोढारं "मानुषे मनुष्यसंबन्धिनि “जने जनमध्ये “यजिष्ठं यष्टृतमं "तं “त्वा त्वां "गीर्भिः स्तुतिभिस्तत्सहितैर्हविर्भिः "समीधिरे सम्यगदीदिपन्” ॥ इन्धेर्लिटि ‘इन्धिभवतिभ्यां च ' (पा.सू.१.२. ६) इति कित्त्वे नलोपः॥ ॥२५॥
मण्डल १० | ||||
---|---|---|---|---|