ऋग्वेदः सूक्तं १०.१११

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.११० ऋग्वेदः - मण्डल १०
सूक्तं १०.१११
वैरूपोऽष्टादंष्ट्रः
सूक्तं १०.११२ →
इन्द्रः । त्रिष्टुप्।

मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् ।
इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥१॥
ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् ।
उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥२॥
इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय ।
आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥३॥
इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः ।
पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥४॥
इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् ।
महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् ॥५॥
वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः ।
वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः ॥६॥
सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् ।
आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद ॥७॥
दूरं किल प्रथमा जग्मुरासामिन्द्रस्य याः प्रसवे सस्रुरापः ।
क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमन्तः ॥८॥
सृजः सिन्धूँरहिना जग्रसानाँ आदिदेताः प्र विविज्रे जवेन ।
मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमन्ते नितिक्ताः ॥९॥
सध्रीचीः सिन्धुमुशतीरिवायन्सनाज्जार आरितः पूर्भिदासाम् ।
अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥१०॥


सायणभाष्यम्

‘ मनीषिणः' इति दशर्चं द्वादशं सूक्तं वैरूपस्याष्ट्रादंष्ट्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते-- ‘ मनीषिणो दशाष्ट्रादंष्ट्रः' इति । गतो विनियोगः ॥


मनी॑षिण॒ः प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒ः सन्ति॑ नृ॒णाम् ।

इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒ः स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥१

मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् ।

इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥१

मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथाऽयथा । मतयः । सन्ति । नृणाम् ।

इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥१

हे “मनीषिणः स्तोतारः “मनीषां मनस ईशित्रीं स्तुतिमिन्द्राय “प्र “भरध्वं कुरुत। “नृणां कर्मनेतॄणां युष्माकं “यथायथा “मतयः “सन्ति भवन्ति तथा बुद्ध्यनुसारेण स्तुतिं कुरुध्वम् । वयं च “कृतेभिः कृतैः “सत्यैः यथार्थभूतैः स्तोत्रैः “इन्द्रम् “एरयाम यज्ञं प्रत्यागमयाम ॥ ‘ ईर गतौ । ण्यन्तस्य लोट् ॥ “हि यतः “विदानः जानानः समर्थः स इन्द्रः “गिर्वणस्युः । गीर्भिर्वनन्ति संभजन्त इति गीर्वणसः स्तोतारः ॥ वनतेरसुनि रूपम् । उपपदस्य दीर्घाभावश्छान्दसः । तदन्तात् क्यप् । ‘क्याच्छन्दसि' इत्युप्रत्ययः ॥ स्तोतॄन् कामयमानः खलु । अतस्तमभिष्टुत ।।


ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् ।

उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥२

ऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒र्ष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् ।

उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥२

ऋतस्य । हि । सदसः । धीतिः । अद्यौत् । सम् । गार्ष्टेयः । वृषभः । गोभिः । आनट् ।

उत् । अतिष्ठत् । तविषेण । रवेण । महान्ति । चित् । सम् । विव्याच । रजांसि ॥२

“ऋतस्य उदकस्य “सदसः स्थानस्यान्तरिक्षस्य “धीतिः धारकः स इन्द्रः “अद्यौत् द्योतते प्रकाशते । “हि प्रसिद्धौ ॥ ‘ द्युत दीप्तौ । लुङि • द्युद्भ्यो लुङि' इति परस्मैपदम्। च्लेर्लुक् छान्दसः । हलन्तलक्षणा वृद्धिरपि ॥ यद्वा । अद्यौत् । तादृश इन्द्रो यज्ञमभिगच्छति ॥ ‘ द्यु अभिगमे । आदादिकः । लङ् । ‘ उतो वृद्धिर्लुकि हलि ' इति वृद्धिः ॥ “गार्ष्टेयः । सकृत्प्रसूता धेनुर्गृष्टिः । तस्या अपत्यं “वृषभो “गोभिः “सम् “आनट् संव्याप्नोति । तथैषोऽपि सर्वं स्वमहिम्ना व्याप्नोति । तथा. “तविषेण । महन्नामैतत् । महता “रवेण शब्देन “उदतिष्ठत् । उच्छ्रित उन्नतोऽभवत्। अत एव “महान्ति “चित् महान्त्यपि "रजांसि उदकानि भुवनानि वा “सं “विव्याच संव्याप्नोति ॥


इन्द्र॒ः किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।

आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥३

इन्द्रः॑ । किल॑ । श्रुत्यै॑ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒ऽकृत् । सूर्या॑य ।

आत् । मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पतिः॑ । दि॒वः । स॒न॒ऽजाः । अप्र॑तिऽइतः ॥३

इन्द्रः । किल । श्रुत्यै । अस्य । वेद । सः । हि । जिष्णुः । पथिऽकृत् । सूर्याय ।

आत् । मेनाम् । कृण्वन् । अच्युतः । भुवत् । गोः । पतिः । दिवः । सनऽजाः । अप्रतिऽइतः ॥३

“अस्य अस्मदीयस्य स्तोत्रस्य “श्रुत्यै श्रवणाय “इन्द्रः “किल इन्द्र एव “वेद जानाति । “स “हि स एव “जिष्णुः शत्रूणां जयशीलः “सूर्याय “पथिकृत् मार्गकर्ता भवति । किंच “अच्युतः शत्रुभिरगन्तव्यो वृषणश्वस्य “मेनाम् आत्मानं “कृण्वन् कुर्वन् इन्द्रः “आत् । आगच्छत्यस्मदीयं यज्ञम् । ‘ मेनाभवो वृषणश्वस्य सुक्रतो' (ऋ. सं. १, ५१. १३) इति मन्त्रान्तरम् ॥ ‘ अस गतिदीप्त्यादानेषु' । भौवादिकः । - - - ॥ “दिवः द्युलोकस्य च “पतिः “भुवत् अभूत् ॥ भवतेर्लेट् । वाक्यभेदादनिघातः ।।


इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः ।

पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥४

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ।

पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥४

इन्द्रः । मह्ना । महतः । अर्णवस्य । व्रता । अमिनात् । अङ्गिरःऽभिः । गृणानः ।

पुरूणि । चित् । नि । ततान । रजांसि । दाधार । यः । धरुणम् । सत्यऽताता ॥४

“इन्द्रः “अङ्गिरोभिः ऋषिभिः “गृणानः स्तूयमानः सन् “महतो “अर्णवस्य ॥ ‘ अर्णसः सलोपश्च' (का. ५. २. १०९. ३) इति वप्रत्ययः ॥ उदकवतो मेघस्य “व्रता व्रतानि कर्माणि “मह्ना स्वमहिम्नैव “अमिनात् अहिंसीत् ॥ ‘ मीङ् हिंसायाम्। लङि ' मीनातेर्निगमे ' इति ह्रस्वः ॥ ततः “पुरूणि “चित् बहून्येव “रजांसि उदकानि “नि “ततान नीचीनान्यकरोत् । “यः इन्द्रः “सत्यताता सत्यैर्देवैस्तते । यद्वा । सत्यशब्दादपि स्वार्थिकस्तातिल् द्रष्टव्यः । सत्ये । द्युलोके “धरुणं धारकं बलं “दाधार अधारयत्॥


इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् ।

म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥५

इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् ।

म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । स्कम्भ॑नेन । स्कभी॑यान् ॥५

इन्द्रः । दिवः । प्रतिऽमानम् । पृथिव्याः । विश्वा । वेद । सवना । हन्ति । शुष्णम् ।

महीम् । चित् । द्याम् । आ । अतनोत् । सूर्येण । चास्कम्भ । चित् । स्कम्भनेन । स्कभीयान् ॥५

“दिवः द्युलोकस्य “पृथिव्याः च “प्रतिमानं महत्त्वेन प्रतिनिधिः “इन्द्रः “विश्वा सर्वाणि “सवना सवनानि “वेद सोमपानार्थं जानाति । “शुष्णं सर्वस्य शोषकमेतन्नामानमसुरं “हन्ति । वाक्यभेदादनिघातः । अपि च “महीं “चित् महतीमपि “द्यां “सूर्येण “अतनोत् । सर्वत्र प्रकाशयुक्तामकरोत् । “स्कभीयान् स्कम्भथितॄणां मध्ये श्रेष्ठः सः “स्कम्भनेन “चित् निरोधनसाधनेन सामर्थ्येनैव “चास्कम्भ । द्युलोकमवरुद्धमकरोत् ॥ स्कम्भिः सौत्रो धातुः । लिटि “ तुजादीनाम् । इति दीर्घः । चित्कम्भनेन इत्यत्र संहितायां सलोपः। उत्पूर्वस्य स्तम्भेः ‘उदः स्थास्तम्भोः' (पा.सू. ८. ४. ६१ ) इति सलोप उक्तः । चित्पूर्वस्य स्कम्भेरपि भवति छन्दोविषयत्वात् ॥ ॥ १० ॥


वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः ।

वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥६

वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः ।

वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒हुऽओ॑जाः ॥६

वज्रेण । हि । वृत्रऽहा । वृत्रम् । अस्तः । अदेवस्य । शूशुवानस्य । मायाः ।

वि । धृष्णो इति । अत्र । धृषता । जघन्थ । अथ । अभवः । मघऽवन् । बाहुऽओजाः ॥६

हे इन्द्र “वृत्रहा वृत्रस्य हन्ता “वज्रेण “वृत्रम् “अस्तः अस्तृणाः । अवधीः ॥ स्तृणातेर्लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । सिपि गुणः । हियोगादनिघातः ॥ अनन्तरं हे “धृष्णो धर्षणशील त्वम् “अदेवस्य अद्योतमानस्य “शूशुवानस्य स्वबलेन वर्धमानस्य तस्य “मायाः “धृषता समर्थेन वज्रेण “अत्र अस्मिन् काले एव “वि “जघन्थ विनाशितवानसि ॥ हन्तेर्लिटि थलि ‘ अभ्यासाच्च' इति कुत्वम् ॥ “अथ हे मघवन् धनवन्निन्द्र “बाह्वोजाः भुजबलवान् “अभवः ॥


सच॑न्त॒ यदु॒षस॒ः सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् ।

आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥७

सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् ।

आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥७

सचन्त । यत् । उषसः । सूर्येण । चित्राम् । अस्य । केतवः । राम् । अविन्दन् ।

आ । यत् । नक्षत्रम् । ददृशे । दिवः । न । पुनः । यतः । नकिः । अद्धा । नु । वेद ॥७

“यत् यदा “उषसः उषःकालाः “सूर्येण सूर्यात्मकेनेन्द्रेण “सचन्त संगच्छन्ते । ‘ सच समवाये । भौवादिकः । तदानीम् “अस्य स्वभूताः “केतवः सर्वस्य प्रज्ञापका रश्मयः “चित्रां नानावर्णां “रां रायं श्रियम् “अविन्दन् अलभन्त । “पुनः उदयानन्तरं “यत् यदा “दिवः “नक्षत्रं “न “ददृशे न दृश्यते ॥ दृशेः कर्मणि लिट् । यद्योगादनिघातः ॥ तदानीं “यतः ॥ इणः शत्रन्तस्य शसि शतुरनुमो नद्यजादी' इति विभक्तेरुदात्तत्वम् ॥ सर्वत्र गच्छतोऽस्य रश्मीन् “नकिः न कश्चित् “नु "वेद जानाति । एतत् “अद्धा सत्यमेव ॥


दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुराप॑ः ।

क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्त॑ः ॥८

दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ ।

क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥८

दूरम् । किल । प्रथमाः । जग्मुः । आसाम् । इन्द्रस्य । याः । प्रऽसवे । सस्रुः । आपः ।

क्व । स्वित् । अग्रम् । क्व । बुध्नः । आसाम् । आपः । मध्यम् । क्व । वः । नूनम् । अन्तः ॥८

“आसाम् अपां मध्ये “प्रथमाः प्रथमगामिन्यस्ता आपः “दूरं “किल “जग्मुः। दूरमेव गताः । "याः “आपः “इन्द्रस्य “प्रसवे प्रेरणे ॥ ‘षू प्रेरणे'। जवसवौ चेति वक्तव्यम्' ( पा. सू. ३. ३. ५६. ४ ) इत्यबपवादेऽच् । ‘ थाथघञ्क्ताजबित्रकाणाम्' इत्युत्तरपदान्तोदात्तत्वम् ॥ तस्य आज्ञायां “सस्रुः सरन्ति । गच्छन्ति खलु। अथ प्रत्यक्षकृतः । हे “आपः “आसां युष्माकम् “अग्रं “क्व “स्वित् । कुत्र वर्तते । “बुध्नः मूलं च “क्व । तथा “वः युष्माकं “मध्यं च “क्व “नूनम् इदानीं युष्माकम् “अन्तः अवसानं च क्व । सर्वगतत्वादनिर्ज्ञायमानगमना आसन्नित्यर्थः ॥ क्व । किंशब्दात् सप्तम्यर्थे ' किमोऽत् ' इत्यत्प्रत्ययः । क्वाति' इति क्वादेशः । तित्स्वरितः । अन्तः । अमेर्गत्यर्थस्य ‘ असिहसि°' इत्यादिना तन्प्रत्ययः ॥


सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।

मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ॥९

सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन॑ ।

मुमु॑क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध॑ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । निऽति॑क्ताः ॥९

सृजः । सिन्धून् । अहिना । जग्रसानान् । आत् । इत् । एताः । प्र । विविज्रे । जवेन ।

मुमुक्षमाणाः । उत । याः । मुमुच्रे । अध । इत् । एताः । न । रमन्ते । निऽतिक्ताः ॥९

हे इन्द्र “अहिना अहन्तव्येन वृत्रेण मेघेन वा “जग्रसानान् ॥ ‘ ग्रस अदने'। अनुदात्तेत् । छन्दसि लिटः कानच् ॥ ग्रस्ताः “सिन्धून् स्यन्दमाना अपः “सृजः असृजः निरगमयः । “आदित् । इदवधारणे । अनन्तरमेव “एताः आपः “जवेन वेगेन “प्र “विविज्रे । सर्वत्र अत्यन्तं चलिता बभूवुः ॥ ‘ ओविजी भयचलनयोः । अनुदात्तेत् । लिटि ‘इरयो रे' (पा. सू. ६.४.७६ ) इतीरयो रेआदेशः ॥ “उत अपि च "मुमुक्षमाणाः इन्द्रेण मोचयितुमिष्यमाणाः “याः आपः “मुमुच्रे इन्द्रेण मोचिता अभूवन् । मुचेः कर्मणि लिट् ॥ “अधेत् अनन्तरमेव “नितिक्ताः नितरां शुद्धा आपः “न “रमन्ते । एकत्र न क्रीडन्ति । किंतु सर्वत्र गमनशीला इत्यर्थः ॥


स॒ध्रीची॒ः सिन्धु॑मुश॒तीरि॑वायन्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् ।

अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥१०

स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् ।

अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥१०

सध्रीचीः । सिन्धुम् । उशतीःऽइव । आयन् । सनात् । जारः । आरितः । पूःऽभित् । आसाम् ।

अस्तम् । आ । ते । पार्थिवा । वसूनि । अस्मे इति । जग्मुः । सूनृताः । इन्द्र । पूर्वीः ॥१०

“सध्रीचीः ॥ ‘ सहस्य सध्रिः' इति सध्रीत्यादेशः । ‘ अञ्चतेश्चोपसंख्यानम्' इति ङीप् । अलोपदीर्घौ। ' वा छन्दसि' इति पूर्वसवर्णदीर्घः ॥ सहाञ्चनाः सहगमना आपः “सिन्धुं समुद्रं भर्तारम् “आयन् आगच्छन् । तत्र दृष्टान्तः । “उशतीरिव यथा कामयमानाः स्त्रियः स्वपतिमभिगच्छन्ति तद्वत् । “जारः शत्रूणां जारयिता “पूर्भित् इन्द्रः “सनात् चिरादेव “आसाम् अपाम् “आरितः प्रेरकत्वेन स्वामी भवति । हे “इन्द्र “अस्मे अस्माकं स्वभूतानि “पार्थिवा पार्थिवानि “वसूनि धनवत्प्रीणयितॄणि हवींषि “पूर्वीः बह्व्यः “सूनृताः वाचः स्तुतिलक्षणाश्च “ते त्वदीयम् “अस्तं गृहम् “आ “जग्मुः आगच्छन्तु । यद्वा अस्मदीयाः स्तुतयस्ते गृहं गच्छन्तु । अस्माकं गृहं त्वदीयानि पार्थिवानि धनान्यभिगच्छन्तु ॥ गमेश्छन्दसि सार्वकालिको लिट् ॥ ॥ ११ ॥

[सम्पाद्यताम्]

टिप्पणी

युगपद्वै व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ॥ ३७॥

इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति मनीषिणः ।। - बृहद्देवता ८.३८

‘मनीषिणः' ( ऋग्वेद १०. १११, १ ) से आरम्भ तीन सूक्तों ( ऋग्वेद १०. १११-११३ ) में वैरूप ऋषियों ने उस समय इन्द्र का गायन किया जब वह पणियों के विरुद्ध गये ।

Ashtavkra and Janaka


पुराणेषु अष्टादंष्ट्रऋषेः निकटतमरूपं अष्टावक्रऋषिः अस्ति। देवलस्य शापितरूपं अष्टावक्रः अस्ति। देवलः अर्थात् दैवस्य शान्तिकर्त्ता। किन्तु सः पुरुषार्थरहितः अस्ति, अयं प्रतीयते। सः विरूपः अस्ति। तस्य विरूपता का अस्ति। सः अष्टदिशानां, प्रकृत्याः ज्ञानतः, व्यावहारिकज्ञानतः रहितः अस्ति। यः अष्टदिशानां ज्ञानप्राप्तिविनैव मोक्षं वाञ्छति, तस्य मुक्तिः तदैव भवितुं शक्यते यदा सः स्वाभ्यन्तरे ईश्वरस्य दर्शनं करोति। अन्योपायः अष्टदिशानां ज्ञानप्राप्तिः अस्ति, यथा ऋग्वेदस्य एतेषु सूक्तेषु दृश्यते।

अष्टावक्रोपरि पौराणिकीयाः संदर्भाः

अष्टावक्रोपरि टिप्पणी

मनीषापञ्चकम्

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१