ऋग्वेदः सूक्तं १०.३३
← सूक्तं १०.३२ | ऋग्वेदः - मण्डल १० सूक्तं १०.३३ कवष ऐलूषः |
सूक्तं १०.३४ → |
दे. १ विश्वे देवाः, २, ३ इन्द्रः, ४-५ कुरुश्रवणत्रासदस्यवः, ६-९ उपमश्रवा मैत्रातिथिः। १ त्रिष्टुप्, प्रगाथः (२ बृहती, ३ सतोबृहती), ४-९ गायत्री। |
प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण ।
विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥१॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥२॥
मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो ।
सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥३॥
कुरुश्रवणमावृणि राजानं त्रासदस्यवम् ।
मंहिष्ठं वाघतामृषिः ॥४॥
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।
स्तवै सहस्रदक्षिणे ॥५॥
यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।
क्षेत्रं न रण्वमूचुषे ॥६॥
अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि ।
पितुष्टे अस्मि वन्दिता ॥७॥
यदीशीयामृतानामुत वा मर्त्यानाम् ।
जीवेदिन्मघवा मम ॥८॥
न देवानामति व्रतं शतात्मा चन जीवति ।
तथा युजा वि वावृते ॥९॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथाष्टमोऽध्याय आरभ्यते । तत्र ‘प्र मा ' इति नवर्चं चतुर्थं सूक्तमैलूषस्य कवषस्यार्षम् । आद्या त्रिष्टुप् सा च वैश्वदेवी। द्वितीयातृतीये बृहतीसतोबृहत्यौ ऐन्द्र्यौ। पराः षड्गायत्र्यः । ‘कुरुश्रवणमावृणि ' इति द्वाभ्यां त्रसदस्युपुत्रस्य कुरुश्रवणनाम्नो राज्ञो दानं तुष्टात् । अतस्तद्देवताके । अथ ' यस्य प्रस्वादसः' इत्यादिभिश्चतसृभिर्मित्रातिथिनाम्नि राज्ञि परलोकं गते शोकाभिभूतं तस्य पुत्रमुपश्रवोनामानं कवष ऋषिः स्नेहवशादभिगत्य, विगतशोकमकरोत् । अतस्तासां तद्देवतात्वम् । तथा चानुक्रान्तं-- प्र माया वैश्वदेव्यैन्द्रः प्रगाथः परा गायत्र्यो द्वे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिर्मृते मित्रातिथौ राज्ञि तत्स्नेहादृषिरुपमश्रवसं पुत्रमस्य व्यशोकयत्' इति । गतो विनियोगः ॥
प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण ।
विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒ःशासु॒रागा॒दिति॒ घोष॑ आसीत् ॥१
प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण ।
विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥१
प्र । मा । युयुज्रे । प्रऽयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण ।
विश्वे । देवासः । अध । माम् । अरक्षन् । दुःऽशासुः । आ । अगात् । इति । घोषः । आसीत् ॥१
“जनानां यजमानानां “प्रयुजः प्रयोक्तारो देवाः “मा मां कवषमृषिं “प्र “युयुज्रे कुरुश्रवणं प्रति युक्तवन्तः । “अन्तरेण मार्गे “पूषणं देवम् अध्वनां पतिं सखायमहं “वहामि “स्म ऊढवानस्मि । तथा श्रूयते - ऐन्द्राग्नमेकादशकपालं निर्वपेज्जनतामेष्यन्' इत्युपक्रम्य ' पौष्णं चरुमनु निर्वपेत् ' (तै. सं. २.२.१,४) इति । “अध अथ मार्गे “विश्वे देवाः “मां कवषम् “अरक्षन् रक्षितवन्तः । “दुःशासुः केनापि दुःशासनोऽयमृषिः “आगात् आगच्छति “इति “घोषः शब्दश्च मार्गे “आसीत् अभूत् ॥
सं मा॑ तपन्त्य॒भित॑ः स॒पत्नी॑रिव॒ पर्श॑वः ।
नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥२
सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।
नि । बा॒ध॒ते॒ । अम॑तिः । न॒ग्नता॑ । जसुः॑ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥२
सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः ।
नि । बाधते । अमतिः । नग्नता । जसुः । वेः । न । वेवीयते । मतिः ॥२
“मा मां देवताप्रसादरहितं कवषं पर्शवः पार्श्वास्थीनि अन्नाभावाद्दौर्बल्यात् कुशयनाच्च “सपत्नीरिव यथा सपत्न्यस्तद्वत् “अभितः उभयतः “सं “तपन्ति दुःखयन्तीत्यर्थः । किंच “अमतिः दारिद्र्यादागता दुर्मतिः सर्वार्थविषया सा मां “नि “बाधते मां पीडयति । वस्त्राभावादागता “नग्नता च मां नि बाधते । “जसुः अशनाभावादागत उपक्षयोऽपि मां नि बाधते । किंच “वेर्न यथा पक्षिणः मतिः शकुनिकव्याधभयात् कम्पयते तथा मे “मतिः शत्रोः “वेवीयते भृशं कम्पयते ॥
मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ः स्तो॒तारं॑ ते शतक्रतो ।
स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥३
मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
स॒कृत् । सु । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध॑ । पि॒ताऽइ॑व । नः॒ । भ॒व॒ ॥३
मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतक्रतो इति शतऽक्रतो ।
सकृत् । सु । नः । मघऽवन् । इन्द्र । मृळय । अध । पिताऽइव । नः । भव ॥३
हे “शतक्रतो बहुकर्मन् “मघवन् धनवंश्च “इन्द्र “ते तव “स्तोतारं “मा मां कवषम् “आध्यः । आधयः “मूषो “न यथा मूषिकाः “शिश्ना आस्नातानि सूत्राणि अश्नन्ति तथा “व्यदन्ति विविधमदन्ति । तथा च यास्कः - ‘ संतपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदन्ति । स्वाङ्गाभिधानं वा स्याच्छिश्नानि व्यदन्तीति। संतपन्ति माध्यः कामाः' ( निरु. ४. ६) इति । तथा च सति “नः अस्मान् “सकृत् “सु “मृळय अभीष्टप्रदानेन सम्यक् सुखय । “अध अथ “नः अस्माकं “पितेव यथा पिता तद्वद्रक्षिता “भव ॥
कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् ।
मंहि॑ष्ठं वा॒घता॒मृषि॑ः ॥४
कु॒रु॒ऽश्रव॑णम् । अ॒वृ॒णि॒ । राजा॑नम् । त्रास॑दस्यवम् ।
मंहि॑ष्ठम् । वा॒घता॑म् । ऋषिः॑ ॥४
कुरुऽश्रवणम् । अवृणि । राजानम् । त्रासदस्यवम् ।
मंहिष्ठम् । वाघताम् । ऋषिः ॥४
“ऋषिः अतीन्द्रियार्थद्रष्टा कवषोऽहं “त्रासदस्यवं त्रसदस्योः पुत्रं “मंहिष्ठं धनानामतिशयेन दातारं “कुरुश्रवणम् । कुरव ऋत्विजः । तदीयानां स्तुतीनां श्रोतारं कुरुश्रवणं तन्नामकं “राजानं “वाघताम् ऋत्विजामर्थाय “अवृणि धनानि प्रार्थये ॥
यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या ।
स्तवै॑ स॒हस्र॑दक्षिणे ॥५
यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया ।
स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥५
यस्य । मा । हरितः । रथे । तिस्रः । वहन्ति । साधुऽया ।
स्तवै । सहस्रऽदक्षिणे ॥५
“यस्य कुरुश्रवणाख्यस्य राज्ञः स्वभूताः “तिस्रः “हरितः त्रयोऽश्वाः “रथे प्रस्थितं “मा मां कवषं “साधुया साधु “वहन्ति कुरुश्रवणं राजानमहं “सहस्रदक्षिणे अस्मिन् यागे “स्तवै स्तौमि । प्रष्टिवाहिनं रथं परिगृह्य ऋषिराशास्ते ॥ ॥ १ ॥
यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।
क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥६
यस्य॑ । प्रऽस्वा॑दसः । गिरः॑ । उ॒प॒मऽश्र॑वसः । पि॒तुः ।
क्षेत्र॑म् । न । र॒ण्वम् । ऊ॒चुषे॑ ॥६
यस्य । प्रऽस्वादसः । गिरः । उपमऽश्रवसः । पितुः ।
क्षेत्रम् । न । रण्वम् । ऊचुषे ॥६
हे राजन् “उपमश्रवसः तव “पितुः “यस्य मित्रातिथेः “गिरः वाचः प्रस्वादसः प्रकर्षेण स्वादयित्र्यः । तत्र दृष्टान्तः। “ऊचुषे सेवमानाय दरिद्राय दानार्थं प्रकल्पितं “रण्वं रमणीयं “क्षेत्रं “न यथा क्षेत्रं स्वादयितृ तद्वदित्यर्थः । उत्तरत्र संबन्धः ॥
अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।
पि॒तुष्टे॑ अस्मि वन्दि॒ता ॥७
अधि॑ । पु॒त्र॒ । उ॒प॒म॒ऽश्र॒वः॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थेः॒ । इ॒हि॒ ।
पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥७
अधि । पुत्र । उपमऽश्रवः । नपात् । मित्रऽअतिथेः । इहि ।
पितुः । ते । अस्मि । वन्दिता ॥७
हे “पुत्र “उपमश्रवः “मित्रातिथेः "नपात् पुत्र त्वम् “अधि “इहि मत्समीपमागच्छ । “ते तव “पितुः तस्य मित्रातिथेरहं “वन्दिता स्तोता "अस्मि । एतज्ज्ञात्वा शोकं मा कुरु । यद्देयं द्रव्यमस्ति तत्सर्वं मह्यं देहि ॥
यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् ।
जीवे॒दिन्म॒घवा॒ मम॑ ॥८
यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त । वा॒ । मर्त्या॑नाम् ।
जीवे॑त् । इत् । म॒घऽवा॑ । मम॑ ॥८
यत् । ईशीय । अमृतानाम् । उत । वा । मर्त्यानाम् ।
जीवेत् । इत् । मघऽवा । मम ॥८
“उत अपि च “यत् यदि “अमृतानां देवानां “मर्त्यानां मनुष्याणां “वा मरणहेतूनाम् "ईशीय अहमीश्वरः स्यां तर्हि “मम कवषस्य याज्यः “मघवा धनवान् मित्रातिथी राजा “जीवेत् प्राणान् धारयेत् । तथा च नाहं मरणहेतोरीश्वरः तस्मादयं राजा मृत इत्यर्थः ॥
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।
तथा॑ यु॒जा वि वा॑वृते ॥९
न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ ।
तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥९
न । देवानाम् । अति । व्रतम् । शतऽआत्मा । चन । जीवति ।
तथा । युजा । वि । ववृते ॥९
“देवानां ब्रह्मादीनां “व्रतं मर्यादालक्षणं कर्म “अति अतिक्रम्य “शतात्मा “चन शतसंवत्सरः कश्चन “न “जीवति । “तथा “युजा सहायादिना “वि “ववृते विवर्तते वियुक्तो भवतीति ज्ञात्वा शोकं मा कुर्वित्यर्थः ॥ ॥ २ ॥
मण्डल १० | ||||
---|---|---|---|---|