ऋग्वेदः सूक्तं १०.१८६
← सूक्तं १०.१८५ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८६ वातायन उलः |
सूक्तं १०.१८७ → |
दे. वायुः । गायत्री। |
वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
प्र ण आयूंषि तारिषत् ॥१॥
उत वात पितासि न उत भ्रातोत नः सखा ।
स नो जीवातवे कृधि ॥२॥
यददो वात ते गृहेऽमृतस्य निधिर्हितः ।
ततो नो देहि जीवसे ॥३॥
सायणभाष्यम्
‘वातः' इति तृचं पञ्चत्रिंशं सूक्तं वातगोत्रस्योलस्यार्षं गायत्रं वायुदेवताकम् । तथा चानुक्रान्तं -- वातो वातायन उलो वायव्यम् ' इति । गतो विनियोगः ॥
वात॒ आ वा॑तु भेष॒जं श॒म्भु म॑यो॒भु नो॑ हृ॒दे ।
प्र ण॒ आयूं॑षि तारिषत् ॥ १
वातः॑ । आ । वा॒तु॒ । भे॒ष॒जम् । श॒म्ऽभु । म॒यः॒ऽभु । नः॒ । हृ॒दे ।
प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥१
वातः । आ । वातु । भेषजम् । शम्ऽभु । मयःऽभु । नः । हृदे ।
प्र । नः । आयूंषि । तारिषत् ॥१
“वातः वायुः “नः अस्माकं "हृदे हृदयाय “भेषजम् औषधमुदकं वा “आ “वातु आगमयतु । कीदृग्भूतम् । "शंभु रोगशमनस्य भावयितृ "मयोभु सुखस्य च भावयितृ । अपि च "नः अस्माकम् “आयूंषि “प्र “तारिषत् प्रवर्धयतु ।
उ॒त वा॑त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा॑ ।
स नो॑ जी॒वात॑वे कृधि ॥ २
उ॒त । वा॒त॒ । पि॒ता । अ॒सि॒ । नः॒ । उ॒त । भ्राता॑ । उ॒त । नः॒ । सखा॑ ।
सः । नः॒ । जी॒वात॑वे । कृ॒धि॒ ॥२
उत । वात । पिता । असि । नः । उत । भ्राता । उत । नः । सखा ।
सः । नः । जीवातवे । कृधि ॥२
“उत अपि च हे “वात त्वं “नः अस्माकं “पिता “असि उत्पादको भवसि । “उत अपि च “भ्राता भवसि । "उत अपि च “नः अस्माकं “सखा समानख्यानो मित्रभूतश्च भवसि । “सः त्वं “नः अस्मान् “जीवातवे जीवनहेतवे यागाय “कृधि कुरु ॥ करोतेश्छान्दसो विकरणस्य लुक् । ‘ श्रुशृणुपॄकृवृभ्यः” इति हेर्धिः ॥
यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः ।
ततो॑ नो देहि जी॒वसे॑ ॥ ३
यत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒ऽधिः । हि॒तः ।
ततः॑ । नः॒ । दे॒हि॒ । जी॒वसे॑ ॥३
यत् । अदः । वात । ते । गृहे । अमृतस्य । निऽधिः । हितः ।
ततः । नः । देहि । जीवसे ॥३
हे “वात वायो “ते तव “गृहे स्थाने “यददः योऽसौ “अमृतस्य अमरणस्य “निधिः निक्षेपः “हितः स्थापितो वर्तते “ततः तस्मान्निधेराहृत्यामृतत्वं “जीवसे “नः अस्माकं जीवनाय “देहि प्रयच्छ ॥ ॥ ४४ । ।
टिप्पणी
१०.१८६.१ वात आवातु इति
प्रतीचीनेडं काशीतम् (ग्रामगेयः)
आशीस्तु वात आ वातु दण्डेति परिदेवना ।
प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ।।बृहद्देवता १.५० ।।
मण्डल १० | ||||
---|---|---|---|---|