ऋग्वेदः सूक्तं १०.१५९
← सूक्तं १०.१५८ | ऋग्वेदः - मण्डल १० सूक्तं १०.१५९ पौलोमी शची। |
सूक्तं १०.१६० → |
दे. शची (आत्मानं तुष्टाव)। अनुष्टुप् |
उदसौ सूर्यो अगादुदयं मामको भगः ।
अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥१॥
अहं केतुरहं मूर्धाहमुग्रा विवाचनी ।
ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥२॥
मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् ।
उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥३॥
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
इदं तदक्रि देवा असपत्ना किलाभुवम् ॥४॥
असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी ।
आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव ॥५॥
समजैषमिमा अहं सपत्नीरभिभूवरी ।
यथाहमस्य वीरस्य विराजानि जनस्य च ॥६॥
सायणभाष्यम्
' उदसौ ' इति षडृचमष्टमं सूक्तमानुष्टुभम् । पुलोमतनया शची स्वात्मानमनेनास्तौत्। अतः सैवर्षिः सैव देवता । तथा चानुक्रान्तम् --' उदसौ षट् पौलोमी शच्यात्मानं तुष्टावानुष्टुभम् ' इति । विनियोगो लिङ्गादवगन्तव्यः । आपस्तम्बस्तु सपत्नीनाशने सूर्योपस्थान इदं सूक्तं विनियुक्तवान् । सूत्र्यते हि--' एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते ' ( आप. गृ. ९.२) इति । अत्र एतेन इति प्रकृतं सपत्नीबाधनं परामृश्यते ।।
उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।
अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥ १
उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ ।
अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । अ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥१
उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः ।
अहम् । तत् । विद्वला । पतिम् । अभि । असाक्षि । विऽससहिः ॥१
“असौ द्युलोकस्थः “सूर्यः “उत् “अगात् उदयं प्राप्तवान् । “मामकः मदीयः “भगः भजनीयः “अयम् इन्द्रश्च सूर्यात्मनोदगात् । यद्वा मामको भगो मदीयमिदं सौभाग्यमुदगात् । “तत् उद्यतं सूर्यस्य तेजः “विद्वला ज्ञातवती यद्वा “पतिं भर्तारं बिद्वला लब्धवती “अहं “विषासहिः विशेषेणाभिभवित्री सती “अभ्यसाक्षि अभ्यभूवम् । सपत्नीरिति शेषः । सहतेरभिभवार्थस्य लुङ्येतद्रूपम् । यद्वा । विषासहिः सपत्नीनामभिभवित्री सती पतिमभ्यसाक्षि । भर्तारमप्यभ्यभूवम् । यथा मय्येव वशीकृतश्चिरं वर्तते तथाकार्षमित्यर्थः ।।
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।
ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥ २
अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी ।
मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥२
अहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । विऽवाचनी ।
मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उपऽआचरेत् ॥२
“अहं “केतुः केतयित्री सर्वस्य ज्ञात्री भवामि । “अहं “मूर्धा सर्वेष्वप्यवेषु शिर इव प्रधानभूता च भवामि । “अहम् “उग्रा उद्गूर्णा सती “विवाचनी विशेषेण पतिं वाचयित्री भवामि । क्रोधाविष्टमपि पतिं मयि सर्वदा प्रियवचनयुक्तं करोमीत्यर्थः । “सेहानायाः सपत्नीनामभिभवित्र्याः “ममेत् ममैव “क्रतुं कर्म बुद्धिं वा अनुलक्ष्य “पतिः पालयिता भर्ता “उपाचरेत् उपागच्छेत् । नान्यासां पत्नीनाम् ।।
मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥ ३
मम॑ । पु॒त्राः । श॒त्रु॒ऽहनः॑ । अथो॒ इति॑ । मे॒ । दु॒हि॒ता । वि॒राट् ।
उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्ऽज॒या । पत्यौ॑ । मे॒ । श्लोकः॑ । उ॒त्ऽत॒मः ॥३
मम । पुत्राः । शत्रुऽहनः । अथो इति । मे । दुहिता । विराट् ।
उत । अहम् । अस्मि । सम्ऽजया । पत्यौ । मे । श्लोकः । उत्ऽतमः ॥३
“मम एव “पुत्राः तनयाः “शत्रुहणः शत्रूणां सपत्नानां हन्तारो भवन्ति । “अथो अपि च “मे मदीया “दुहिता पुत्री “विराट् विशेषेण राजमाना भवति । “उत अपि च “अहं “संजया सम्यग्जेत्री सपत्नीनाम् “अस्मि । ता अभिभवामि । अतो हेतोः “पत्यौ भर्तरीन्द्रे “मे मम “श्लोकः उपश्लोकनीयं यशः “उत्तमः उद्गततममतिशयेनोत्कृष्टं विद्यते । ।
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥ ४
येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।
इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥४
येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।
इदम् । तत् । अक्रि । देवाः । असपत्ना । किल । अभुवम् ॥४
“येन “हविषा “इन्द्रः मम भर्ता “कृत्वी कर्मणां कर्ता “अभवत् 'भवति । तथा “द्युम्नी । द्युम्नं द्योतमानं यशोऽन्नं वा । तद्वान् “उत्तमः उत्कृष्टतमश्च येन हविषा भवति । हे “देवाः स्तोतार ऋत्विजः “तत् “इदं हविः “अक्रि अकारि ।। जयार्थिभिर्भवद्भिः क्रियताम् । यद्वा । हे यष्टव्या देवाः तदिदं हविरक्र्यहमपि । करोतेर्लुङीटि ' मन्त्रे घस इति च्लेर्लुक् । अत एव कारणादहम् “असपत्ना “किल शत्रुरहिता खलु “अभुवम् अभूवम् । छान्दसो ह्रस्वः ।।
अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री ।
आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥ ५
अ॒स॒प॒त्ना । स॒प॒त्न॒ऽघ्नी । जय॑न्ती । अ॒भि॒ऽभूव॑री ।
आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा॑म् । वर्चः॑ । राधः॑ । अस्थे॑यसाम्ऽइव ॥५
असपत्ना । सपत्नऽघ्नी । जयन्ती । अभिऽभूवरी ।
आ । अवृक्षम् । अन्यासाम् । वर्चः । राधः । अस्थेयसाम्ऽइव ॥५
“असपत्ना अशत्रुका भवामि । कुत इत्यत आह । “सपत्नघ्नी शत्रूणां हन्त्री अत एव “जयन्ती जयं प्राप्नुवती “अभिभूवरी अभिभवित्री ।। भवतेः ' अन्येभ्योऽपि दृश्यन्ते ' इति क्वनिप् । ' वनो र च ' इति ङीब्रेफौ ।। ईदृश्यहम् “अन्यासां सपत्नीनां “वर्चः तेजः “राधः धनं च “आवृक्षम् आ समन्तादवृक्षम् । अवृश्चिषम् । अच्छिदम् ।। व्रश्चेर्लुङि ऊदित्त्वादिडभावे संयोगादिलोपे छान्दसं संप्रसारणम् ।। तत्र दृष्टान्तः । “अस्थेयसामिव । अस्थिरतराणां शत्रूणां यथा धनमप्रयत्नेन वृश्च्यते तथेत्यर्थः ।। स्थिरशब्दादीयसुनि ' प्रियस्थिर० इत्यादिना स्थादेशः ।।
सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।
यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥ ६
सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री ।
यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥६
सम् । अजैषम् । इमाः । अहम् । सऽपत्नीः । अभिऽभूवरी ।
यथा । अहम् । अस्य । वीरस्य । विऽराजानि । जनस्य । च ॥६
“अभिभूवरी अभिभवित्री “अहम् “इमाः “सपत्नीः “समजैषं सम्यगभ्यभूवम् । “यथा येन प्रकारेण “अहमस्य “वीरस्य इन्द्रस्य तदीयपरिजनस्य “च “विराजानि विशेषेण राजमाना भवानि । तथा समजैषमित्यर्थः ।। ।। १७ ।।
मण्डल १० | ||||
---|---|---|---|---|