ऋग्वेदः सूक्तं १०.१४४
← सूक्तं १०.१४३ | ऋग्वेदः - मण्डल १० सूक्तं १०.१४४ तार्क्ष्यः सुपर्णः, यामायन ऊर्ध्वकृशनो वा। |
सूक्तं १०.१४५ → |
दे. इन्द्रः। गायत्री, २ बृहती, ५ सतोबृहती, ६ विष्टारपङ्क्तिः । |
अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते ।
दक्षो विश्वायुर्वेधसे ॥१॥
अयमस्मासु काव्य ऋभुर्वज्रो दास्वते ।
अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥२॥
घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।
अव दीधेदहीशुवः ॥३॥
यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।
शतचक्रं योऽह्यो वर्तनिः ॥४॥
यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः ।
एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥५॥
एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः ।
क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥६॥
सायणभाष्यम्
'अयं हि ' इति षडृचं षोडशं सूक्तं तार्क्ष्यपुत्रस्य सुपर्णस्यार्षं यमगोत्रस्योर्ध्वकृशनस्य वा । आद्या गायत्री द्वितीया बृहती तृतीयाचतुर्थ्यौ गायत्र्यौ पञ्चमी सतोबृहती षष्ठी विष्टारपङ्क्तिरष्टकद्विर्वायादशाष्टकवती । अनादेशपरिभाषया इन्द्रो देवता। तथा चानुक्रान्तम्- अयं हि तार्क्ष्यपुत्रः सुपर्णो यामायनो वोर्व्ीकृशनो गायत्री बृहती गायत्र्यौ सतोबृहती विष्टारपङ्क्तिः' इति । गतो विनियोगः ।।
अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते ।
दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥१
अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते ।
दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥१
अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते ।
दक्षः । विश्वऽआयुः । वेधसे ॥१
अयं हि ते अमर्त्य इन्दुरत्यो न पत्य॑ते । दक्षौ विश्वायुर्वेधसे ॥ १ ॥ अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते । दक्षः । विश्वऽआयुः । वेधसे ॥१॥ हे इन्द्र “वेधसे विधात्रे “ते तुभ्यं त्वदर्थम् “अमर्त्यः मरणरहितोऽमृतत्वप्रापकः "अयं “हि अयं खलु “इन्दुः सोमः “अत्यो “न सततगाम्यश्व इव “पत्यते गच्छति । यद्वा । पत्यतिरैश्वर्यकर्मा । तव स्वभूतोऽयं सोमः “वेधसे विधानाय सदस्य करणायेष्टे । कीदृश इन्दुः। “दक्षः प्रवृद्धो बलहेतुर्वा “विश्वायुः विश्वैः सर्वैरेतव्यः प्राप्तव्यः । यद्वा । विश्वेषामायुर्जीवनहेतुः । अथवा। आयुरित्यन्ननाम । सर्वैश्चरुपुरोडाशादिभिर न्नैर्हविर्भिरुपेतः ॥
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते ।
अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥२
अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते ।
अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥२
अयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते ।
अयम् । बिभर्ति । ऊर्ध्वऽकृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम् ॥२
“अस्मासु स्तोतृषु “काव्यः स्तुत्यः “अयम् इन्द्रः. “ऋभुः दीप्तः सन् "दास्वते दानयुक्ताय यजमानाय "वज्रः शत्रूणां वर्जको भवति । यद्वा । दास्वत इति षष्ठ्यर्थे चतुर्थी । अस्मासु दास्वते दानवत इन्द्रस्य वज्रः कुलिशः ऋभुः उरु भासमानो भवति । अपि च “अयम् “ऊर्ध्वकृशनम् उद्गततैक्ष्ण्यमेतत्संज्ञं वा यामायनसमृषिं “मदं स्तोतारं “बिभर्ति पोषयति । तथा, "ऋभुर्न सौधन्वनः । पुत्राणामाद्य ऋभुः । स इव “कृत्व्यं कर्मणां कर्तारम् अत एव "मदं मोदयितारं यजमानं च बिभर्ति ।
घृषु॑ः श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः ।
अव॑ दीधेदही॒शुव॑ः ॥३
घृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः ।
अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥३
घृषुः । श्येनाय । कृत्वने । आसु । स्वासु । वंसगः ।
अव । दीधेत् । अहीशुवः ॥३
“घृषुः घर्षयिता दीप्तो वा “स्वासु स्वकीयासु “आसु यजमानलक्षणासु प्रजासु “वंसगः वननीयगतिः एवंभूत इन्द्रः “कृत्वने कर्मणां कर्त्रे ॥ करोतेः “ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् ॥ “श्येनाय सुपर्णाय तार्क्ष्यपुत्राय मह्यमृषये “अहीशुवः अहीनव्यापनान् अहीनवृद्धीन् वा अस्मदीयान् पुत्रादीन् “अव “दीधेत् दीपयतु ।' दीधीङ् दीप्तिदेवनयोः । अस्माच्छान्दसे लिङि व्यत्ययेन परस्मैपदम ।। यद्वा । हे इन्द्र त्वदीयः सोमो घृष्ट्यादिगुणयुक्तः सन् दीप्यत इति योज्यम् ।।
यं सु॑प॒र्णः प॑रा॒वत॑ः श्ये॒नस्य॑ पु॒त्र आभ॑रत् ।
श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥४
यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् ।
श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥४
यम् । सुऽपर्णः । पराऽवतः । श्येनस्य । पुत्रः । आ । अभरत् ।
शतऽचक्रम् । यः । अह्यः । वर्तनिः ॥४
“श्येनस्य तार्क्ष्यस्य “पुत्रः तनयः “सुपर्णः “यं सोमं “परावतः परागतात् दूरात् द्युलोकात् “आभरत् आहरत् । कीदृशम् । “शतचक्रम् । शतमिति बहुनाम । बहुधनस्य कर्तारम् ॥ मूलविभुजादित्वात् कप्रत्ययः (पा. सू. ३. २. ५, २)॥ यद्वा । शतकरणसाधनम् । बहुयागनिष्पादनमित्यर्थः ॥ ‘ घञर्थे कविधानम् ' ( पा, सू. ३. ३. ५८. ४ ) इति कप्रत्ययः । ‘ कृञादीनां के ( का. ६.१.१२.१ ) इति द्विर्वचनम्। “यः सोमः “अह्यः अहेर्वृत्रस्य “वर्तनिः वर्तयिता प्रेरयिता । यद्वा । ‘अह गतौ'। अह्यो गन्तव्यो वर्तनिर्मार्गभूतः । एना वय इति वक्ष्यमाणेनैकवाक्यता ॥
यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः ।
ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥५
यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः ।
ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥५
यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः ।
एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता ॥५
हे इन्द्र “ते तुभ्यं त्वदर्थं “श्येनः सुपर्णः पक्षिराट् "यं सोमं “पदा। वचनव्यत्ययः। पद्भ्याम् “आभरत द्युलोकादाहरत् । दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत ' ( ऋ. सं. ८, १००, ८) इति निगमान्तरम् । कीदृशम् । “चारुं शोभनम् “अवृकं बाधकरहितम् “अरुणम् आरोचमानमरुणवर्णं वा “अन्धसः अन्नस्य “मानं यागद्वारा निर्मातारम् । “एना एनेनानेन सोमेन तुभ्यं दीयमानेन “वयः अन्नं “जीवसे जीवनाय “आयुः जीवितं च “वि “तारि प्रादायि । तथा “एना एनेनैव सोमेन “बन्धुता बन्धुसमूहः “जागार जजागार जाग्रत्प्रबुद्धः सन् वर्तते ।। जागर्तेर्लिटि ‘छन्दसि वेति वक्तव्यम्' (पा. सू. ६. १. ८. १ ) इति द्विर्वचनाभावः ॥
ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑ः ।
क्रत्वा॒ वयो॒ वि ता॒र्यायु॑ः सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥६
ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ ।
क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥६
एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः ।
क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥६
“एव एवमुक्तेन प्रकारेण “तत् तेन “इन्दुना सोमेन तृप्यन् "इन्द्रः “देवेषु “चित् देवेष्वस्मासु च “महि महत् “त्यजः तेजो दुःखस्य वर्जयितृ रक्षणं वा “धारयाते धारयति । शिष्टः प्रत्यक्षकृतः । हे “सुक्रतो शोभनकर्मन्निन्द्र "क्रत्वा क्रतुना अस्माभिरनुष्ठितेन कर्मणा प्रीतेन त्वया “वयः अन्नम् “आयुः जीवनं च “वि “तारि अस्मभ्यं प्रादायि । यः “अयम् इन्दुः “क्रत्वा कर्मणा प्रज्ञानेन वा “अस्मत् अस्माभिः “आ “सुतः अभिषुतः । यद्वा । अस्मत् अस्मत्तस्त्वदाभिमुख्येन सुतः प्रेरितः । तेनेन्दुनेत्यन्वयः ॥ ॥ २ ॥
मण्डल १० | ||||
---|---|---|---|---|