ऋग्वेदः सूक्तं १०.८३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.८२ ऋग्वेदः - मण्डल १०
सूक्तं १०.८३
मन्युः तापसः
सूक्तं १०.८४ →
दे. मन्युः। १ जगती, २-१४ त्रिष्टुप्

अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम् (आश्व.श्रौ. ९.७)


यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।
साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥१॥
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥२॥
अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् ।*
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥४॥
अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥५॥
अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।
मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥६॥
अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥७॥


सायणभाष्यम्

‘ यस्ते मन्यो ' इति सप्तर्चं पञ्चदशं सूक्तम् । मन्युर्नाम तपसः पुत्र ऋषिः । आद्या जगती शिष्टास्त्रिटुभः । इदमुत्तरं च मन्युदेवत्यम् । तथा चानुक्रान्तं -- यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादि ' इति । अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम् । सूत्रितं च --' त्वया मन्यो यस्ते मन्यो ' (आश्व. श्रौ. ९. ७) इति ॥


यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑ः पुष्यति॒ विश्व॑मानु॒षक् ।

सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥१

यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् ।

स॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥१

यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् ।

सह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥१

हे “मन्यो क्रोधाभिमानिन् देव ।' मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा ' (निरु. १०. २९) इति निरुक्तम् । “यः यजमानः “ते तुभ्यम् “अविधत् परिचरति हे "वज्र वज्रवत्सारभूत “सायक सायकवच्छत्रूणां हिंसक स मनुष्यः “सहः बलं बाह्यम् “ओजः शारीरं बलं च "आनुषक् अनुषक्तं “पुष्यति त्वदनुग्रहात्संग्रामे । यस्मादेवं तस्माद्वयं “दासम् उपक्षयकर्तारम् “आर्यम् अस्मत्तोऽधिकं चोभयविधं शत्रुं “साह्याम अभिभवेम। केन साधनेनेति तदुच्यते । “त्वया “युजा त्वया सहायेन । सहायो विशेष्यते । “सहस्कृतेन बलोत्पादितेन “सहसा सहमानेन परान् “सहस्वता बलवता । ईदृशेन त्वया सहायेनेत्यर्थः ॥


म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषा॑ः ॥२

म॒न्युः । इन्द्रः॑ । म॒न्युः । ए॒व । आ॒स॒ । दे॒वः । म॒न्युः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।

म॒न्युम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । पा॒हि । नः॒ । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषाः॑ ॥२

मन्युः । इन्द्रः । मन्युः । एव । आस । देवः । मन्युः । होता । वरुणः । जातऽवेदाः ।

मन्युम् । विशः । ईळते । मानुषीः । याः । पाहि । नः । मन्यो इति । तपसा । सऽजोषाः ॥२

अयं “मन्युरिन्द्रः “मन्युरेव “देवः सर्वोऽपि मन्युरेव “आस अभवत् । “मन्युः एव “होता होमनिष्पादकोऽग्निः । तथा मन्युः “वरुणः अपि “जातवेदाः जातप्रज्ञो वरुणश्च । सर्वेष्वपि तेजस्विषु । मन्युसद्भावात् । “याः “मानुषीः मनुषोऽपत्यभूताः “विशः प्रजाः सन्ति ताः “मन्युं एव देवम् “ईळते स्तुवन्ति । हे “मन्यो “तपसा एतन्नामकेनास्मत्पित्रा “सजोषाः समानप्रीतिस्त्वं “पाहि रक्ष ।


अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं न॑ः ॥३

अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वसः॑ । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् ।

अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । नः॒ ॥३

अभि । इहि । मन्यो इति । तवसः । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् ।

अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । नः ॥३

हे “मन्यो त्वम् “अभीहि अभिगच्छास्मद्यज्ञम् । कीदृशस्त्वम् । “तवसः बलवतोऽपि “तवीयान् अत्यन्तं बलवान् । स त्वं “तपसा अस्मत्पित्रा “युजा सहायेन “शत्रून् “वि “जहि । किंच “अमित्रहा अमित्राणां हन्ता । अमित्रोऽस्निग्धः । तथा “वृत्रहा आवरकाणां शत्रूणां हन्ता तथा . “दस्युहा “च । दस्युरुपक्षपणकारी शत्रुः । तादृश मन्युदेव “त्वं “विश्वा सर्वाणि “वसूनि धनानि “नः अस्मभ्यम् “आ “भर आहर ॥


त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।

वि॒श्वच॑र्षणि॒ः सहु॑रि॒ः सहा॑वान॒स्मास्वोज॒ः पृत॑नासु धेहि ॥४

त्वम् । हि । म॒न्यो॒ इति॑ । अ॒भिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः । भामः॑ । अ॒भि॒मा॒ति॒ऽस॒हः ।

वि॒श्वऽच॑र्षणिः । सहु॑रिः । सहा॑वान् । अ॒स्मासु॑ । ओजः॑ । पृत॑नासु । धे॒हि॒ ॥४

त्वम् । हि । मन्यो इति । अभिभूतिऽओजाः । स्वयम्ऽभूः । भामः । अभिमातिऽसहः ।

विश्वऽचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि ॥४

हे “मन्यो “त्वम् “अभिभूत्योजाः परेषामभिभावुकबलः “स्वयंभूः स्वयमेवोत्पन्नः “भामः क्रुद्धः “अभिमातिषाहः । अभितो हिंसन्तीत्यभिमातयः शत्रवः । तेषामभिभविता । “विश्वचर्षणिः सर्वेषां द्रष्टा “सहुरिः सहनशीलः “सहावान् सहनवान् ईदृशस्त्वम् “अस्मासु “पृतनासु संग्रामेषु “ओजः बलं “धेहि देहि ॥


अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।

तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥५

अ॒भा॒गः । सन् । अप॑ । परा॑ऽइतः । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒चे॒त॒ इति॑ प्रऽचेतः ।

तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒ऽदेया॑य । मा॒ । आ । इ॒हि॒ ॥५

अभागः । सन् । अप । पराऽइतः । अस्मि । तव । क्रत्वा । तविषस्य । प्रचेत इति प्रऽचेतः ।

तम् । त्वा । मन्यो इति । अक्रतुः । जिहीळ । अहम् । स्वा । तनूः । बलऽदेयाय । मा । आ । इहि ॥५

हे “प्रचेतः प्रकृष्टज्ञान “मन्यो “तविषस्य महतः “तव “क्रत्वा कर्मणा “अभागः भागरहितः “सन् । त्वां यज्ञेऽयाजकः सन्नित्यर्थः । त्वदनुकूलरहितोऽहम् “अप “परेतोऽस्मि युद्धे शत्रुभिरभिभूतः सन् दूरं गतोऽस्मि । “तं तादृशं भागरहितं “त्वा त्वां हे "मन्यो “अक्रतुः कर्मरहितः “अहं “जिहीळ क्रुद्धं कृतवानित्यर्थः । यद्वा अहमेव त्वत्सहायमेव क्रोधितवान् । अथेदानीं “स्वा “तनूः मम शरीरभूतस्त्वं “बलदेयाय बलदानाय “मेहि मां प्राप्नुहि ॥


अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।

मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥६

अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒नः । स॒हु॒रे॒ । वि॒श्व॒ऽधा॒यः॒ ।

मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पेः ॥६

अयम् । ते । अस्मि । उप । मा । आ । इहि । अर्वाङ् । प्रतीचीनः । सहुरे । विश्वऽधायः ।

मन्यो इति । वज्रिन् । अभि । माम् । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपेः ॥६

हे “सहुरे शत्रूणां सहनशील “विश्वधायः विश्वस्य धर्तमन्यो “अयं जनोऽहं “ते तव “अस्मि कर्मकृत् । यत एवमतः “प्रतीचीनः प्रतिगन्ता “अर्वाङ् अस्मदभिमुखं “मा मां “उप “इहि उपागच्छ। हे “मन्यो “वज्रिन् “माम् “अभि “आ “ववृत्स्व अभ्यावर्तस्व । किमर्थमभ्यागमनमिति चेदुच्यते । “हनाव आवां “दस्यून् शत्रून्। “उत अपि च “आपेः बन्धुं “बोधि बुध्यस्व ॥


अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥७

अ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒तः । भ॒व॒ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ।

जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्वः॑ । अग्र॑म् । उ॒भौ । उ॒प॒ऽअं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥७

अभि । प्र । इहि । दक्षिणतः । भव । मे । अध । वृत्राणि । जङ्घनाव । भूरि ।

जुहोमि । ते । धरुणम् । मध्वः । अग्रम् । उभौ । उपऽअंशु । प्रथमा । पिबाव ॥७

हे मन्यो “अभि "प्रेहि अभिगच्छ। मम युद्धं गत्वा च “मे मम “दक्षिणतो “भव । “अध अथ आवां “वृत्राणि शत्रून् “भूरि प्रभूतं “जङ्नाव हनाव । “ते तुभ्यम् “अग्रं श्रेष्ठं “मध्वः मधु सोमरसं “जुहोमि । “उभौ त्वं चाहं च “उपांशु अप्रकाशं “प्रथमा प्रथमौ सन्तौ “पिबाव ॥ ॥१८॥


[सम्पाद्यताम्]

टिप्पणी

*१०.८३.३ द्र. अभिमन्योरुपरि टिप्पणी


मन्योरुपरि टिप्पणी

ससृजे मासि मास्येनम् अभिमत्य तपोऽग्रजम् ।

तेनैनं मन्युरित्याह मन्युरेव तु तापसः ।। बृहद्देवता २.५३ ।।

यस्ते मन्योरिति च चतुर्दशर्चस्य सूक्तस्य रुद्रो दुर्वासास्तपनपुत्रो मन्युर्देवता। अपनिलयन्तामिति बीजम्। संसृष्टमिति शक्तिः। शत्रुं क्षपयेति कीलकम्। मम शत्रुक्षयार्थे जपे विनियोगः। अथ ध्यानम् --

दंष्ट्राकरालवदनं ज्वालामालाशिरोरुहम्।

कपालकर्तिकाहस्तं रुद्रं मन्युं नमाम्यहम्॥ - वनदुर्गोपनिषत् पृ. ४५९

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८३&oldid=332656" इत्यस्माद् प्रतिप्राप्तम्