ऋग्वेदः सूक्तं १०.५८

विकिस्रोतः तः
← सूक्तं १०.५७ ऋग्वेदः - मण्डल १०
सूक्तं १०.५८
बन्धुः श्रुतबन्धुर्विप्रबन्धुर्गौपायनाः
सूक्तं १०.५९ →
दे. मन आवर्तनम्। अनुष्टुप्।


यत्ते यमं वैवस्वतं मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥१॥
यत्ते दिवं यत्पृथिवीं मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥२॥
यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥३॥
यत्ते चतस्रः प्रदिशो मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥४॥
यत्ते समुद्रमर्णवं मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥५॥
यत्ते मरीचीः प्रवतो मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥६॥
यत्ते अपो यदोषधीर्मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥७॥
यत्ते सूर्यं यदुषसं मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥८॥
यत्ते पर्वतान्बृहतो मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥९॥
यत्ते विश्वमिदं जगन्मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥१०॥
यत्ते पराः परावतो मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥११॥
यत्ते भूतं च भव्यं च मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥१२॥


सायणभाष्यम्

'यत्ते यमम्' इति द्वादशर्चं षोडशं सूक्तमानुष्टुभम् । बन्ध्वादय ऋषयः सुबन्धुदेहान्निर्गतस्येन्द्रियवर्गसहितस्य मनसः पुनस्तस्मिन्प्रवेशनार्थमिदं सूक्तं दृष्ट्वाजपन् । अतस्तेऽस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मन एव देवता। तथा चानुक्रान्तं -- यत्त इति द्वादशर्चमानुष्टुभं मनआवर्तनं जेपुः' इति । गतो विनियोगः ॥


यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥१

यत् । ते॒ । य॒मम् । वै॒व॒स्व॒तम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥१

यत् । ते । यमम् । वैवस्वतम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१

पुरुषस्य म्रियमाणस्य मनो नामं महद्भूतं बहुधा विशीर्णं भवति। तस्य पुनःसंभरणमत्रोच्यते । हे म्रियमाण पुरुष “यत “ते तव “मनः “वैवस्वतं विवस्वतः पुत्रं “यमं "दूरकम् अत्यन्तं दूरं यथा भवति तथा “जगाम “ते तव “तत् मनः “आ “वर्तयामसि आवर्तयामः । किमर्थम् । “इह “क्षयाय इह लोके निवासाय “जीवसे चिरकालजीवनाय ॥


यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥२

यत् । ते॒ । दिव॑म् । यत् । पृ॒थि॒वीम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥२

यत् । ते । दिवम् । यत् । पृथिवीम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥२

हे सुबन्धो “यत् “मनः “दिवं “जगाम “यत् च “पृथिवीं “दूरकम् । दूरकमिति क्रियाविशेषणम् । “तत् “इह निवासाय जीवनाय चावर्तयामः ॥


यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥३

यत् । ते॒ । भूमि॑म् । चतुः॑ऽभृष्टिम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥३

यत् । ते । भूमिम् । चतुःऽभृष्टिम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥३

हे सुबन्धो “यत् “मनः “भूमिं “चतुर्भृष्टिम् । चतुर्दिक्षु भ्रंशो यस्याः सा । तां “जगाम “तत् आवर्तयामः ॥


यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥४

यत् । ते॒ । चत॑स्रः । प्र॒ऽदिशः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥४

यत् । ते । चतस्रः । प्रऽदिशः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥४

हे सुबन्धो “यत्ते “मनः “प्रदिशः प्रकृष्टा महादिशः "चतस्रः “जगाम “तत् आवर्तयामः ॥


यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥५

यत् । ते॒ । स॒मु॒द्रम् । अ॒र्ण॒वम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥५

यत् । ते । समुद्रम् । अर्णवम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥५

हे सुबन्धो “यत्ते “मनः “अर्णवम् अर्णांस्युदकानि तद्वन्तं “समुद्रं मेघं वा “जगाम “तत् इति गतम् ॥


यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥६

यत् । ते॒ । मरी॑चीः । प्र॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥६

यत् । ते । मरीचीः । प्रऽवतः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥६

हे सुबन्धो “यत्ते “मनः “प्रवतः प्रगच्छन्तीः “मरीचीः दीप्तीः "जगाम “तत् इति गतम् ॥ ॥ २० ॥


यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥७

यत् । ते॒ । अ॒पः । यत् । ओष॑धीः । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥७

यत् । ते । अपः । यत् । ओषधीः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥७


यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥८

यत् । ते॒ । सूर्य॑म् । यत् । उ॒षस॑म् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥८

यत् । ते । सूर्यम् । यत् । उषसम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥८


यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥९

यत् । ते॒ । पर्व॑तान् । बृ॒ह॒तः । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥९

यत् । ते । पर्वतान् । बृहतः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥९


यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥१०

यत् । ते॒ । विश्व॑म् । इ॒दम् । जग॑त् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥१०

यत् । ते । विश्वम् । इदम् । जगत् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१०

चतस्र ऋचो निगदसिद्धाः ।।


यत्ते॒ परा॑ः परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥११

यत् । ते॒ । पराः॑ । प॒रा॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥११

यत् । ते । पराः । पराऽवतः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥११

हे सुबन्धो “यत्ते "मनः “पराः “परावतः अत्यन्तं दूरदेशान् “जगाम “तत् इति गतम् ॥


यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कम् ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥१२

यत् । ते॒ । भू॒तम् । च॒ । भव्य॑म् । च॒ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥१२

यत् । ते । भूतम् । च । भव्यम् । च । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१२

हे सुबन्धो “यत्ते “मनः “भूतं च “भव्यं “च इत्यनेन भूतभव्यात्मकव्यतिरेकेण कस्यचिदभावाद्वर्तमानस्य पृथगेवाभिधानात् कृत्स्नं प्रपञ्चमुक्तं भवति । तत्र सर्वत्र गतं मनो जीवनाय निवासाय चावर्तयामः ॥ ॥ २१ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५८&oldid=202370" इत्यस्माद् प्रतिप्राप्तम्