सामग्री पर जाएँ

मत्स्यपुराणम्/अध्यायः २२

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







श्राद्धयोग्यतीर्थानांवर्णनम्।

ऋषय ऊचुः।
कस्मिन्‌ काले च तच्छ्राद्धमनन्तफलदं भवेत्।
कस्मिन् वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ।। २२.१ ।।

तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत्।
सूत उवाच।
अपराह्णे तु संप्राप्ते अभिजिद्रौहिणोदये।। २२.२ ।।

यत्किञ्चिद्दीयते तत्र तदक्षयमुदाहृतम्।
तीर्थानि कानि शस्तानि पितृणां वल्लभानि च।। २२.३ ।।

नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः!।
पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम्।। २२.४ ।।

यत्रास्ते देवदेवेशः स्वयमेव पितामहः।
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः।। २२.५ ।।

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्।। २२.६ ।।

तथावाराणसी पुण्या पितॄणां वल्लभा सदा।
यत्राविमुक्तसान्निध्यं भुक्ति मुक्ति फलप्रदम्।। २२.७ ।।


पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम्।
पितृतीर्थं प्रयागन्तु सर्वकाम फलप्रदम्।। २२.८ ।।

वटेश्वरस्तु भगवान् माधवेन समन्वितः।
योगनिद्राशयस्तद्वत् सदा वसति केशवः।। २२.९ ।।

दशाश्वमेधिकं पुण्यं गङ्गा द्वारं तथैव च।
नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा।। २२.१० ।।

तथा मित्रपदं नाम ततः केदारमुत्तमम्।
गङ्गा सागरमित्याहुः सर्वतीर्थमयं शुभम्।। २२.११ ।।

तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे।
तीर्थन्तु नैमिषं नाम सर्वतीर्थफलप्रदम्।। २२.१२ ।।

गङ्गोद्भेदस्तु गोमत्यां यत्रोद्‌भूतः सनातनः।
तथा यज्ञवराहस्तु देवदेवश्च शूलभृत्।। २२.१३ ।।

यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः।
नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा।। २२.१४ ।।

तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम्।
देवदेवस्य तत्रापि वाराहस्य तु दर्शनम्।। २२.१५ ।।

यः प्रयाति स पूतात्मा नारायणपदं व्रजेत्।
कृतशौचं महापुण्यं सर्वपापनिषूदनम्।। २२.१६ ।।

यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः।
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा।। २२.१७ ।।

सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा।
कुरुक्षेत्रं महापुण्यं सर्वतीर्थ समन्वितम्।। २२.१८ ।।

तथा च सरयूः पुण्या सर्वदेवनमस्कृता।
इरावती नदी तद्वत् पितृतीर्थाधिवासिनी।। २२.१९ ।।

यमुना देविका काली चन्द्रभागा दृषद्वती।
नदी वेणुमती पुण्या परा वेत्रवती तथा।। २२.२० ।।

पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः।
जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते।। २२.२१ ।।

अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम्।
नीलकुण्डमितिख्यातं पितृतीर्थं द्विजोत्तमाः!।। २२.२२ ।।

तथा रुद्रसरः पुण्यं सरोमानसमेव च।
मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती।। २२.२३ ।।

पूर्वे मित्रपदन्तद्वत् वैद्यनाथं महाफलम्।
क्षिप्रा नदी महाकालस्तथा कालञ्जरं शुभम्।। २२.२४ ।।

वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम्।
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च।। २२. २५ ।।

गयापिण्डप्रदानेन समान्याहुर्महर्षयः।
एतानि पितृतीर्थानि सर्वपापहराणि च।। २२.२६ ।।

स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम्।
ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम्।। २२.२७ ।।

सम्भेदश्चण्डवेगायास्तथैवामर कण्टकम्।
कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत्।। २२.२८ ।।

शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम्।
सर्वव्याधिहरं पुण्यं शतकोटि फलाधिकम्।। २२.२९ ।।

श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ।
कायावरोहणं नाम तथा चर्मण्वतीनदी।। २२.३० ।।

गोमती वरुणा तद्वत्तीर्थमौशनसम्परम्।
भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम्।। २२.३१ ।।

तीर्थं वैनायकं नाम भद्रेश्वरमतः परम्।
तथा पापहरं नाम पुण्याथ तपती नदी।। २२.३२ ।।

मूलतापीपयोष्णी च पयोष्णीसङ्गमस्तथा।
महावोधिः पाटला च नागतीर्थमवन्तिका।। २२.३३ ।।

तथा वेणा नदी पुण्या महाशालं तथैव च।
महारुद्रं महालिङ्गं दशार्णा च नदी शुभा।। २२.३४ ।।

शतरुद्रा शताह्वा च तथा विश्वपदं परम्।
अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ।। २२.३५ ।।

कालिका च नदी पुण्या वितस्ता च नदी तथा।
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः।। २२.३६ ।।

श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम्।
द्रोणी वाटनदी धारा सरित् क्षीरनदी तथा।। २२.३७ ।।

गोकर्णं गजकर्णञ्च तथा च पुरुषोत्तमः।
द्वारका कृष्णतीर्थञ्च तथार्बुदसरस्वती।। २२.३८ ।।

नदी मणिमती नाम तथा च गिरिकर्णिका।
धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा।। २२.३९ ।।

एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते।
तीर्थं मेघकरं[] नाम स्वयमेव जनार्दनः।। २२.४० ।।

यत्र शार्ङ्गधरो विष्णुर्मेखला[]यामवस्थितः।
तथा मन्दोदरी तीर्थं तीर्थं चम्पा नदी शुभा।। २२.४१ ।।

तथा सा मलनाथश्च महाशाल नदी तथा।
चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत्।। २२.४२ ।।

अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम्।
श्रीशैलं शाङ्करं तीर्थं नारसिंहमतः परम्।। २२ .४३ ।।

महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम्।
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्।। २२.४४ ।।

दर्शनादपि चैतानि सद्यः पापहराणि वै।
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्।। २२.४५ ।।

भीमेश्वरं कृष्णवेणा कावेरी कुड्‌मलानदी।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम्।। २२.४६ ।।

तीर्थं त्रैयम्बकं नाम सर्वतीर्थ नमस्कृतम्।
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः।। २२.४७ ।।

श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत्।
स्मरणादपि पापानि नश्यन्ति शतधा द्विजः।। २२.४८ ।।

श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम्।
तथा मत्स्यनदी पुण्या शिवधारं तथैव च।। २२.४९ ।।

भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम्।
पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम्।। २२.५० ।।

अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम्।
आम्रातकेश्वरं तद्वदेकाम्भकमतः परम्। २२.५१ ।।

गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम्।
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी।। २२. ५२ ।।

रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः।
इन्द्रकीलं महानादन्तथा च प्रियमेलकम्।। २२.५३ ।।

एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु।
एतेषु सर्वदेवानां सान्निध्यं द्रृश्यते यतः।। २२.५४ ।।

दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम्।
बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम्।। २२.५५ ।।

तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्।। २२.५६ ।।

तथैव पितृतीर्थन्तु यत्र गोदावरी नदी।
युतालिङ्गसहस्रेण सर्वान्तरजलावहा।। २२.५७ ।।

जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम्।
प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी।। २२.५८ ।।

तत्तीर्थं हव्यकव्यानामप्सरो युगसंज्ञितम्।
श्राद्धाग्निकार्यदानेषु तथा कोटि शताधिकम्।। २२.५९ ।।

तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम्।
सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा।। २२.६० ।।

निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान्।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्।। २२.६१ ।।

तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च।
सोमपानञ्च विख्यातं यत्र वैश्वानरालयम्।। २२.६२ ।।

तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च।
मलन्दरा नदीपुण्या कोशिकी चन्द्रिका तथा।। २२.६३ ।।

वैदर्भावाथ वैरा च पयोष्णी प्राङ्मुखापरा।
कावेरी चोत्तरापुण्या तथाजालन्धरो गिरिः।। २२.६४ ।।

एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते।
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च।। २२.६५ ।।

विन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम्।
कुब्जाम्रन्तु तथा तीर्थं उर्वशी पुलिनं तथा।। २२.६६ ।।

संसारमोचनं तीर्थं तथैव ऋणमोचनम्।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते।। २२.६७ ।।

अट्टहासं तथा तीर्थं गौतमेश्वरमेव च।
तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम्।। २२. ६८ ।।

ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च।
पिण्डाारकञ्च विख्यातं शङ्खोद्धारं तथैव च।। २२.६९ ।।

घण्टेाश्वरं बिल्वकञ्च नीलपर्वतमेव च।
तथा च धरणी तीर्थं रामतीर्थं तथैव च।। २२. ७० ।।

अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः।
तीर्थं वेदशिरो नाम तथैवौघवती नदी।। २२.७१ ।।

तीर्थं वसुप्रदं नाम च्छागलाण्डं तथैव च।
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्।। २२.७२ ।।

तथा च बदरी तीर्थं गणतीर्थं तथैव च।
जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च।। २२.७३ ।।

श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा।
तथैव शारदा तीर्थं भद्रकालेश्वरं तथा।। २२.७४ ।।

वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा।
एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम्।। २२.७५ ।।

तीर्थं मातृगृहं नाम करवीरपुरं तथा।
कुशेशरञ्च विख्यातं गौरी शिखरमेव च।। २२. ७६ ।।

नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च।
दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा।। २२.७७ ।।

सप्त गोदावरी तीर्थं सर्वतीर्थेश्वरेश्वरम्।
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः।। २२.७८ ।।

एषतूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया।
वागीशोऽपि न शक्नोति विस्तरान् किमु मानुषः।। २२.७९ ।।

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः।
वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम्।। २२. ८० ।।

एतत्तीर्थेषु यच्छ्राद्धं तत्कोटि गुणमिष्यते।
यस्मात्तस्मात् प्रयत्नेन तीर्थे श्राद्धं समाचरेत्।। २२ .८१ ।।

प्रातः कालो मुहूर्तांस्त्रीन् सङ्गवस्तावदेव तु।
मध्याह्न स्त्रिमुहूर्तस्यादपराह्णस्ततः परम्।। २२.८२ ।।

सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु।। २२.८३ ।।

अह्नो मुहूर्तो विख्याता दश पञ्च च सर्वदा।
तत्राष्टमो मुहूर्तो यः सकालः कुतपः स्मृतः।। २२.८४ ।।

मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः।
तस्मादनन्तफलद स्तदारम्भो भविष्यति।। २२.८५ ।।

मध्याह्नखड्ग पात्रञ्च तथा नेपालकम्बलः।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः।। २२.८६ ।।

पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः।
अष्टावेतेयतस्तस्मात् कुतपा इति विश्रुता।। २२.८७ ।।

ऊर्ध्वं मुहूर्तात् कुतपाद्यन्‌मुहूर्तचतुष्टयम्।
मुहूर्तपञ्चकञ्चैतत्‌ स्वधाभवनमिष्यते।। २२.८८ ।।

विष्णोर्देहसमुद्‌भूताः कुशाः कृष्णास्तिलास्तथा।
श्राद्धस्य रक्षणायालमेतत् प्राहुर्दिवौकसः।। २२.८९ ।।

तिलोदकाञ्जलिर्देय जलस्थैस्तीर्थवासिभिः।
सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते।। २२.९० ।।

श्राद्धसाधनकाले तु पाणिनैकेन दीयते।
तर्पणन्तू भयेनैव विधिरेष सदा स्मृतः।। २२.९१ ।।

पुण्यं पवित्रामायुष्यं सर्वपापविनाशनम्।
पुरा मत्स्येन कथितन्तीर्थश्राद्धानुकीर्तनम्।।
श्रृणोति यः पठेद्वापि श्रीमान् सञ्जायते नरः।। २२.९२ ।।

श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः।
सर्वपापोपशान्त्यर्थमलक्ष्मीनाशनं परम्।। २२.९३ ।।

इदं पवित्रं यशयो निधानमिदं महापापहरञ्च पुंसाम्।
ब्रह्मार्करुद्रैरपि पूजितञ्च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः।। २२.९४ ।।

  1. तु.पद्मपु. ६.१८५.५
  2. मेखला उपरि टिप्पणी