मत्स्यपुराणम्/अध्यायः २७४
षोड़शमहादानानांवर्णनम्।
ऋषय ऊचुः।
न्यायेनार्जनमर्थानां वर्द्धनञ्चाभिरक्षणम्।
सत्पात्रप्रतिपत्तिश्च सर्वशास्त्रेषु पठ्यते ।। २७४.१
कृतकृत्यो भवेत् केन मनस्वी धनवान् बुधः।
महादानेन दत्तेन तन्नो विस्तरतो वद ।। २७४.२
सूत उवाच।
अथातः सम्प्रवक्ष्यामि महादानानुकीर्तनम्।
दानधर्मेऽपि यन्नोक्तं विष्णुना प्रभविष्णुना ।। २७४.३
तदहं सम्प्रक्ष्यामि महादानमनुत्तमम्।
सर्वपापक्षयकरं नृणां दुःस्वप्न नाशनम् ।। २७४.४
यत्तत् षोड़शदा प्रोक्तं वासुदेवेन भूतले।
पुण्यं पवित्रमायुष्यं सर्वपापहरं शुभम् ।। २७४.५
पूजितं देवताभिश्च ब्रह्मविष्णु शिवादिभिः।
आद्यन्तु सर्वदानानां तुला पुरुषसंज्ञकम् ।। २७४.६
हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम्।
कल्पपादपदानञ्च गोसहस्रञ्च पञ्चमम् ।। २७४.७
हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च।
हिरण्याश्वरथस्तद्वत् हेमहस्तिरथस्तथा ।। २७४.८
पञ्चलाङ्गलकं तद्वद् धरादानं तथैव च।
द्वादशं विश्वचक्रन्तु ततः कल्पलतात्मकम् ।। २७४.९
सप्तसागरदानञ्च रत्नधेनुस्तथैव च।
महाभूतघटस्तद्वत् षोड़शं परिकीर्तितम्।। २७४.१०
सर्वाण्येतानि कृतवान् पुरा शम्वरसूदनः।
वासुदेवस्तु भगवान् अम्बरीषोऽथ भार्गवः ।। २७४.११
कार्तवीर्य्यार्जुनो नाम प्रह्लादः पृथुरेव च।
कुर्युरन्ये महीपालाः केचिच्च भरतादयः ।। २७४.१२
यस्माद्विघ्नसहस्रेण महादानानि सर्वदा।
रक्षन्ते देवताः सर्वा एकैकमपि भूतले ।। २७४.१३
एषामन्यतमं कुर्य्याद्वासुदेव प्रसादतः।
न शक्यमन्यथा कर्तुमपि शक्रेण भूतले ।। २७४.१४
तस्मादाराध्य गोविन्दमुमापतिविनायकौ।
महादानमुखं कुर्य्याद्विप्रैश्चैवानुमोदितः ।। २७४.१५
एतदेवाह मनवे परिपृष्टो जनार्दनः।
यथावदनुवक्ष्यामि श्रृणुध्वमृषिसत्तमाः! ।। २७४.१६
मनुरुवाच।
महादानानि यानीह पवित्राणि शुभानि च।
रहस्यानि प्रदेयानि तानि मे कथयाच्युत ।। २७४.१७
मत्स्य उवाच।
यानि नोक्तानि गुह्यानि महादानानि षोड़श।
तानि ते कथयिष्यामि यथावदनुपूर्वशः ।। २७४.१८
तुलापुरुष यागोऽयं येषामादौ विधीयते।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।। २७४.१९
युगादिषु परागेषु तथा मन्वन्तरादिषु।
सङ्क्रान्तौ तौ वैधृतिदिने चतुर्दश्यष्टमीषु च ।। २७४.२०
सितपञ्चदशीपर्व द्वादशीष्वष्टकासु च।
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।। २७४.२१
द्रव्यब्राह्मणलाभे वा श्रद्धा वा यत्र जायते।
तीर्थे वायतने गोष्ठे कूपारामसरित्सु च ।। २७४.२२
गृहे वायतने वापि तडागे रुचिरे तथा।
महादानानि देयानि संसारभयभीरुणा ।। २७४.२३
अनित्यं जीवितं यस्मात् वसुचातीव चञ्चलम्।
केशेष्वेवगृहीतः सन् मृत्युनाधर्ममाचरेत् ।। २७४.२४
पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्।
षोड़शारत्निमात्रन्तु दशद्वादशवाकरान् ।। २७४.२५
मण्डपं कारयेद्विद्वान् चतुर्भद्रासनं बुधः।
सप्तहस्ता भवेद्वेदी मध्ये पञ्चकरा तथा ।। २७४.२६
तन्मध्ये तोरणं कुर्य्यात् सारदारुमयं बुधः।
कुर्य्यात् कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः ।। २७४.२७
समेखला योनि युतानि कुर्यात् सम्पूर्णकुम्भानि सहासनानि।
सुताम्रपात्रद्वयसंयुतानि सयज्ञपात्राणि सुविष्टराणि ।। २७४.२८
हस्तप्रमाणानि तिलाज्य धूप पुष्पोपहाराणि सुशोभनानि।
पूर्वोत्तरे हस्तमिताऽथ वेदी ग्रहादि देवेश्वरपूजनाय ।। २७४.२९
अत्रार्चनं ब्रह्मशिवाच्युतानां तत्रैव कार्य्यं फलमाल्यवस्त्रैः।
लोकेशवर्णाः परितः पताका मध्ये ध्वजः किङ्किणिकायुतः स्यात् ।। २७४.३०
द्वारेषु कार्याणि च तोरणानि चत्वार्य्यपि क्षीरवनस्पतीनाम्।
द्वारेषु कुम्भद्वयमत्रकार्य्यं स्रग्गन्धधूपाम्बररत्नयुक्तम् ।। २७४.३१
शालेङ्गुदीचन्दनदेवदारुश्रीपर्णिबिल्वप्रियकाञ्चनोत्थम्।
स्तम्भद्वयं हस्तयुगावखातं कृत्वा दृढं पञ्चकरोच्छ्रितञ्च ।। २७४.३२
तदन्तरं हस्तचतुष्टयं स्यादथोदरङ्गश्च तदङ्गमेव।
समानजातिश्च तुलावलम्भ्या हैमेन मध्ये पुरुषेण युक्ता ।। २७४.३३
दैर्घ्येण सा हस्तचतुष्टयं स्यात् पृथुत्वमस्यास्तु दशांगुलानि।
सुवर्णपट्टाभरणा तु कार्य्या सा लोहपाशद्वयश्रृङ्गलाभिः ।। २७४.३४
युता सुवर्णेन तु रत्नमाला विभूषितामाल्यविलेपनाभ्याम्।
चक्रं लिखेद्वारिजगर्भयुक्तं नानारजोभिः भुविपुष्पकीर्णम् ।। २७४.३५
विमानकञ्चोपरि पञ्चवर्णं संस्थापयेत् पुष्पफलोपशोभम्।
अथर्त्विजो वेदविदश्च कार्य्याः सुरूपवेशान्वयशीलयुक्ताः ।। २७४.३६
विधानदक्षाः पटवोऽनुकूला ये चार्य्यदेशप्रभवा द्विजेन्द्राः।
गुरुश्च वेदान्तविदार्य्यवंश समुद्भवः शीलकुलाभिरूपः ।। २७४.३७
पुराणशास्त्राभिरतोऽतिदक्षः प्रसन्नगम्भीरसरस्वतीकः।
सिताम्बरः कुण्डलहेमसूत्रकेयूरकण्ठाभरणाभिरामः ।। २७४.३८
पूर्वेण ऋग्वेदविदावथास्तां यजुर्विदौ दक्षिणतश्च शस्तौ।
स्थाप्यौ द्विजौ सामविदौ तु पश्चादाथर्वणावुत्तरतस्तु कार्यौ ।। २७४.३९
विनायकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम्।
ब्रह्माच्युते सार्कंवनस्पतीनां स्वमन्त्रतो होमचतुष्टयं स्यात् ।। २७४.४०
जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथा स्वरूपम्।
होमावसाने कृततूर्य्यनादो गुरुर्गृहीत्वा बलिपुष्पधूपम्।
आवाहयेल्लोकपतीन् क्रमेण मन्त्रैरमीभिर्यजमानयुक्तः ।। २७४.४१
एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरोऽमरेशः।
संवीज्यमानोऽप्सरसाङ्गणेन रक्षाध्वरन्नो भगवन्नमस्ते ।। २७४.४२
एह्येहि सर्वामरहव्यवाह! मुनिप्रवीरैरभितोऽभिजुष्टः।
तेजस्विता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे! नमस्ते ।। २७४.४३
एह्येहि वैवस्वत धर्मराज! सर्वामरैरर्चितदिव्यमूर्ते!।
शुभाशुभानन्दशुचामधीश! शिवाय नः पाहि मखं नमस्ते ।। २७४.४४
एह्येहि रक्षोगणनायकस्त्वं सर्वैस्तु बेतालपिशाचसङ्घैः।
ममाध्वरं पाहि शुभादिनाथ! लोकेश्वरस्त्वं भगवन्नमस्ते ।। २७४.४५
एह्येहि यादोगणवारिधीनाङ्गणेन पर्जन्यमहाप्सरोभिः।
विद्याधरेन्द्रामरगीयमान! पाहि त्वमस्मान् भगवन्नमस्ते ।। २७४.४६
एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः महसिद्धसङ्घैः।
प्राणाधिपः कालकवेः सहायः गृहाण पूजां भगवन्नमस्ते ।। २७४.४७
एह्येहि यज्ञेश्वर! यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम्।
सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते ।। २७४.४८
एह्येहि विश्वेश्वर! नस्त्रिशूलकपालखट्वाङ्गधरेण सार्द्धम्।
लोकेशयज्ञेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ।। २७४.४९
एह्येहि पातालधराधरेन्द्र! नागाङ्गनाकिन्नरगीयमान!।
यक्षोरगेन्द्रामरलोकसार्द्धमनन्त! रक्षाध्वरमस्मदीयम् ।। २७४.५०
एह्येहि विश्वाधिपते! मुनीन्द्र! लोकेन सार्द्धं पितृदेवताभिः।
सर्वस्य धातास्यमितप्रभाव विशाध्वरन्नो भगवन्नमस्ते ।। २७४.५१
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च।
ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे ।। २७४.५२
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
ऋषयो मनवो गावो देवमातर एव च।। २७४.५३
सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः।
इत्यावाह्य सुरान्दद्यादृत्विग्भ्यो हेमभूषणम् ।। २७४.५४
कुण्डलानिच हैमानि सूत्राणि कटकानिच।
अंगुलीयपवित्राणि वासांसि शयनानि च ।। २७४.५५
द्विगुणं गुरवे दद्याद् भूषणाच्छादनानि च।
जपेयुः शान्तिकाध्यायं जापकाः सर्वतोदिशम् ।। २७४.५६
तत्रोषितास्तु ते सर्व्वे कृत्वैवमधिवासनम्।
आदावन्तेच मध्ये च कुर्य्याद् ब्राह्मणवाचनम् ।। २७४.५७
ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः।
त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः ।। २७४.५८
शुक्लमाल्याम्बरो भूत्वा तां तुलामभिमन्त्रयेत्।
नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता ।। २७४.५९
साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना।
एकतः सर्वसत्यानि तथानृतशतानि च ।। २७४.६०
धर्माधर्मकृतां मध्ये स्थापितासि जगद्धिते।
त्वं तुले! सर्वभूतानां प्रमाणमिह कीर्तिता ।। २७४.६१
मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तुते।
योऽसौ तत्वाधिपो देवः पुरुषः पञ्चविंशकः ।। २७४.६२
स एकोऽधिष्ठितो देवि! त्वयि तस्मान्नमो नमः।
नमो नमस्ते गोविन्द! तुलापुरुष संज्ञक! ।। २७४.६३
त्वं हरे! तारयस्वास्मान्नस्मात् संसारकर्दमात्।
पुण्यकालं समासाद्य कृत्वैवमधिवासनम् ।। २७४.६४
पुनः प्रदक्षिणां कृत्वा तुलामारोहयेद् बुधः।
स खड्गचर्मकवचः सर्वाभरणभूषितः ।। २७४.६५
धर्मराजमथादाय हैमं सूर्य्येण संयुतम्।
कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन् हरेर्मुखम्।। २७४.६६
ततोऽपरे तुला भागे न्यसेयुर्द्विजपुङ्गवाः।
समादभ्यधिकं यावत् काञ्चनं चातिनिर्मलम् ।। २७४.६७
पुष्टिकामस्तु कुर्वीत भूमिसंस्थं नरेश्वरः।
क्षणमात्रं ततः स्थित्वा पुनरेवमुदीरयेत् ।। २७४.६८
नमस्ते सर्वभूतानां साक्षिभूते! सनातनि! ।
पितामहेन देवि! त्वं निर्मिता परमेष्ठिना ।। २७४.६९
त्वया धृतं जगत्सर्वं सहस्थावरजङ्गमम्।
सर्वभूतात्मभूतस्थे! नमस्ते विश्वधारिणि!।। २७४.७०
ततोऽवतीर्य्य गुरवे पूर्वमर्द्धं निवेदयेत्।
ऋत्विग्भ्यो परमर्धन्तु दद्यादुदकपूर्वकम् ।। २७४.७१
गुरवे ग्रामरत्नानि ऋत्विग्भ्यश्च निवेदयेत्।
प्राप्य तेषामनुज्ञां तु तथान्येभ्योऽपि दापयेत् ।। २७४.७२
दीनानाथ विशिष्टादीन् पूजयेद् ब्राह्मणैः सह।
न चिरं धारयेद् गेहे सुवर्णं प्रोक्षितं बुधः ।। २७४.७३
तिष्ठेद् भयावहं यस्माच्छोकव्याधिकरं नृणाम्।
शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति मानवः ।। २७४.७४
अनेन विधिना यस्तु तुलापुरुषमाचरेत्।
प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत् ।। २७४.७५
विमानेनार्कवर्णेन किङ्किणीजालमालिना।
पूज्यमानोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत्
कल्पकोटिशतं यावत्तस्मिन् लोके महीयते ।। २७४.७६
कर्मक्षयादिह पुनर्भुवि राजराजो भूपालमौलिमणिरञ्चितपादपीठः।
श्रद्धान्वितो भवति यज्ञसहस्रयाजी दीप्तप्रतापजितसर्वमहीपलोकः ।। २७४.७७
यो दीयमानमपि पश्यति भक्तियुक्तः कालान्तरे स्मरति वाचयतीह लोके ।।
यो वा श्रृणोति पठतीन्द्रसमानरूपः प्राप्नोति धाम सपुरन्दरदेवजुष्टम् ।। २७४.७८