मत्स्यपुराणम्/अध्यायः २६५
देवप्रतिष्ठाविधिवर्णनम्।
सूत उवाच।
अतः परं प्रवक्ष्यामि मूर्तिपानान्तु लक्षणम्।
स्थापकस्य समासेन लक्षणं श्रुणुत द्विजाः ! ।। २६५.१
सर्वावयवसम्पूर्णो वेदमन्त्रविशारदः।
पुराणवेत्ता तत्वज्ञो दम्भलोभविवर्जितः ।। २६५.२
कृष्णसारमये देशे उत्पन्नश्च शुभाकृतिः।
शौचाचारपरो नित्यं पाषण्डकुलनिस्पृहः ।। २६५.३
समः शत्रौ च मित्रे च ब्रह्मोपेन्द्रहरप्रियः।
ऊहापोहार्थतत्वज्ञो वास्तुशास्त्रस्य पारगः ।। २६५.४
आचार्य्यस्तु भवेन्नित्यं सर्वदोषविवर्जितः।
मूर्तिपास्तु द्विजाश्चैव कुलीना ऋजवस्तथा ।। २६५.५
द्वात्रिंशत् षोडशाथापि अष्टौ वा श्रुतिपारगाः।
ज्येष्ठमध्यकनिष्ठेषु मूर्तिपावः प्रकीर्तिता ।। २६५.६
ततो लिङ्गमथार्चां वा नीत्वा स्नपनमण्डपम्।
नीतमङ्गलशब्देन स्नपनं तत्र कारयेत् ।। २६५.७
पञ्चगव्यकषायेण मृद्भिर्भस्मोदकेन वा।
शौचं तत्र प्रकुर्वीत वेदमन्त्र चतुष्टयात् ।। २६५.८
समुद्रज्येष्ठमन्त्रेण आपोदिव्येति चापरः।
यासां राजेतिमन्त्रस्तु आपोहिष्ठेति चापरः ।। २६५.९
एवं स्नाप्य ततो देवं पूज्य गन्धानुलेपनैः।
प्रच्छाद्य वस्त्रयुग्मेन अभिवस्त्रेत्युदाहृतम् ।। २६५.१०
उत्थापयेत्ततो देवमुत्तिष्ठ ब्रह्मणस्पते!।
अमूरुजेति च तथा रथे तिष्ठेति चापरः ।। २६५.११
रथे ब्रह्मरते वापि धृतां शिल्पिगणेन तु।
आरोप्य च ततो विद्वानाकृष्णेन प्रवेशयेत् ।। २६५.१२
ततः प्रास्तीर्य्य शय्यायां स्थापयेच्छनकैर्बुधः।
कुशानास्तीर्य पुष्पाणि स्थापयेत् प्राङ्मुखं ततः ।। २६५.१३
ततस्तु निद्राकलशं वस्त्रकाञ्चन-संयतम्।
शिरोभागेतु देवस्य जपन्नेवं निधापयेत् ।। २६५.१४
आपोदेवीति मन्त्रेण आपोऽस्मान् मातरोऽपि च।
ततो दुकूलपट्टैश्चाच्छाद्य नेत्रोपधानकम् ।। २६५.१५
दद्यच्छिरसि देवस्य कौशेयं वा विचक्षणः।
मधुनासर्पिषाभ्यज्य पूज्यसिध्यार्थकैस्ततः ।। २६५.१६
आप्यायस्वेति मन्त्रेण याते रुद्रशिवेति च।
उपविश्यार्चयेद्देवं गन्धपुष्पैः समन्ततः ।। २६५.१७
सितं प्रतिसरं दद्यात् बार्हस्पत्येति मन्त्रतः।
दुकूलपट्टैः कार्पासैर्नानाचित्रै रथापि वा ।। २६५.१८
आच्छाद्य देवं सर्वत्र छत्रचामरदर्पणम्।
पार्श्वतः स्थापयेत्तत्र वितानं पुष्पसंयुतम् ।। २६५.१९
रत्नान्योषधयस्तत्र गृहोपकरणानि च।
भाजनानि विचित्राणि शयनान्यासनानि च ।। २६५.२०
अभित्वा शूरमन्त्रेण यथा विभवतो न्यसेत्।
क्षीरं क्षौद्रं घृतं तद्वत् भक्ष्यभोज्यान्य(न्न)पायसैः ।। २६५.२१
षड्विधैश्च रसैस्तद्वत् समन्तात् परिपूजयेत्।
बलिं दद्यात् प्रयत्नेन मन्त्रेणानेन भूरिशः ।। २६५.२२
त्र्यम्बकं यजामेह इति सर्वतः शनकैर्भुवि।
मूर्तिपान् स्थापयेत् पश्चात् सर्वदिक्षु विचक्षणः ।। २६५.२३
चतुरो द्वारपालांश्च द्वारेषु विनिवेशयेत्।
श्रीसूक्तं पावमानञ्च सोमसूक्तं सुमङ्गलम् ।। २६५.२४
तथा च शान्तिकाध्यायमिन्द्रसूक्तं तथैव च।
रक्षोघ्नञ्च तथा सूक्तं पूर्वतो बह्वृचो जपेत् ।। २६५.२५
रौद्रं पुरुषसूक्तञ्च श्लोकाध्यायं सशक्रियम्।
तथैव मण्डलाध्यायमध्वर्युर्दक्षिणे जपेत् ।। २६५.२६
वामदेवं बृहत्साम ज्येष्ठसाम रथन्तरम्।
तथा पुरुषसूक्तञ्च रुद्रसूक्तं सशान्तिकम् ।। २६५.२७
भारुण्डानि च सामानि च्छन्दोगः पश्चिमे जपेत्।
अथर्वोऽङ्गिरसं तद्वन्नीलं रौद्रं तथैव च।। २६५.२८
तथा पराजिता देवी सप्तसूक्तं सरौद्रकम्।
तथैव शान्तिकाध्यायमथर्वां चोत्तरे जपेत् ।। २६५.२९
शिरःस्थाने तु देवस्य स्थापको होममाचरेत्।
शान्तिकैः पौष्टिकैस्तद्वन् मन्त्रैर्व्याहृतिपूर्वकैः ।। २६५.३०
पलाशो दुम्बराश्वत्थ अपामार्गः शमी तथा।
हुत्वा सहस्रमेकैकं देवं पादे तु संस्पृशेत् ।। २६५.३१
ततो होमसहस्रेण हुत्वा हुत्वा ततस्ततः।
नाभिमध्यं तथा वक्षः शिरश्चाप्यालभेत् पुनः ।। २६५.३२
हस्तमात्रेषु कुण्डेषु मूर्तिपाः सर्वतो दिशम्।
समेखलेषु ते कुर्युर्योनिवक्त्रेषु चादरात् ।। २६५.३३
वितस्ति मात्रा योनिः स्यद् गजोष्ठसदृशी तथा।
आयताच्छिद्रसंयुक्ता पार्श्वतः कलयोच्छ्रिता ।। २६५.३४
कुण्डात् कलानुसारेण सर्वतश्चतुरङ्गुला।
विस्तारेणोच्छ्रयातद्वच्चतुरस्रा समा भवेत् ।। २६५.३५
वेदी भित्तिं परित्यज्य त्रयोदशभिरंगुलैः।
एवं नवसु कुण्डेषु लक्षणञ्चैव दृश्यते ।। २६५.३६
आग्नेय शाक्रयाम्येषु होतव्यमुदगाननैः।
शान्तयो लोकपालेभ्यो मूर्तिभ्यः क्रमशस्तथा ।। २६५.३७
तथा मूर्त्यधिदेवानां होमं कुर्यात् समाहितः।
वसुधा वसुरेता च यजमानो दिवाकरः ।। २६५.३८
जलं वायु स्तथा सोम आकाशश्चाष्टमः स्मृतः।
देवस्य मूर्तयस्त्वष्टा वेताः कुण्डेषु संस्मरेत् ।। २६५.३९
एतासामधिपान्वक्ष्ये पवित्रान् मूर्ति नामतः।
पृथ्वीं पाति सर्वश्च पशुपश्चाग्निमेव च ।। २६५.४०
यजमानं तथैवोग्रो रुद्रश्चादित्यमेव च।
भवो जलं सदा पाति वायुमीशान एव च ।। २६५.४१
महादेवस्तथा चन्द्र भीमश्चाकाशमेव च।
सर्वदेवप्रतिष्ठासु मूर्तिपा ह्येत एव च ।। २६५.४२
एतेभ्यो वैदिकैर्मन्त्रेर्यथास्वं होममाचरेत्।
तथा शान्तिघटं कुर्य्यात् प्रतिकुण्डेषु सन्न्यसेत् ।। २६५.४३
शतान्ते वा सहस्रान्ते सम्पूर्णाहुतिरिष्यते।
समपादः पृथिव्यान्तु प्रशान्तात्मा विनिक्षिपेत् ।। २६५.४४
आहुतीनान्तु सम्पातं पूर्णकुम्भेषु वै न्यसेत्।
मूलमध्योत्तमाङ्गेषु देवं तेनावसेचयेत् ।। २६५.४५
स्थितश्च स्नापयेत्तेन सम्पाताहुतिवारिणा।
प्रतियामेषु धूपन्तु नैवद्यञ्चदनोदकम् ।। २६५.४६
पुनः पुनः प्रकुर्वीत होमः कार्यः पुनः पुनः।
पुनः पुनश्च दातव्या यजमानेन दक्षिणा ।। २६५.४७
सितवस्त्रैश्च ते सर्वे पूजनीयाः समन्ततः।
विचित्रैर्हेमकटकैः हेमसूत्रांगुलीयकैः ।। २६५.४८
वासोभिः शयनीयैश्च परिधाप्याः स्वशक्तितः।
भोजनञ्चापि दातव्यं यावत् स्यादधिवासनम् ।। २६५.४९
बलिस्त्रिसन्ध्यं दातव्यो भूतेभ्यः सर्वतो दिशम्।
ब्राह्मणान् भोजयेत् पूर्वं शेषान् वर्णांस्तु कामतः ।। २६५.५०
रात्रौ महोत्सवः कार्यो नृत्यगीतकमङ्गलैः।
सदा पूज्याः प्रयत्नेन चतुर्थी कर्म यावता ।। २६५.५१
त्रिरात्रमेकरात्रं वा पञ्चरात्रमथापि वा।
सप्तरात्रमथो कुर्य्यात् क्वचित्सद्योऽधिवासनम्
सर्वयज्ञफलो यस्मादधिवासोत्सवः सदा ।। २६५.५२