मत्स्यपुराणम्/अध्यायः २३२
शान्तिविधानवर्णनम्।
गर्ग उवाच।
पुरेषु येषु दृश्यन्ते पादपादेव चोदिता।
रुदन्तो वा हसन्तो वा स्रवन्तो वा रसान्बहून् ।। २३२.१ ।।
अरोगा वा विना वातं शाखां मुञ्चत्यथ द्रुमाः।
फलं मूलं तथा कालं दर्शयन्ति त्रिहायनाः ।। २३२.२ ।।
पूर्ववत्स्वं दर्शयन्ति फलं पुष्पं तथान्तरे।
क्षीरं स्नेहं तथा रक्त मधु तोयं स्रवन्ति च ।। २३२.३ ।।
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः।
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः ।। २३२.४ ।।
तत्र वक्ष्यामि ते ब्रह्मन्! विपाकं फलमेव च।
रोदने व्याधिमभ्येति हसने देशविभ्रमम् ।। २३२.५ ।।
शाखाप्रपतनं कुर्यात् संग्रामे योधपातनम्।
बालानां मरणं कुर्यात् बालानां बालपुष्पिता।। २३२.६ ।।
स्वराष्ट्रभेदं कुरुते फलपुष्पमथान्तरे।
क्षयः सर्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम् ।। २३२.७ ।।
वाहनापचयं मद्ये रक्ते संग्राममाविशेत्।
मधुस्रावे भवेद् व्याधिर्जलस्रावे न वर्षति ।। २३२.८ ।।
अरोगशोषणं ज्ञेयं ब्रह्मन्! दुर्भिक्षलक्षणम्।
शुष्केषु संप्रहरोहस्तु वीर्यमन्त्रञ्च हीयते ।। २३२.९ ।।
उत्थाने पतितानाञ्च नयं भेदकरम्भवेत्।
स्थानात् स्तानन्तु गमने देशभङ्गस्तथा भवेत् ।। २३२.१० ।।
ज्वलत्स्वपि च वृक्षेषु रुद्रत्स्वपि धनक्षयम्।
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ।। २३२.११ ।।
पुष्पे फले वा विकृते राज्ञो मृत्यु तथादिशेत्।
अन्येषु चैव वृक्षेषु वृक्षोत्पातेष्वतन्द्रितः ।। २३२.१२ ।।
आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत्।
वृक्षोपरि तथा छत्रं कुर्यात् पापप्रशान्तये ।। २३२.१३ ।।
शिवमभ्यर्चयेद्देवं पशुञ्चास्मै निवेदयेत्।
रुद्रेभ्य इति वृक्षेषु हुत्वा रुद्रं जपेत्ततः ।। २३२.१४ ।।
मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रांश्च भुवञ्च दद्यात्।
गीतेन नृत्येन तथार्चयेत्तु देवं हरं पापविनाशहेतोः ।। २३२.१५ ।।