मत्स्यपुराणम्/अध्यायः २६२
पीठिकालक्षणवर्णनम्।
सूत उवाच।
पीठिकालक्षणं वक्ष्ये यथावदनुपूर्वशः।
पीठोच्छ्रायं यथावच्च भागान् षोडश कारयेत् ।। २६२.१
भूमावेकः प्रविष्टः स्याच्चतुर्भिर्जगती मता।
वृत्तो भागस्तथैकः स्यात् वृतः पटलभागतः ।। २६२.२
भागैस्त्रिभिस्तथा कण्ठः कण्ठपट्टस्त्रिभागतः।
भागाभ्यामूर्ध्वपट्टश्च शेषभागेन पट्टिका ।। २६२.३
प्रविष्टं भागमेकैकं जगती यावदेवतु।
निर्गमस्तु पुनस्तस्य यावद्वै शेषपट्टिका ।। २६२.४
वारिनिर्गमनार्थन्तु तत्र कार्य्यः प्रणालकः।
पीठिकानान्तुसर्वासामेतत्सामान्यलक्षणम् ।। २६२.५
विशेषान् देवता भेदान् श्रृणुध्वं द्विजसत्तमाः!।
स्थण्डिला वाथ वापी वा यक्षी वेदी च मण्डला ।। २६२.६
पूर्णचन्द्रा च वज्रा च पद्मार्धशशिनस्तथा।
त्रिकोणा दशमी तासां संस्थानं वा निबोधत ।। २६२.७
स्थण्डिला चतुरस्रा तु वर्जिता मेखलादिभिः।
वापी द्विमेखला ज्ञेया यक्षी चैव त्रिमेखला ।। २६२.८
चतुरस्रायता वेदी न तां लिङ्गेषु योजयेत्।
मण्डलावर्तुलायातु मेखलाभिर्गणप्रिया ।। २६२.९
रक्ता द्विमेखला मध्ये पूर्णचन्द्रा तु सा भवेत्।
मेखलात्रयसंयुक्ता षड़स्रा वज्रिका भवेत् ।। २६२.१०
षोडशास्त्रा भवेत्पद्मा किञ्चिद्ध्रस्वा तु मूलतः।
तथैव धनुषाकारा सार्द्धचन्द्रा प्रशस्यते ।। २६२.११
त्रिशूलसदृशी तद्वत् त्रिकोणाह्यूर्ध्वतो मता।
प्रागुदक्प्रवणा तद्वत्प्रशस्ता लक्षणान्विता ।। २६२.१२
परिवेषं त्रिभागेन निर्गमं तत्र कारयेत्।
विस्तारं तत्प्रमाणञ्च मूलेचाग्रे ततोर्ध्वतः ।। २६२.१३
जलमार्गश्च कर्तव्यस्त्रिभागेन सुशोभनः।
लिङ्गस्यार्द्धविभागेन स्थौल्येन समधिष्ठिता ।। २६२.१४
मेखला तत्त्रिभागेन खातञ्चैव प्रमाणतः।
अथवा पादहीनन्तु शोभनं कारयेत्सदा ।। २६२.१५
उत्तरस्थं प्रणालञ्च प्रमाणादधिकारयेत्।
स्थण्डिलायामथारोग्यं धनं धान्यञ्च पुष्कलम् ।। २६२.१६
गोप्रदा च भवेद्यक्षी वेदी संपत् प्रदा भवेत्।
मण्डलायां भवेत्कीर्तिर्वरदा पूर्णचन्द्रिका ।। २६२.१७
आयुःप्रदा भवेद्वज्रा पद्मा सौभाग्यदा भवेत्।
पुत्रप्रदार्धचन्द्रा स्यात् त्रिकोणशत्रुनाशिनी ।। २६२.१८
देवस्य यजनार्थन्तु पीठिका दश कीर्तिताः।
शैले शैलमयी दद्यात् पार्थिवे पार्थिवी तथा ।। २६२.१९
दारुजे दारुजां कुर्यात् मिश्रे मिश्रां तथैव च।
नान्ययोनिस्तु कर्तव्या सदा शुभफलेप्सुभिः ।। २६२.२०
अर्च्चायामा समन्दैर्घ्यं लिङ्गायामसमन्तथा।
यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् ।।
एतत्सर्वं समाख्यातं समासात्पीठलक्षणम् ।। २६२.२१