मत्स्यपुराणम्/अध्यायः २३८
शान्तिविधानवर्णनम्।
गर्ग उवाच।
प्रासादतोरणाट्टाल द्वारप्राकारवेश्मनाम्।
निर्निमित्तन्तु पतनं दृढानां राजमृत्यवे ।। २३८.१ ।।
रजसा वाथ धूमेन दिशो यत्र समाकुलाः।
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये ।। २३८.२ ।।
राक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः।
ऋतवश्चविपर्यस्ता अपूज्यः पूज्यते जनैः ।। २३८.३ ।।
नक्षत्राणि वियोगानि तन्महद्भय लक्षणम्।
केतूदयोपरागौ च छिद्रं वा शशिसूर्य्ययोः ।। २३८.४ ।।
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत्।
स्त्रियश्च कलहायन्ते बाला निघ्नन्ति बालकान् ।। २३८.५ ।।
क्रियाणामुचितानाञ्च विच्छित्तिर्यत्र जायते।
हूयमानस्तु यत्राग्निर्दीप्यते न च शान्तिषु ।। २३८.६ ।।
पिपीलिकाश्च क्रव्यादा यान्ति चोत्तरतस्तथा।
पूर्णकुम्भाः स्रवन्ते च हविर्वा विप्र लुप्यते ।। २३८.७ ।।
मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः।
क्षवथुर्बाधते वाथ प्रहसन्ति स्रवन्ति च ।। २३८.८ ।।
न च देवेषु वर्तन्ते यथावद् ब्राह्मणेषु च।
मन्दघोषाणि वाद्यानि वाद्यन्ते विस्वराणि च ।। २३८.९ ।।
गुरुमित्रद्विषो यत्र शत्रुपूजारता नराः।
ब्राह्मणान् सुहृदो मान्यान् जनो यत्रावमन्यते ।। २३८.१० ।।
शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते।
राजा वा म्रियते तत्र स देशो वा विनश्यति ।। २३८.११ ।।
राज्ञो विनाशे सम्प्राप्ते निमित्तानि निबोध मे।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ।। २३८.१२ ।।
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति।
न च स्मरति कृत्येषु याचितश्च प्रकुप्यति ।। २३८.१३ ।।
रमते निन्दया तेषां प्रशंसां नाभिनन्दति।
अपूर्वन्तु करं लोभात्तथा पातयते जने ।। २३८.१४ ।।
एतेष्वभ्यर्चयेच्छक्रं सपत्नीकं द्विजोत्तम!।
भोज्यानि चैव कार्याणि सुराणां बलयस्तथा
सन्तो विप्राश्च पूज्याः स्युस्तेभ्यो दानञ्च दीयताम् ।। २३८.१५ ।।
गावश्च देया द्विजपुङ्गवेभ्यो भुवस्तथा काञ्चनमम्बराणि।
होमश्च कार्योऽमरपूजनञ्च एवं कृते पापमुपैति शान्तिम् ।। २३८.१६ ।।