मत्स्यपुराणम्/अध्यायः १५१
तारकासुरोपाख्याने देवासुरयुद्धे ग्रसनवधवर्णनम्।
सूत उवाच।
तं दृष्ट्वा दानवाः क्रुद्दाश्चेरुः स्वैस्वैः बलैर्वृताः।
सरघा इव माक्षीकहरणे सर्वतो दिशम् ।। १५१.१
कृष्णचामरजालाढ्ये सुधा विरचिताङ्कुरे।
चित्रपञ्चपताके तु प्रभिन्न करटामुखे ।। १५१.२
पर्वताभे गजे भीमे मदस्राविणि दुर्द्धरे।
आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ।। १५१.३
तस्यासन् दानवा रौद्रा गजस्य पदरक्षिणः।
सप्तविंशतिसाहस्राः किरीटकवचोज्वलाः ।। १५१.४
अश्वारूढ़श्च मथनो जम्भकश्चोष्ट्रवाहनः।
शुम्भोऽपि विपुलं मेषं समारुह्याव्रजद्रणम् ।। १५१.५
अपरे दानवेन्द्रास्तु मत्ता नानास्त्रपाणयः।
आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम्।। १५१.६
परिधेण निमिर्दैत्यो मथनो मुद्गरेण तु।
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ।। १५१.७
चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे।
जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः ।। १५१.८
तान्यस्त्रापि प्रयुक्तानि शरीरं विविशुर्हरेः।
गुरूक्तानुपदिष्टान्वै सच्छिष्यस्य श्रुतानिव।। १५१.९
असम्भ्रान्तो रणे विष्णुरथ जग्राह कार्मुकम्।
शरांश्चाशी विषाकारान् तैलधौतानजिह्मगान् ।। १५१.१०
ततोऽभिसन्ध्य दैत्यांस्तानाकर्णाकृष्टकार्मुकः।
अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषान् ।। १५१.११
निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम्।
मथनं दशभिर्बाणैः शुभ्रं पञ्चभिरेव च ।। १५१.१२
एकेन महिषं क्रुद्धो विव्याधोरसि पत्रिणा।
जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशोऽष्टभिः ।। १५१.१३
तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्च्छिताः।
नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम्।। १५१.१४
चिच्छेदाथ धनुर्विष्णोर्निमिर्भल्लेन दानवः।
सन्ध्यमानं शरं हस्ते चिच्छेद महिषासुरः ।। १५१.१५
पीड़यामास गरुड़ं जम्भस्तीक्ष्णैस्तु सायकैः।
भुजं तस्याहनद्गाढ़ं शुम्भो भूधरसन्निभः ।। १५१.१६
छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम्।
तां प्राहिणोत् स वेगेन मथनाय महाहवे ।। १५१.१७
तामप्राप्तां निमिर्बाणैश्चिच्छेद तिलशो रणे।
तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव।। १५१.१८
जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम्।
तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम्।। १५१.१९
तमायान्तं वियत्येव त्रयो दैत्या न्यवारयन्।
गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु ।। १५१.२०
शक्त्या च महिषो दैत्यः स्वपक्ष जयकाङ्क्षया।
निराकृतं तमालेक्य दुर्जने प्रणयं यथा ।। १५१.२१
जग्राह शक्तिमुग्राग्रामष्टघण्टोत्कटस्वनाम्।
जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः ।। १५१.२२
तामम्बरस्थां जग्राह गजो दानवनन्दनः।
गृहीतां तां समालेक्य शिक्षामिव विवेकिभिः ।। १५१.२३
दृढं भारसहं सारमन्यदादाय कार्मुकम्।
रौद्रास्तमभिसन्धाय तस्मिन् बाणं मुमोच ह ।। १५१.२४
ततोऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम्।
ततो बाणमयं सर्वमाकाशं समदृश्यत। १५१.२५
भूर्दिशो विदिशश्चैव बाणजालमया बभुः।
दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्गसनोऽसुरः ।। १५१.२६
ब्राह्ममस्त्रञ्चचारासौ सर्वास्त्रं विनिवारणम्।
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम् ।। १५१.२७
अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः।
कालदण्डास्त्रमकरोत् सर्वलोकभयङ्करम्। १५१.२८
सन्धीयमाने तस्मिंस्तु मारुतः परुषो ववौ।।
चकम्पे च मही देवी दैत्या भिन्नधियोऽभवन् ।। १५१.२९
तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः।
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे।। १५१.३०
नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच।
एकैकमस्त्रञ्च चकार जम्भस्तत्कालदण्डास्त्र निवारणाय ।। १५१.३१
यावन्न सन्धानदशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय।
तावत् क्षणेनैव जघान कोटीर्दैत्येश्वराणां सगजान् सहाश्वान् ।। १५१.३२
अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेन तु कालदण्डम्।
शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः ।। १५१.३३
जग्राह चक्रं तपनायुताभमुग्रारमात्मानमिव द्वितीयम्।
चिक्षेप सेनापतयेऽभिसन्ध्य कण्ठस्थलं वज्रकठोरमुग्रम् ।। १५१.३४
चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्य्यैः।
नाशक्नुवन् वारयितुं प्रचण्डं दैवं यथा कर्म्म मुधा प्रपन्नम् ।। १५१.३५
तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे।
द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभिः।
जगाम भूयोऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्तिः ।। १५१.३६ ।।