मत्स्यपुराणम्/अध्यायः २५५
स्तम्भमाननिर्णयवर्णनम्।
सूत उवाच।
अथातः संप्रवक्ष्यामि स्तम्भमान विनिर्णयम्।
कृत्वा स्वभुवनोच्छ्रायं सदा सप्तगुणं बुधैः ।। २५५.१
अशीत्यंशः पृथुत्वं स्यादग्रेणावगुणैः सह।
रुचकश्चतुरः स्यात्तु अष्टास्रो वज्र उच्यते ।। २५५.२
द्विवज्र षोड़शास्त्रस्तु द्वात्रिंशास्त्रः प्रलीनकः।
मध्यप्रदेशे यस्तम्भो वृत्तो वृत्त इति स्मृतः ।। २५५.३
एते पञ्च महास्तम्भाः प्रशस्ताः सर्ववास्तुषु।
पद्म वल्ली लता कुम्भ पत्र दर्पण रूपिताः ।। २५५.४
स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि तु।
स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः ।। २५५.५
त्रिभागेनेह सर्वत्र चतुर्भागेन वा पुनः।
हीनं हीनं चतुर्थांशात् तथा सर्वासु भूमिषु ।। २५५.६
वासगेहानि सर्वेषां प्रवेशे दक्षिणेन तु।
द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह यानि तु ।। २५५.७
पूर्वेणेन्द्रं जयन्तञ्च द्वारं सर्वत्र शस्यते।
याम्यञ्च वितथञ्चैव दक्षिणेन विदुर्बुधाः ।। २५५.८
पश्चिमे पुष्पदन्तं च वारुणञ्च प्रशस्यते।
उत्तरेण तु भल्लाटं सौम्यं तु शुभदम्भवेत् ।। २५५.९
तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत्।
द्वारे तु रथ्यया विद्धे भवेत् सर्वकुलक्षयः ।। २५५.१०
तरुणाद्वेष बाहुल्यं शोकः पङ्केन जायते।
अपस्मारो भवेन्नूनं कूपवेधेन सर्वदा ।। २५५.११
व्यथा प्रस्रवणेन स्यात् कीलेनाग्नि भयं भवेत्।
विनाशो देवता विद्धे स्तम्भेन स्त्रीकृतं भवेत् ।। २५५.१२
गृहभर्तुर्विनाशः स्यात् गृहेण च गृहे कृते।
अमेध्यावस्करैर्विद्धे गृहिणी बन्धकी भवेत् ।। २५५.१३
तथा शस्त्रमयं विन्द्यादन्त्यजस्य गृहेण तु।
उच्छ्राया द्विगुणां भूमिं त्यक्त्वा वेधो न जायते ।। २५५.१४
स्वयमुत्पाटिते द्वारे उन्मादो गृहवासिनाम्।
स्वयं वा पिहिते विद्यात् कुलनाशं विचक्षणः ।। २५५.१५
मानाधिके राजभयं न्यूने तस्करतो भवेत्।
द्वारोपरि च यद्द्वारं तदन्तकमुखं स्मृतम् ।। २५५.१६
अध्वनो मध्यदेशे तु अधिको यस्य विस्तरः।
वज्रन्तु सङ्कटं मध्ये सद्योभर्तुर्विनाशनम् ।। २५५.१७
तथान्यपीड़ितं द्वारं बहुदोषकरं भवेत्।
मूलद्वारा तथान्यत्तु नाधिकं शोभनं भवेत् ।। २५५.१८
कुम्भश्रीपर्णि वल्लीभिर्मूलद्वारन्तु शोभयेत्।
पूजयेच्चापि तन्नित्यं बलिना चाक्षतोदकैः ।। २५५.१९
भवनस्य वटः पूर्वे दिग्भागे सर्वकामिकः।
उदुम्बरस्तथा याम्ये वारुण्यां पिप्पलः शुभः ।। २५५.२०
प्लक्षश्चोत्तरतो धन्यो विपरीतास्त्वसिद्धये।
कण्टकीक्षीरवृक्षश्च आसनः सफलो द्रुमः ।। २५५.२१
भार्य्याहानौ प्रजाहानौ भवेतां क्रमशस्तदा।
न च्छिन्द्यात् यदि तानन्यानन्तरे स्थापयेच्छुभान् ।। २५५.२२
पुन्नागा शोक बकुल शमी तिलक चम्पकान्।
दाड़िमी पिप्पली द्राक्षा तथा कुसुममण्डपान् ।। २५५.२३
जम्बीरपूगपनसद्रुमकेतकीभिर्जातीसरोजशतपत्रिकमल्लिकाभिः।
यन्नालिकेरकदलीदलपाटलाभिर्युक्तं तदत्र भवनं श्रियमातनोति ।। २५५.२४