मत्स्यपुराणम्/अध्यायः २६३
लिङ्गलक्षणवर्णनम्।
सूत उवाच।
अथातः संप्रवक्ष्यामि लिङ्गलक्षणमुत्तमम्।
सुस्निग्धञ्च सुवर्णञ्च लिङ्गं कुर्याद्विचक्षणः ।। २६३.१
प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते।
लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम्।। २६३.२
चतुरस्रे समे गर्त्ते ब्रह्मसूत्रं निपातयेत्।
वामेन ब्रह्मसूत्रस्य अर्च्चा वा लिङ्गमेव च ।। २६३.३
प्रागुत्तरेण लीनन्तु दक्षिणा परया श्रितम्।
पुरस्यापरदिग्भागे पूर्वद्वारं प्रकल्पयेत् ।। २६३.४
पूर्वेण चापरं द्वारं माहेन्द्रं दक्षिणोत्तरम्।
द्वारं विभज्य पूर्वन्तु एकाविंशति भागिकम् ।। २६३.५
ततो मध्यगतं ज्ञात्वा ब्रह्मसूत्रं प्रकल्पयेत्।
तस्यार्द्धन्तु त्रिधा कृत्वा भागञ्चोत्तरतस्त्यजेत् ।। २६३.६
एवं दक्षिणतस्त्यक्त्वा ब्रह्मस्थानं प्रकल्पयेत्।
भागार्द्धेन तु यल्लिङ्गं कार्यन्तदिह शस्यते ।। २६३.७
पञ्चभागविभक्ते वा त्रिभागे ज्यैष्ठ्यमुच्यते।
भाजिते नवधा गर्भे माध्यमं पाञ्चभागिकम् ।। २६३.८
एकस्मिन्नेव नवधा गर्भे लिङ्गानि कारयेत्।
समसूत्रं विभज्याथ नवधा गर्भभाजितम् ।। २६३.९
ज्येष्ठमर्द्धं कनीयोऽर्धं तथा मध्यम मध्यमम्।
एवं गर्भः समाख्यातस्त्रिभिर्भागैर्विभाजयेत् ।। २६३.१०
ज्येष्ठन्तु त्रिविधं ज्ञेयं मध्यमन्त्रिविधन्तथा।
कनीयं त्रिविधं तद्वत् लिङ्गभेदा नवैव तु ।। २६३.११
नाभ्यर्धमष्टभागेन विभज्याथ समं बुधैः।
भागत्रयं परित्यज्य विष्कम्भञ्चतुरस्रकम् ।। २६३.१२
अष्टास्रं मध्यमं ज्ञेयं भागं लिङ्गस्य वै ध्रुवम्।
विकीर्णे चेत्ततो गृह्य कोणाभ्यां लाञ्छयेद् बुधः ।। २६३.१३
अष्टास्रं कारयेत्तद्वदूर्ध्वमप्येवमेव तु।
षोड़शास्त्रीकृतं पश्चाद्वर्तुलं कारयेत्ततः ।। २६३.१४
आयामा तस्य देवस्य नाभ्यां वै कुण्डलीकृतम्।
माहेश्वरं त्रिभागन्तु ऊर्ध्ववृत्तं त्ववस्थितम् ।। २६३.१५
अधस्ताद् ब्रह्मभागस्तु चतुरस्रो विधीयते।
अष्टास्रो वैष्णवो भागो मध्यस्तस्य उदाहृतः ।। २६३.१६
एवं प्रमाणसंयुक्तं लिङ्गवृद्धिप्रदम्भवेत्।
तथान्यदपि वक्ष्यामि गर्भमानं प्रमाणतः ।। २६३.१७
गर्भमानप्रमाणेन यल्लिङ्गमुचितं भवेत्।
चतुर्धा तद्विभज्याथ विष्कुम्भन्तु प्रकल्पयेत् ।। २६३.१८
देवतायतने सूत्रं भागत्रयविकल्पितम्।
अधस्ताच्चतुरस्रन्तु अष्टास्रं मध्यभागतः ।। २६३.१९
पूज्यभागस्ततोऽर्द्धन्तु नाभिभागस्तथोच्यते।
आयामे यद्भवेत्सूत्रं नाहस्य चतुरस्रके ।। २६३.२०
चतुरस्रार्द्धं परित्यज्य अष्टास्रस्यतु यद् भवेत्।
तस्याप्यर्द्धं परित्यज्य ततो वृत्तन्तु कारयेत् ।। २६३.२१
शिरः प्रदक्षिणं तस्य संक्षिप्तं मूलतो न्यसेत्।
ज्येष्ठपूज्यं भवेल्लिङ्गमधस्ताद्विपुलञ्च यत् ।। २६३.२२
शिरसा च सदा निम्नं मनोज्ञं लक्षणान्वितम्।
सौम्यन्तु दृश्यते लिङ्गन्तद्वै वृद्धिप्रदं भवेत् ।। २६३.२३
अथ मूले च मध्ये तु प्रमाणे सर्वतः समम्।
एवम्विधन्तु यल्लिङ्गं भवेत्तत्सार्वकामिकम् ।। २६३.२४
अन्यथा यद्भवेल्लिङ्गं तदसत् संप्रचक्षते।
एवं रत्नमयं कुर्यात् स्फाटिकं पार्थिवं तथा ।। २६३.२५
शुभं दारुमयञ्चापि यद्वा मनसि रोचते ।।