मत्स्यपुराणम्/अध्यायः २३६
पठन सेटिंग्स
शान्तिविधानवर्णनम्।
गर्ग उवाच।
यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति च।
चोद्यमानानि तत्र स्यात् महद्भयमुपस्थितम् ।। २३६.१ ।।
वाह्यमाना न वाह्यन्ते वाह्यन्ते नात्यनाहताः।
अचलाश्च चलन्त्येव न चलन्ति चलानि च ।। २३६.२ ।।
आकाशे तूर्यनादश्च गीतगन्धर्वनिस्वनाः।
काष्ठदर्वी-कुठारादि विकारं कुरुते यदि ।। २३६.३ ।।
गावो लांगूलसङ्घैश्च स्त्रियः स्त्री च विघातयेत्।
उपस्करादि विकृतौ घोरं शस्त्रभयम्भवेत् ।। २३६.४ ।।
वायोस्तु पूजं द्विजसक्तुभिश्च कृत्वा नियुक्तांश्च जपेच्च मन्त्रान्।
दद्यात् प्रभूतं परमान्नमत्र सदक्षिणन्तेन शमोऽस्य भूयात् ।। २३६.५ ।।