सामग्री पर जाएँ

मत्स्यपुराणम्/अध्यायः १४०

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







देवदानवयुद्धवर्णनम्।

सूत उवाच।
उदिते तु सहस्रांशौ मेरौ भासाकरे रवौ।
नदद्देव कुलं कृत्स्नं युगान्त इव सागराः॥ १ ॥
सहस्रनयनो देवस्ततः शक्रः पुरन्दरः।
सवित्तदः सवरुण स्त्रिपुरं प्रययौ हरः॥ २ ॥
ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः।
ययुः सिंहरवैर्घोरैर्वादित्रनिनदैरपि॥ ३ ॥
ततो वादितवादित्रैश्चातपत्रैर्महाद्रुमैः।
बभूव तद्बलं दिव्यं वनं प्रचलितं यता॥ ४ ॥
तदा पतन्तं संप्रेक्ष्य रौद्रं रुद्रबलं महत्।
सङ्‌क्षोभो दानवेन्द्राणां समुद्रप्रतिमो बभौ॥ ५ ॥
ते चासीन् पट्टिशानच्छक्तीः शूलदण्डपरश्वधान्।
शरासनानि वज्राणि गुरूणि मुसलानि च॥ ६ ॥
प्रगृह्य कोपरक्ताक्षाः सपक्षा इव पर्वताः।
निजघ्नुः पर्वतघ्नाय घना इव तपात्यये॥ ७ ॥
स विद्युन्मालिनस्ते वै समयादिति नन्दनाः।
मोदमाना समासेदुर्देवदेवैः सुरारयः॥ ८ ॥
मर्तव्यकृतबुद्धीनां जये चानिश्चितात्मनाम्।
अबलानाञ्चमू ह्यासीदबलावयवा इव॥ ९ ॥
विगर्जन्त इवाम्भोदा अम्भोदसद्रृशत्विषः।
प्रयुद्धा युद्धकुशलाः परस्परकृतागसः॥ १० ॥
धमायन्तो ज्वलद्भिश्च आयुधैश्चन्द्रवर्चसैः।
कोपाद्वा युद्धलुब्धाश्च कुट्टयन्ते परस्परम्॥ ११ ॥
वज्राहताः पतन्त्यन्ये बाणैरन्ये विदारिताः।
अन्ये विदारिताश्चक्रैः पतन्ति ह्युदधे जले॥ १२ ॥
छिन्नस्रग्दामहाराश्च प्रमृष्टाम्बरभूषणाः।
तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः॥ १३ ॥
गदानां मुसलानाञ्च तोमराणां परश्वधाम्।
वज्रशूलर्ष्टिपातानां पट्टिशानाञ्च सर्वतः॥ १४ ॥
गिरिश्रृङ्गोपलानाञ्च प्रेरितानां प्रमन्युभिः।
सजवानां दानवानां सधूमानां रवित्विषाम्॥
आयुधानो महानोघः सागरौघे पतत्यपि॥ १५ ॥
प्रवृद्धवेगैस्तैस्तत्र सुरासुरकरोरितैः।
आयुधैस्त्रस्तनक्षत्रः क्रियते सङ्क्षयो महान्॥ १६ ॥
क्षुद्राणाङ्गजयोर्युद्धे यथा भवति सङ्‌क्षयः।
देवासुरगणैस्तद्वत्तिमिनक्रक्षयोऽभवत्॥ १७ ॥
विद्युन्माली च वेगेन विद्युन्माली इवाम्बुदः।
विद्युन्माल घनोन्नादो नन्दीश्वरमभिद्रुतः॥ १८ ॥
स तन्तमोऽरिवदनं प्रनदन् वदताम्वरः।
उवाच युधि शैलादिन्दानवोऽम्बुधिनिस्वनः॥ १९ ॥
युद्धाकाङ्क्षी तु बलवान् विद्युन्माल्यहमागतः।
यदि त्विदानीं मे जीवन्मुच्यसे नन्दिकेश्वर!।
न विद्युन्मालि हननं वचोभिर्युधि दानवः॥ २० ॥
तमेवं वादिनं दैत्यं नन्दीशस्तपताम्वरैः।
उवाच प्रहरंस्तत्र वाद्यलङ्कारवद्वचः॥ २० ॥
दानवाः! धर्म्मकामानां नैषोऽवसर इत्यतः।
शक्तो हन्तुं किमात्मानं जातिदोषाद्विवृंहसि॥ २२ ॥
यदि तावन्मया पूर्वं हतोऽसि पशुवद्यथा।
इदानीं वा कथं नाम न हिंस्ये क्रतु दूषणम्॥ २३ ॥
सागरं तरते दोर्भ्यां पातयेद्यो दिवाकरम्।
सोऽपि मां शक्नुयान्नैव चक्षुर्भ्यां समवीक्षितुम्॥ २४ ॥
इत्येवं वादिनं तत्र नन्दिनं तन्निभोबले।
बिभेदैकेषुणा दैत्यः करणार्क इवाम्बुदम्॥ २५ ॥
वक्षसः सशरस्तस्य पपौ रुधिरमुत्तमम्।
सूर्य्यस्त्वात्मप्रभावेण नद्यर्णवजलं यथा॥ २६ ॥
स तेन सुप्रहारेण प्रथमञ्चाति रोषितः।
हस्तेन वृक्षमुत्पाट्य चिक्षेप गजराडिव॥ २७ ॥
वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः।
विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत्॥ २८ ॥
वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः।
रोषमाहारयत्तीव्रं नन्दीश्वर सुविग्रहः॥ २९ ॥
सोद्यम्य करमारावे रविशक्रकरप्रभम्।
दुद्राव हन्तुं स क्रूरं महिषं गजराडिव॥ ३० ॥
तमापतन्तं वेगेन वेगवान् प्रसभं बलात्।
विद्युन्माली शरशतैः पूरयामास नन्दिनम्॥ ३० ॥
शरकण्टकिताङ्गो वै शैलादिः सोऽभवत् पुनः।
अरेर्गुह्यरथं तस्य महतः प्रययौ जवात्॥ ३२ ॥
बिलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः।
पपात मुनिशापेन सादित्योऽर्करथो यथा॥ ३३ ॥
अन्तपान्निर्गतश्चैव मायया स दितेः सुतः।
आजघान तदा शक्त्या शैलादिं समवास्थितम्॥ ३४ ॥
तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम्।
विद्युन्मालिं समुद्दिश्य चिक्षेप प्रमथाग्रणीः॥ ३५ ॥
तया भिन्नतनुत्राणो विभिन्न हृदयस्त्वपि।
विद्युन्माल्यपतद्‌भूमौ वज्राहत इवाचलः॥ ३६ ॥
विद्युन्मालिनि निहते सिद्धचारणकिन्नराः।
साधुसाध्विति चोक्त्वा ते पूजयन्त उमापतिम्॥ ३७ ॥
नन्दिना सादिते दैत्ये विद्युन्मालौ हते मयः।
ददाह प्रमथानीकं वनमग्निरिवोद्धतः॥ ३८ ॥
शूलनिर्दारितोरस्का गदाचूर्णितमस्तकाः।
इषुभिर्गाढ़विद्धाश्च पतन्ति प्रमथार्णवे॥ ३९ ॥
अथ वज्रधरो यमोऽर्थदः स च नन्दी स च षण्मुखो गुहः।
मयमसुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः॥ ४० ॥
नागन्तु नागाधिपतेः शताक्षं मयो विदार्येषु वरेण तूर्णम्।
मयञ्च वित्ताधिपतिञ्च विद्‌ध्वा ररास मत्ताम्बुदवत्तदानीम्॥ ४० ॥
ततः शरैः प्रमथगणैश्च दानवा द्रृढ़ाहताश्वोत्तमवेगविक्रमाः।
भृशानुविद्धास्त्रिपुरं प्रवेशिता यथा शिवश्चक्रधरेण संयुगे॥ ४२ ॥
ततस्तु शङ्खानकभेरिमर्दलाः ससिंहनादादनुपुत्रभङ्गदाः।
कपर्दिसैन्ये प्रबभुः समन्ततो निपात्यमाना युधि वज्रसन्निभाः॥ ४३ ॥
अथ दैत्यपुराभावे पुष्ययोगो बभूव ह।
बभूव चापि संयुक्तं तद्योगेन पुरत्रयम्॥ ४४ ॥
ततो बाणं त्रिधा देवस्त्रिदैवतमयं हरः।
मुमोच त्रिपुरे तूर्णं त्रिनेत्रस्त्रिपदाधिपः॥ ४५ ॥
तेन मुक्तेन बाणेन बाणपुष्पसमप्रभम्।
आकाशं स्वर्णसङ्काशं कृतं सूर्य्येण रञ्जितम्॥ ४६ ॥
मुक्ता त्रिदैवतमयं त्रिपुरे त्रिदशः शरम्।
धिग्धिङ्‌मामिति चक्रन्दकष्टं कष्टमिति ब्रुवन्॥ ४७ ॥
वैधुर्यं दैवतं द्रृष्ट्वा शैलादिर्गजवद्गतः।
किमिदन्त्विति पप्रच्छ शूलपाणिं महेश्वरम्॥ ४८ ॥
ततः शशाङ्कतिलकः कपर्दी परमार्तवत्।
उवाच नन्दिनं भक्तः स मयोऽद्य विनंक्ष्यति॥ ४९ ॥
अथ नन्दीश्वरस्तूर्णं मनोमारुतमद्बली।
शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः॥ ५० ॥
स मयम्प्रेक्ष्य गणपः प्राहकाञ्चनसन्निभः।
विनाशस्त्रिपुरस्यास्य प्राप्तो मय! सुदारुणः॥ ५० ॥
अनेनैव गृहेण त्वमपक्राम ब्रवीम्यहम्।
श्रुत्वा तन्नन्दिवचनं द्रृढ़भक्तो महेश्वरे॥ तेनैव गृहमुख्येन त्रिपुरादपसर्पितः॥ ५२ ॥
सोऽपीषुः पत्रपुटवद्दग्ध्वा तन्नगरत्रयम्।
त्रिधा इव हुताशश्च सोमो नारायणस्तथा॥ ५३ ॥
शरतेजः परीतानि पुराणि द्विजपुङ्गवाः।!।
दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा॥ ५४ ॥
मेरुकैलासकल्पानि मन्दराग्रनिभानि च।
सकपाटगवाक्षाणि वलिभिः शोभितानि च॥ ५५ ॥
सप्रासादानि रम्याणि कूटागारोत्कटानि च।
सजलानिसमाख्यानि सावलोकनकानि च॥ ५६ ॥
बद्धध्वजपताकानि स्वर्णरौप्यमयानि च।
गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे॥ दह्यन्ते दहनाभानि दहनेन सहस्रशः॥ ५७ ॥
प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च।
वातायन गताश्चान्या चाकाशस्य तलेषु च॥ ५८ ॥
रमणैरुपगूढ़ाश्च रमन्त्यो रमणैः सह।
दद्यन्ते दानवेन्द्राणामग्निना ह्यपि ताः स्त्रियः॥ ५९ ॥
काचित् प्रियं परित्यज्य अशक्ता गन्तुमन्यतः।
पुरः प्रियस्य प़ञ्चत्वङ्गताग्नि वदनेक्षयम्॥ ६० ॥
उवाच शतपत्राक्षी सास्राक्षीव कृताञ्जलिः।
हव्यवाहन! भार्याहं परस्य परतापन!॥
धर्म्मसाक्षी त्रिलोकस्य न मां स्रष्टुमिहार्हसि॥ ६० ॥
शायितञ्च मया देव! शिवया च शिवप्रभ!।
परेण प्रैहि मुक्त्वेदं गृहञ्च दयितं हि मे॥ ६२ ॥
एका पुत्रमुपादाय बालकं दानवाङ्गना।
हुताशनसमीपस्था इत्युवाच हुताशनम्॥ ६३ ॥
बालोऽयं दुःखलब्धश्च मया पावक!पुत्रक।
नार्हस्येनमुपादातुं दयितं षण्मुखप्रिय!॥ ६४ ॥
काश्चित् प्रियान्परित्यज्य पीड़िता दानवाङ्गनाः।
निपतन्त्यर्णवजले शिञ्जमानविभूषणाः॥ ६५ ॥
तात पुत्रेति मातेति मातुलेति च विह्वलम्।
चकम्पुस्त्रिपुरेनार्यः पावकज्वालवेपिताः॥ ६६ ॥
यथा दहति शैलाग्निः साम्बुजं जलजाकरम्।
तथा स्त्रीवक्त्रपद्मानि चादहत्त्रिपुरेऽनलः॥ ६७ ॥
तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते।
तथैव सोऽग्निस्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि॥ ६८ ॥
शराग्निपातात् समभिद्रुतानां तत्राङ्गनानामतिकोमलानाम्।
बभूव काञ्चीगुणनूपुराणामाक्रन्दितानाञ्च रवोऽतिमिश्रः॥ ६९ ॥
दग्धार्द्धचन्द्राणि स वेदिकानि विशीर्णहर्म्याणि सतोरणानि।
दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे॥ ७० ॥
गृहः पतद्भिर्ज्वलनावलीढ़ेरासीत्‌समुद्रे सलिलं प्रतप्तम्।
कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य॥ ७० ॥
गृहप्रतापैः क्वथितं समन्तात्तदार्णवे तोयमुदीर्णवेगम्।
वित्रासयामास तिमीन् सनक्रां स्तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान्॥ ७२ ॥
सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सोऽथ।
तैरेव सार्द्धं भवनैः पपात शब्दं महान्तं जनयन् समुद्रे॥ ७३ ॥
सहस्रश्रृङ्गैर्भवनैर्यदासीत् सहस्रश्रृङ्गः स इवाचलेशः।
नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम्॥ ०३०.७४ ॥
प्रदह्यमानेन पुरेण तेन जगत्सपातालदिवं प्रतप्तम्।
दुःखं महत्प्राप्य जलावमग्नं यस्मिन् महान् सौधवरो मयस्य॥ ७५ ॥
तद्धेवेशोवचः श्रुत्वा इन्द्रो वज्रधरस्तदा।
शशाप तद्‌गृहञ्चापि मयस्यादितिनन्दनः॥ ७६ ॥
असेव्यमप्रतिष्ठञ्च भयेन च समावृतम्।
भविष्यति मयगृहं नित्यमेव यथाऽनलः॥ ७७ ॥
यस्य यस्य तु देशस्य भविष्यति पराभवः।
द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जना॥ तदेतदद्यापि गृहं मयस्यामयवर्जितम्॥ ७८ ॥
ऋषय ऊचुः।
भगवन्! स मयो येन गृहेण प्रपलायितः।
तस्य नो गतिमाख्याहि मयस्य चमसोद्भव॥ ७९ ॥
सूत उवाच।
द्रृश्यते द्रृश्यते यत्र ध्रुवस्तत्र मयास्पदम्।
देवद्विड् तु मयश्चातः स तदा खिन्नमानसः॥ ततश्च्युतोऽन्यलोकेऽस्मिंन् त्राणार्थं वै चकार सः॥ ८० ॥
तत्रापि देवताः सन्ति आप्तोर्यामाः सुरोत्तमाः।
तत्राशक्तं ततो गन्तुं तञ्चैकं पुरमुत्तमम्॥ ८० ॥
शिवः सृष्ट्वा गृहं प्रादान् मयञ्चैव गृहार्थिनम्।
विरराम सहस्राक्षः पूजयामास चेश्वरम्॥
पूज्यमानञ्च भूतेशं सर्वे तुष्टुवुरीश्वरम्॥ ८२ ॥
संपूज्यमानं त्रिदशैः समीक्ष्य गणैर्गणेशाधिपतिन्तु मुख्यम्।
हर्षाद्ववल्गुर्जहसुश्च देवा जग्मुर्ननर्दुस्तु विषाक्तहस्ताः॥ ८३ ॥
पितामहं वन्द्य ततो महेशं प्रगृह्य चापं प्रविसृज्य भूतान्।
रथाच्च सम्पत्य हरेषु दग्धं क्षिप्तं पुरं तन्मकरालये च॥ ८४ ॥
य इमं रुद्र विजयं पठते विजयावहम्।
विजयन्तस्य कृत्येषु ददाति वृषभध्वजः॥ ८५ ॥
पितृणां वापि श्राद्धेषु य इमं श्रावयिष्यति।
अनन्तं तस्य पुण्यं स्यात् सर्वयज्ञफलप्रदम्॥ ८६ ॥
इदं स्वस्त्ययनं पुण्यमिदं पुंसवनं सहत्।
इदं श्रुत्वा पठित्वा च यान्ति रुद्रसलोकताम्॥ ८७ ॥