मत्स्यपुराणम्/अध्यायः २७१
कलौ भाविनृपान्वयवर्णनम्।
ऋषय ऊचुः।
पूरोर्वंशस्त्वया सूत! सभविष्यो निवेदितः।
सूर्य वंशे नृपाये तु भविष्यन्ति हि तान् वद ।। २७१.१
तथैव यादवे वंशे राजानः कीर्तिवर्धनाः।
कलौ युगे भविष्यन्ति तानपीह वदस्व नः ।। २७१.२
वंशान्ते ज्ञातयो याश्च राज्यं प्राप्स्यन्ति सुव्रताः।
ब्रूहि संक्षेपतस्तासां यथा भाव्यमनुक्रमात् ।। २७१.३
सूत उवाच।
बृहद् बलस्य दायादो वीरो राजा ह्युरुक्षयः।
उरुक्षयसुतश्चापि वत्स द्रोहो महायशाः ।। २७१.४
वत्सद्रोहात् प्रतिव्योमस्तस्य पुत्रो दिवाकरः।
तस्यैव मध्यदेशे तु अयोध्या नगरी शुभा ।। २७१.५
दिवाकरस्य भविता सहदेवो महायशाः।
सहदेवाच्च भविता ध्रुवाश्वो वै महामनाः ।। २७१.६
तस्य भाव्यो महाभागः प्रतीपाश्वश्च तत्सुतः।
प्रतीपाश्वसुतश्चापि सुप्रतीपो भविष्यति ।। २७१.७
मरुदेवः सुतस्तस्य सुनक्षत्रस्ततोऽभवत्।
किन्नराश्वः सुनक्षत्राद् भविष्यति परन्तपः ।। २७१.८
किन्नराश्वादन्तरिक्षो भविष्यति महामनाः ।
सुषेणश्चान्तरिक्षाच्च सुमित्रश्चाप्यमित्रजित् ।। २७१.९
सुमित्रजो बृहद्राजः बृहद्राजस्य वीर्यवान् ।
पुत्र कृतञ्जयो नाम धार्मिकश्च भविष्यति ।। २७१.१०
कृतञ्जयसुतो विद्वान् भविष्यति रणे जयः।
भविता सञ्जयश्चापि वीरो राजा रणे जयात् ।। २७१.११
सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धौदनो नृपः।
शुद्धौदनस्य भविता सिद्धार्थः पुष्कलः सुतः ।। २७१.१२
प्रसेनजित् ततो भाव्यः क्षुद्रको भविता ततः।
क्षुद्रकात् कुलको भाव्यः कुलकात् सुरथः स्मृतः ।। २७१.१३
सुमित्रसुरथाज्जातो अन्यस्तु भविता नृपः।
एतेचैक्ष्वाकवः प्रोक्ता भविष्या ये कलौ युगे ।। २७१.१४
बृहद्वलान्ववाये तु भविष्याः कुलवर्द्धनाः।
अत्रानुवंशश्लोकोऽयं विप्रैर्गीतः पुरातनैः ।। २७१.१५
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।। २७१.१६
इत्येवं मानवो वंशः प्रागेव समुदाहृतः।
अत ऊर्ध्वं प्रवक्ष्यामि मागधा ये बृहद्रथाः ।। २७१.१७
पूर्वेण ये जरासन्धात् सहदेवान्वये नृपाः।
अतीता वर्त्तमानाश्च भविष्यांश्च निबोधत ।। २७१.१८
संग्रामे भारते वृत्ते सहदेवे निपातिते।
सोमाधिस्तस्य दायादो राजाऽभूत् सगिरिव्रजे ।। २७१.१९
पञ्चाशतं तताष्टौ च समा राज्यमकारयत्।
श्रुतश्रवाः चतुःषष्टिं समास्तस्यान्वयेऽभवत् ।। २७१.२०
अप्रतीपी च षट्त्रिंशत् समा राज्यमकारयत्।
चत्वारिंशत् समास्तस्य निरमित्रो दिवङ्गतः ।। २७१.२१
पञ्चाशतं समाः षट् च सुरक्षः प्राप्तवान् महीम्।
बृहत् कर्मा त्रयोविंशदब्दं राज्यमकारयत् ।। २७१.२२
सेनाजित् सम्प्रयातश्च भुक्त्वा पञ्चशतं महीम्।
श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद् भविष्यति ।। २७१.२३
अष्टाविंशति वर्षाणि महीं प्राप्स्यति वै विभुः।
अष्टपञ्चाशतं षट् च राज्ये स्थास्यति वै शुचिः ।। २७१.२४
अष्टाविंशत् समा राजा क्षेमो भोक्ष्यति वै महीम्।
अनुव्रतश्चतुःषष्टि राज्यं प्राप्स्यति वीर्यवान् ।। २७१.२५
पञ्चत्रिंशतिवर्षाणि सुनेत्रो भोक्ष्यते महीम्।
भोक्ष्यते निर्वृतिश्चेमामष्टपञ्चाशतं समाः ।। २७१.२६
अष्टाविंशत् समाराज्यं त्रिनेत्रो भोक्ष्यते ततः।
चत्वारिंशत्तथाष्टौ च द्युमत्सेनो भविष्यति ।। २७१.२७
त्रयस्त्रिंशत्तु वर्षाणि महीनेत्रः प्रकाश्यते।
द्वात्रिंशत्तु समा राजा ह्यचलस्तु भविष्यति ।। २७१.२८
रिपुञ्जयस्तु वर्षाणि पञ्चाशत् प्राप्स्यते महीम्।
द्वात्रिंशति नृपाह्येते भवितारो बृहद्रथाः ।। २७१.२९
पूर्णं वर्षसहस्रन्तु तेषां राज्यं भविष्यति।
जयतां क्षत्रियाणाञ्च बालकः पुलको भवेत् ।। २७१.३०