मत्स्यपुराणम्/अध्यायः १९
श्राद्धप्रकरणम्।
ऋषय ऊचुः।
कथं कव्यानि देयानि हव्यानि च जनैरिह।
गच्छन्ति पितृलोकस्थान् प्रापकः कोऽत्र गद्यते।। १९.१ ।।
यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदिवानले।
शुभाशुभात्मकैः प्रेतै र्दत्तं तद्भुज्यते कथम्।।१९.२ ।।
सूत उवाच।
वसून् वदन्ति च पितॄन् रुद्रांश्चैव पितामहान्।
प्रपितामहांस्तथादित्यानित्येवं वैदिकी श्रुतिः।। १९.३ ।।
नामगोत्रं पितॄणान्तु प्रापकं हव्य कव्ययोः।
श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः।। १९.४ ।।
अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः।
नाम गोत्र काल देशा भवान्तरगतानपि।। १९.५ ।।
प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान्।
देवो यदि पिता जातः शुभकर्म्मानुयोगतः।। १९.६ ।।
तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति।
दैत्यत्त्वे भोगरूपेण पशुत्त्वे च तृणं भवेत्।। १९.७ ।।
श्राद्धान्नं वायुरूपेण सर्पत्त्वेप्युपतिष्ठति।
पानं भवति यक्षत्वे गृध्रत्वेऽपि तथामिषम्।। १९.८ ।।
दनुजत्वे तथा माया प्रेतत्त्वे रुधिरोदकम्।
मनुष्यत्त्वेऽन्नपानानि नानाभोगरसं भवेत्।। १९.९ ।।
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजन शक्तिता।
दानशक्तिः सविभवा रूपसारोग्यमेव च।। १९.१० ।।
श्रद्धा पुष्पमिदं प्रोक्तं फलं बह्मसमागमः।
आयुः पत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च।। १९.११ ।।
राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम्।
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः।।
पञ्चभिर्जन्मसम्बन्धै र्गता विष्णोः परं पदम्।। १९.१२ ।।
इति श्रीमत्स्यपुराणे श्राद्धकल्पे फलानुगमनो नाम एकोनविंशोऽध्यायः।।