मत्स्यपुराणम्/अध्यायः २१०
सावित्र्युपाख्यानम्।
मत्स्य उवाच।
तस्य पाटयतः काष्ठं जज्ञे शिरसि वेदना।
स वेदनार्तः सङ्गम्य भार्या वचनमब्रवीत् ।। २१०.१ ।।
आयासेन ममानेन जाता शिरसि वेदना।
तमश्च प्रविशामीव न च जानामि किञ्चन ।। २१०.२ ।।
त्वदुत्सङ्गे शिरः कृत्वा स्वप्तुमिच्छामि सांप्रतम्।
राजपुत्रीमेवमुक्त्वा तदा सुष्वाप पार्थिवः ।। २१०.३ ।।
तदुत्सङ्गे शिरः कृत्वा निद्रयाविललोचनः।
पतिव्रता महाभागा ततः सा राजकन्यका ।। २१०.४ ।।
ददर्श धर्मराजं तु स्वयं तं देशमागतम्।
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ।। २१०.५ ।।
विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम्।
किरीटेनार्कवर्णेन कुण्डलैश्च विरजितम् ।। २१०.६ ।।
हारभारर्पितोरस्कं तथाङ्गद विभूषितम्।
तथानुगम्यमानं च कालेन सह मृत्युना ।। २१०.७ ।।
स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा।
अंगुष्ठमात्रं पुरुषं पाशबद्धं वशंगतम् ।। २१०.८ ।।
आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा।
सावित्र्यपि वरारोहा दृष्ट्वा तं गतजीवितम् ।। २१०.९ ।।
अनुवव्राज गच्छन्तन्धर्मराजमतन्द्रिता।
कृताञ्जलिरुवाचाथ हृदयेन प्रवेपता ।। २१०.१० ।।
इमं लोकं मातृभक्त्या पितृभक्त्यातु मध्यमम्।
गुरुं शुश्रूषया चैव ब्रह्मलोकं समश्नुते ।। २१०.११ ।।
सर्वे तस्यादृता धर्मा यस्यै ते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः।। २१०.१२ ।।
यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत्।
तेषां च नित्यं शुश्रूषां कुर्यात् प्रिय हिते रतः ।। २१०.१३ ।।
तेषामनुपरोधेन पारतन्त्र्यं यदाऽऽचरेत्।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः।
त्रिष्वप्येतेषु कृत्यं हि पुरुषस्य समस्यते ।। २१०.१४ ।।
यम उवाच।
कृतेन कामेन निवर्त्तयाशु धर्मा न तेभ्योऽपि हि उच्यते च।
ममोपरोधस्तव चक्लमः स्यात्तथाऽधुना तेन तव ब्रवीमि ।। २१०.१५ ।।
गुरुपूजरतिर्भक्ता त्वञ्च साध्वी पतिव्रता।
विनिवर्तस्व धर्मज्ञे! ग्लानिर्भवति तेऽधुना ।। २१०.१६ ।।
सावित्र्युवाच।
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम्।
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ।। २१०.१७ ।।
मितन्ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य च दातारं भर्त्तारं का न पूजयेत् ।। २१०.१८ ।।
नीयते यत्र भर्त्ता मे स्वयं वा यत्र गच्छति।
मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम! ।। २१०.१९ ।।
पतिमादाय गच्छन्तमनुगन्तुमहं यदा।
त्वां देव! न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ।। २१०.२० ।।
मनस्विनी तु या काचित् वैधव्याक्षरदूषिता।
मुहूर्त्तमपि जीवेत मण्डनार्हा ह्यमण्डिता ।। २१०.२१ ।।
यम उवाच
पतिव्रते! महाभागे! परितुष्टोऽस्मि ते शुभे!।
विना सत्यव्रतः प्राणैर्वरं वरय माचिरम् ।। २१०.२२ ।।
सावित्र्युवाच।
विनष्टचक्षुषो राज्यं चक्षुषा सह कारय।
च्युतराष्ट्रस्य धर्मज्ञ! श्वशुरस्य महात्मनः ।। २१०.२३ ।।
यम उवाच।
दूरे पथे गच्छ निवर्त भद्रे! भविष्यतीदं सकलं त्वयोक्तम्।
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ।। २१०.२४ ।।