मत्स्यपुराणम्/अध्यायः २५१
क्षीरोदमथनवर्णनम्।
सूत उवाच।
मथ्यमाने पुनस्तस्मिन् जलधौ समदृश्यत।
धन्वन्तरिः स भगवान् आयुर्वेदप्रजापतिः ।। २५१.१।।
मदिरा चायताक्षी सा लोकचित्तप्रमाथिनी।
ततोऽमृतञ्च सुरभिः सर्वभूतभयापहा ।। २५१.२।।
जग्राह कमलां विष्णुः कौस्तुभञ्च महामणिम्।
गजेन्द्रञ्च सहस्राक्षो हयरत्नञ्च भास्करः ।। २५१.३।।
धन्वन्तरिञ्च जग्राह लोकारोग्यप्रवर्तकम्।
च्छत्रं जग्राह वरुणः कुण्डले च शचीपतिः ।। २५१.४।।
पारिजाततरुं वायुर्जग्राह मुदितस्तथा।
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।। २५१.५।।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।। २५१.६।।
अमृतार्थे महानादो ममेदमिति जल्पताम्।
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः ।। २५१.७।।
स्त्रीरूपमतुलं कृत्वा दानवानभिसंसृतः।
ततस्तदमृतं तस्यै ददुस्ते मूढचेतनाः।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ।। २५१.८।।
अथास्त्राणि च मुख्यानि महाप्रहरणानि च।
प्रगृह्याभ्यद्रवन्देवान् सहिता दैत्यदानवाः ।। २५१.९।।
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ।। २५१.१०।।
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
विष्णोः सकाशात् संप्राप्य संग्रामे तुमुले सति ।। २५१.११।।
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्।
राहुर्विबुधरूपेण दानवोऽप्यपिबत्तदा ।। २५१.१२।।
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ।। २५१.१३।।
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ।। २५१.१४।।
तच्छैलश्रृङ्गप्रतिमं दानवस्य शिरो महत्।
चक्रेणोत्कृत्तमपतच्चालयन् वसुधातलम् ।। २५१.१५।।
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
शाश्वतश्चन्द्रसूर्याभ्यां प्रसह्याद्यापि बाधते ।। २५१.१६।।
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
नाना प्रहरणैर्भीमैर्दानवान् समकम्पयत् ।। २५१.१७।।
प्रासाः सुविपुलास्तीक्ष्णाः पतन्तश्च सहस्रशः।
ते सुराश्चक्रनिर्भिन्ना वमन्तो रुधिरं बहु ।। २५१.१८।।
अरिशक्तिगदाभिन्ना निपेतुर्धरणीतले।
भिन्नानि पट्टिशश्चापि शिरांसि युधिदारुणैः ।। २५१.१९।।
तप्तकाञ्चनमाल्यानि निपेतुरनिशन्तदा।
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः ।। २५१.२०।।
अद्रिणामिव कूटानि धातुरक्तानि शेरते।
ततो हलहलाशब्दः सम्बभूव समन्ततः ।। २५१.२१।।
अन्योऽन्यं च्छिन्दतां शस्त्रैरादित्ये लोहितायति।
परिघैश्चायसैः पीतैः सन्निकर्षैश्च मुष्टिभिः ।। २५१.२२।।
निघ्नतां समरेऽन्योऽन्यं शब्दो दिवमिवास्पृशत्।
च्छिन्धि भिन्धि प्रधावेति पातयेभिसरेति वै ।। २५१.२३।।
विश्रूयन्ते महाघोराः शब्दास्तत्र समन्ततः।
एवं सुतुमुले युद्धे वर्तमाने महाभये ।। २५१.२४।।
नरानारायणौ देवौ समाजग्मतुराहवम्।
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।।
चिन्तयामास वै चक्रं विष्णुर्दानवसत्तमान् ।। २५१.२५।।
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रनाशनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममसह्यमुत्तमम् ।। २५१.२६।।
तदागतं ज्वलितहुताशनप्रभं भयङ्करं करिकरबाहुरच्युतः ।
महाप्रभं दनुकुलदैत्यदारणं तथोज्वलज्ज्वलनसमानविग्रहम् ।। २५१.२७।।
मुमोच वै तपनमुदप्रवेगवान् महाप्रभं रिपुनगरावदारणम्।
सम्वर्त्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा ।। २५१.२८।।
व्यदारयद्दितितनयान् सहस्रशः करेरितं पुरुषवरेण संयुगे।
दहत् क्वचिज्ज्वलन् इवानिलेरितं प्रसह्य तानसुरगणान्नकृन्तत ।। २५१.२९।।
प्रवेरितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमयः पिशाचवत्।
अथासुरा गिरिभिरदीनमानसा मुहुर्मुहुः सुरगणमर्दयंस्तथा ।। २५१.३०।।
महाचला विगलितमेघवर्चसः सहस्रशो गगनमहाप्रपातिनः।
अथान्तराभरजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ।। २५१.३१।।
महाद्रयः प्रविगलिताग्रसानवः परस्परं द्रुतमभिपत्य भास्वराः ।
ततो मही प्रचलितसाद्रिकानाना महीधराः पवनहताः समन्ततः ।। २५१.३२।।
परस्परं भृशमभिगर्जितं मुहू रणाजिरे भृशमभि सम्प्रवर्त्तते।
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिः पवनपथं समावृणोत् ।। २५१.३३।।
विदारयन् गिरिशिखराणि पत्रिभिर्महाभये सुरगणविग्रहे तदा।
ततो महीं लवणजलञ्च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ।। २५१.३४।।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च।
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ।। २५१.३५।।
विनादयन् स्वदिशमुपेत्य सर्वशस्ततो गताः सलिलधरा यथा गतम्।
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।
ददुश्च तं निघिममृतस्य रक्षितुं किरीटिने बलिभिरथामरैः सह ।। २५१.३६।।