मत्स्यपुराणम्/अध्यायः २१७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







राजकृत्यवर्णनम्।
मत्स्य उवाच।
राजा सहायसंयुक्तः प्रभूत यवसेन्धनम्।
रम्यमानतसामन्तं मध्यमन्देशमावसेत् ।। २१७.१ ।।

वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः।
किञ्चिद् ब्राह्मणसंयुक्तं बहुकर्मकरन्तथा ।। २१७.२ ।।

अदैवमातृकं रम्यमनुरक्तजनान्वितम्।
करैरापीडितञ्चापि बहुपुष्पफलं तथा ।। २१७.३ ।।

अगम्यं परचक्राणां तद्वासगृहमापदि।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ।। २१७.४ ।।

सरीसृपविहीनञ्च व्याघ्रतस्करवर्जितम्।
एवं विधं यथालाभं राजा विषयमावसेत् ।। २१७.५ ।।

तत्र दुर्गं नृपः कुर्यात् षण्णामेकतमं बुधः।
धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च ।। २१७.६ ।।

वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव!।
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ।। २१७.७ ।।

दुर्गंच परिखोपेतं वप्राट्टालकसंयुतम्।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ।। २१७.८ ।।

गोपुरं सकपाटञ्च तत्र स्यात्सुमनोहरम्।
सपताकं गजारूढो येन राजा विशेत्पुरम् ।। २१७.९ ।।

चतस्रश्च तथा तत्र कार्यस्त्वायतवीथयः।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ।। २१७.१० ।।

वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते।
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ।। २१७.११ ।।

चतुर्थेत्वथ वीथ्यग्रे गोपुरञ्च विधीयते।
आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम् ।। २१७.१२ ।।

मुक्तिहीनं त्रिकोणञ्च यवमध्यं तथैव च।
आयतञ्चतुरस्रं वा वृत्तं वा कारयेत्पुरम्।। २१७.१३ ।।

अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वसन्।
अन्यत्तत्र न कर्तव्यं प्रयत्नेन विजानता ।। २१७.१४ ।।

राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ।। २१७.१५ ।।

गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी।
आग्नेये च तथा भागे आयुधागारमिष्यते ।। २१७.१६ ।।

महानसश्च धर्मज्ञ! कर्मशालास्तथापराः।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ।। २१७.१७ ।।

मन्त्रिवेदविदाञ्चैव चिकित्साकर्त्तुरेव च।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ।। २१७.१८ ।।

गवां स्थानं तथैवात्र तुरगाणां तथैव च।
उत्तराभिमुखा श्रेणी तुरगाणां विधीयते ।। २१७.१९ ।।

दक्षिणाभिमुखा वाथ परिशिष्टस्तु गर्हिताः।
तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः ।। २१७.२० ।।

कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः।
धारयेदश्वशालासु सवत्सां धेनुमेव च ।। २१७.२१ ।।

अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा।
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः।। २१७.२२ ।।

अस्तंगते न कर्तव्यो देवदेवे दिवाकरे।
तत्र तत्र यथास्थानं राजा विज्ञाय सारथीन् ।। २१७.२३ ।।

दद्यादावसथस्थानं सर्वेषामनुपूर्वशः।
योधानां शिल्पिनाञ्चैव सर्वेषमविशेषतः ।। २१७.२४ ।।

दद्यादावसथान् दुर्गे कालमन्त्रविदां शुभान्।
गौर्वैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ।। २१७.२५ ।।

आहरेत भृशं राजा दुर्गे हि प्रबला रुचः।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ।। २१७.२६ ।।

न बहूनामतो दुर्गे विना कार्यं तथा भवेत्।
दुर्गे च तत्र कर्तव्या नाना प्रहरणान्विताः ।। २१७.२७ ।।

सहस्रघातिनो राजंस्तैस्तु रक्षा विधीयते।
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभृजा ।। २१७.२८ ।।

सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते।
धनुषां क्षेपणीयानान्तोमराणां च पार्थिवः ।। २१७.२९ ।।

शरणामथ खड्गानां कवचानां तथैव च।
लगुडानां गुड़ानाञ्च हुडानां परिघैः सह ।। २१७.३० ।।

अश्मनाञ्च प्रभूतानां मुद्गराणां तथैव च।
त्रिशूलानां पट्टिशानां कुठाराणाञ्च पार्थिव ।। २१७.३१ ।।

प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तमः।
परश्वधानां चक्राणां वर्मणाञ्चर्मभिः सह ।। २१७.३२ ।।

कुद्दालक्षुरवेत्राणां पीठकानान्तथैव च।
तुषाणाञ्चैव दात्राणामङ्गाराणाञ्च सञ्चयः ।। २१७.३३ ।।

सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र चेष्यते।
वादित्राणाञ्च सर्वेषामौषधीनान्तथैव च ।। २१७.३४ ।।

यवसानां प्रभूतानामिन्धनस्य च सञ्चयः।
गुड़स्य सर्वतैलानां गोरसानान्तथैव च।। २१७.३५ ।।

वसानामथ मज्जानां स्नायूनामस्थिभिः सह।
गोचर्मपटहानाञ्च धान्यानां सर्वतस्तथा ।। २१७.३६ ।।

तथैवाभ्र पटानाञ्च यव गोधूमयोरपि।
रत्नानां सर्ववस्त्राणां लोहानामप्यशेषतः ।। २१७.३७ ।।

कलापमुद्गमाषाणाञ्चणकानान्तिलैः सह।
तथा च सर्वशस्यानां पांशुगोमययोरपि ।। २१७.३८ ।।

शणसर्जरसं भूर्जं जतुलाक्षा च टङ्कणम्।
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ।। २१७.३९ ।।

कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा।
मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ।। २१७.४० ।।

स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक्।
कर्तव्यानि महाभाग! यत्नेन पृथिवीक्षिता ।। २१७.४१ ।।

उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः।
सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ।। २१७.४२ ।।

जीवकर्षभकाकोलमामलक्याटरूषकान्।
शालपर्णी पृष्ठिपर्णी मुद्गपर्णी तथैव च ।। २१७.४३ ।।

माषपर्णी च मदद्वैसारि वेद्वेबलात्रयम्।
वारा श्वसन्ती वृष्या च बृहती कण्टकारिका ।। २१७.४४ ।।

शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्दर्भरेणुका।
मधुपर्णी विदार्ये द्वे महाक्षीरा महातपाः ।। २१७.४५ ।।

धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः।
पर्णी शताह्वा मृद्वीका फल्गु खर्जरयष्टिकाः ।। २१७.४६ ।।

शुक्रातिशुक्रकाश्मर्यञ्छत्रातिच्छत्रवीरणाः।
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ।। २१७.४७ ।।

सिंही च सहदेवी च विश्वेदेवाश्वरोधकम्।
मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका ।। २१७.४८ ।।

शतावरी मधूके च पिप्पलन्तालमेव च।
आत्मगुप्ता कट्फलाख्या दार्विका राजशीर्षकी ।। २१७.४९ ।।

राजसर्षपधान्याकमृष्यप्रोक्ता तथोत्कटा।
कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ।। २१७.५० ।।

शीतपाकी कुवेराक्षी काकजिह्वोरुपुष्पिका।
पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे ।। २१७.५१ ।।

कसेरु कारुकाश्मीरी बल्या शालूक केसरम्।
तुषधान्यानि सर्वाणि शमी धान्यानि चैव हि ।। २१७.५२ ।।

क्षीरं क्षौद्रन्तथा तक्रं तैलं मज्जा वसा घृतम्।
नीपश्चारिष्टकाक्षोड़ वाताम सोम बाणकम् ।। २१७.५३ ।।

एवमादीनि चान्यानि विज्ञेयो मधुरो गणः।
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ।। २१७.५४ ।।

दाड़िमाम्रातकौ चैव तिन्तिड़ीकाम्लवेतसम्।
भव्यकर्कन्धुलकुचकरमर्द्दकरूषकम् ।। २१७.५५ ।।

बीजपूरककण्डूरे मालतीराजबन्धुकम्।
कोलकद्वयपर्णानि द्वयोराम्नातयोरपि ।। २१७.५६ ।।

पारावतं नागरकं प्राचीनोलकमेव च।
कपित्थामलकं चुक्र फलन्दन्तशठस्य च ।। २१७.५७ ।।

जाम्बवं नवनीतञ्च सौवीर करुषोदके।
सुरासवञ्च मद्यानि मण्ड तक्रदधीनि च ।। २१७.५८ ।।

शुक्लानि चैव सर्वाणि ज्ञेयमाम्लगणं द्विज।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ।। २१७.५९ ।।

सैन्धवोद्भिदपाठेय पाक्यसामुद्रलोमकम्।
कुप्य-सौवर्चलविड़ बालकेयं यवाह्वकम् ।। २१७.६० ।।

और्वं क्षारं कालभस्म विज्ञेयो लवणोगणः।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ।। २१७.६१ ।।

पिप्पली पिप्पलीमूल चव्यचित्रकनागरम्।
कुबेरकं मरिचकं शिग्रुभल्लातसर्षपाः ।। २१७.६२ ।।

कुष्ठाज मोदाकिणि-हीहिङ्गु मूलकधान्यकम्।
कारवी कुञ्जिका याज्या सुमुखा कालमालिका ।। २१७.६३ ।।

फणिज्जकोथ लशुनं भूस्तृणां सुरसन्तथा।
कायस्था च वयस्था च हरितालं मनः शिला ।। २१७.६४ ।।

अमृता च रुदन्ती च रोहिषं कुङ्कुमन्तथा।
जया एरण्डकाण्डीरं सल्लकीहञ्जिका तथा ।। २१७.६५ ।।

सर्वपित्तानि मूत्राणि प्रायो हरितकानि च।
फलानि चैव हि तथा सूक्ष्मैला हिङ्गुपट्टिका ।। २१७.६६ ।।

एवमादीनि चान्यानि गणः कटुकसंज्ञितः।
राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम! ।। २१७.६७ ।।

मुस्तञ्चन्दन ह्री वेर कृतमालकदारवः।
दरिद्रानलदोशीर नक्तमालकदम्बकम् ।। २१७.६८ ।।

दूर्वा पटोलकटुका दीर्घत्वक् पत्रकं वचा।
किराततिक्त भूतुम्वी विषा चातिविषा तथा ।। २१७.६९ ।।

तालीसपत्रतगरं सप्तपर्णविकङ्कताः।
काकोदुम्वरिका दिव्या तथा चैव सुरोद्भवा ।। २१७.७० ।।

षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका।
रसाञ्जनं भृङ्गराजं पतङ्गी परिपेलवम् ।। २१७.७१ ।।

दुःस्पर्शा गुरुणी कामा श्यामाकं गन्धनाकुली।
रूपपर्णी व्याघ्रनखं मञ्जिष्ठा चतुरङ्गुला ।। २१७.७२ ।।

रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका।
वेत्राग्र वेतसस्तुम्बी विषाणी लोध्रपुष्पिणी ।। २१७.७३ ।।

मालतीकरकृष्णाख्या वृश्चिका जीविता तथा।
पर्णिका च गुड़ूची च सगणस्तिक्त संज्ञकः ।। २१७.७४ ।।

एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे।
अभयामलके चोभे तथैव च बिभीतकम् ।। २१७.७५ ।।

प्रियङ्गुधातकी पुष्पं मोचाख्या चार्जुनासनाः।
अनन्ता स्त्रीतुवरिका स्योनाङ्कट् फलन्तथा ।। २१७.७६ ।।

भूर्जपत्रं शिलापत्रं पाटलापत्र-लोमकम्।
समङ्गात्रिवृतामूलकार्पास-गैरिकाञ्जनम् ।। २१७.७७ ।।

विद्रुमं स मधूच्छिष्टं कुम्भिकाकुमुदोत्पलम्।
न्यग्रोधोदुम्बराश्वत्थ किंशुकाः शिंशुपा शमी ।। २१७.७८ ।।

प्रियालपीलुकासारि शिरीषाः पद्मकन्तथा।
बिल्वोऽग्निमन्थः प्लक्षञ्च श्यामाकश्च वको घनम् ।। २१७.७९ ।।

राजादनं करीरञ्च धान्यकं प्रियकस्तथा।
कङ्कोला-शोक-बदराः कदम्बखदिरद्वयम् ।। २१७.८० ।।

एषां पत्राणि साराणि मूलानि कुसुमानि च।
एवमादीनि चान्यानि कषायाख्यो मतो रसः ।। २१७.८१ ।।

प्रयत्नेन नृपश्रेष्ठ! राजा सञ्चिनुयात्पुरे।
कीटाश्च मारणे योग्या व्यङ्गतायां तथैव च ।। २१७.८२ ।।

वातधूमाश्च मार्गाणां दूषणानि तथैव व।
धार्याणि पाथिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ।। २१७.८३ ।।

विषाणां धारणं कार्यं प्रयत्नेन महीभुजा।
विचित्राश्चाङ्गदा धार्या विषस्य शमनास्तथा ।। २१७.८४ ।।

रक्षोभूतः पिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः।
कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ।। २१७.८५ ।।

भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान्।
कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे ।। २१७.८६ ।।

यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम्।
वणिग्जनैश्च वृतमावसेत दुर्गं सुगुप्तं नृपतिः सदैव ।। २१७.८७ ।।