मत्स्यपुराणम्/अध्यायः २४३
यात्रासमये मङ्गलामङ्गलासूचकशकुनवर्णनम्।
मनुरुवाच।
गमनं प्रति राज्ञान्तु संमुखादर्शने च किम्।
प्रशस्तांश्चैव सम्भाष्य सर्वानेतांश्च कीर्तय ।। २४३.१ ।।
मत्स्य उवाच।
औषधानि त्वयुक्तानि धान्यं कृष्णञ्च यद् भवेत्।
कार्पासश्चतृणं राजन्! शुष्कं गोमयमेव च ।। २४३.२ ।।
इन्धनञ्च तथाङ्गारं गुड़ं तैलं तथा शुभम्।
अभ्यक्तं मलिनं मुण्डन्ततानग्नञ्च मानवम्।। २४३.३ ।।
मुक्तकेशं रुजार्तञ्च काषायाम्बरधारिणम्।
उन्मत्तकन्तथा सत्वं दीनञ्चाथ नपुंसकम् ।। २४३.४ ।।
अयः पङ्कस्तथा चर्म केशबन्धनमेव च।
तथैवोद्धृतसाराणि पिण्याकादीनी यानि च ।। २४३.५ ।।
चण्डाल श्वपचाश्चैव राजबन्धनपालकाः।
वधकाः पापकर्माणो गर्भिणी स्त्री तथैव च ।। २४३.६ ।।
तुष भस्म कपालास्थि भिन्नभाण्डानि यानि च।
रक्तानि चैव भाण्डानि मृतं शार्ङ्गिकमेव च ।। २४३.७ ।।
एवमादीनि चान्यानि अशस्तान्यभिदर्शने।
अशस्तो वाह्यशब्दश्च भिन्नभैरवजर्जरः ।। २४३.८ ।।
पुरतः शब्द एहीति शस्यते न तु पृष्ठतः।
गच्छेति पश्चात् धर्मज्ञो! पुरस्तात्तु विगर्हितः ।। २४३.९ ।।
क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य तु।
अन्ये शब्दाश्च ये निष्ठाः ते विपत्तिकरा अपि ।। २४३.१० ।।
ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम्।
स्खलनं वाहनानाञ्च वस्त्रसङ्गस्तथैव च ।। २४३.११ ।।
निर्गतस्य तु द्वारादौ शिरसश्चाभिघातिता।
छत्रध्वजानां वस्त्राणां पतनञ्च तथा शुभम् ।। २४३.१२ ।।
दृष्टे निमित्ते प्रथमममङ्गल्यविनाशनम्।
केशवं पूजयेद्विद्वान् स्तवेन मधुसूदनम् ।। २४३.१३ ।।
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद् गृहम्।
अथेष्टानि प्रवक्ष्यामि मङ्गल्यानि तथाऽनघ! ।। २४३.१४ ।।
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च।
जलजाः पक्षिणश्चैव मांसं मत्स्याश्च पर्थिव! ।। २४३.१५ ।।
गवस्तुरङ्गमा नागा बद्ध एकः पशुस्त्वजः।
त्रिदेशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ।। २४३.१६ ।।
पणिका च महाभाग! दूर्वा चार्द्रञ्च गोमयम्।
रुक्मरूप्यन्तथा ताम्रं सर्वरत्नानि चाप्यथ ।। २४३.१७ ।।
औषधानिव धर्मज्ञ! यवाः सिद्धार्थकास्तथा।
नृवाह्यमानं यानञ्च भद्रपीठन्तथैव च ।। २४३.१८ ।।
खङ्गं चक्रं पताका च मृदश्चायुधमेव च।
राजलिङ्गानि सर्वाणि सर्वे रुदितवर्जिताः ।। २४३.१९ ।।
घृतं दधि पयश्चैव फलानिविविधानि च।
स्वस्तिकं वर्द्धमानञ्च नन्द्यावर्तं सकौस्तुभम् ।। २४३.२० ।।
वादित्राणां सुखः शब्दः गम्भीरः सुमनोहरः।
गान्धारषड्जऋषभा ये च शस्तास्तथा खराः ।। २४३.२१ ।।
वायुः सशर्करोरुक्षः सर्वत्र समुपस्थितः।
प्रतिलोमस्तथा नीचो विज्ञेयोभयकृद्द्विज!।। २४३.२२ ।।
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः।
रुक्षा रूक्ष स्वराभद्राः क्रव्यादाः परिगच्छताम् ।। २४३.२३ ।।
मेधाः शस्ताघनाः स्निग्धा गजबृंहितसन्निभाः।
अनुलोमास्तड़िच्छन्नाः शक्रचापन्तथैव च ।। २४३.२४ ।।
अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे।
अनुलोमा ग्रहाः शस्ता वाक्पतिस्तु विशेषतः ।। २४३.२५ ।।
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम्।
शस्तान्येतानि धर्मज्ञ! यश्च स्यान्मनसः प्रियम् ।। २४३.२६ ।।
मनसस्तुष्टिरेवात्र परमं जयलक्षणम्।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ।। २४३.२७ ।।
मनोत्सुकत्वं मनसः प्रहर्षः शुभस्य लाभो विजयप्रवादः।
मङ्गल्यलब्धिः श्रवणञ्च राजन्! ज्ञेयानि नित्यं विजयावहानि ।। २४३.२८ ।।