सामग्री पर जाएँ

मत्स्यपुराणम्/अध्यायः १९३

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।

मार्कण्डेय उवाच।
ततस्त्वनरकं गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र नरकञ्च न पश्यति।। १९३.१

तस्य तीर्थस्य माहात्म्यं श्रृणु त्वं पाण्डुनन्दन!।
तस्मिंस्तीर्थे तु राजेन्द्र! यस्यास्थीनि विनिक्षिपेत् ।। १९३.२

विलयं यान्ति सर्वाणि रूपवान् जायते नरः।
गोतीर्थन्तु ततो गत्वा सर्वपापात् प्रमुच्यते ।। १९३.३

ततो गच्छेत्तु राजेन्द्र कपिलातीर्थमुत्तमम्।
तत्र गत्वा नरो राजन्! गोसहस्रफलं लभेत् ।। १९३.४

ज्यैष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः।
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ।। १९३.५

घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम्।
सघृतं श्रीफलं जग्ध्वा दत्त्वा चान्ते प्रदक्षिणम् ।। १९३.६

घण्टाभरणसंयुक्तां कपिलां यः प्रयच्छति।
शिवतुल्यबलो भूत्वा नैवासौ जायते पुनः ।। १९३.७

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः।
पूजयेत्तु शिवं भक्त्या ब्राह्मणेभ्यश्च भोजनम् ।। १९३.८

अङ्गारकनवम्यां तु अमायाञ्च विशेषतः।
स्नापयेत्तत्र यत्नेन रूपवान् सुभगो भवेत् ।। १३३.९

घृतेन स्नापयेल्लिङ्गं पूजयेद् भक्तितो द्विजान्।
पुष्पकेण विमानेन सहस्रैः परिवारितः ।। १९३.१०

शैवं पदमवाप्नोति यत्र चाभिमतं भवेत्।
अक्षयं मोदते कालं यथा रुद्रस्तथैव सः ।। १९३.११

यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः।
राजा भवति धर्मिष्ठो रूपवान् जायते कुले ।। १९३.१२

ततो गच्छेच्च राजेन्द्र! ऋषितीर्थमनुत्तमम्।
तृणबिन्दुर्नाम ऋषिः पापदग्धो व्यवस्थितः ।। १९३.१३

तत्तीर्थस्य प्रभावेण शापमुक्तोऽभवद्द्विजः।
तथा गच्छेत्तु राजेन्द्र! गङ्गेश्वरमनुत्तमम् ।। १९३.१४

श्रावणे तर्पणं कृत्वा मुच्यते च ऋणत्रयात्।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।। १९३.१५

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात्।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।। १९३.१६

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ।। १९३.१७

तत्र तीर्थे नरः स्नात्वा व्रजेद्वै यत्र शङ्करः।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।। १९८.१८

पितॄणां तर्पणं कृत्वा ह्यश्वमेधफलं लभेत्।
प्रयागे यत् फलं दृष्टं शङ्करेण महात्मना ।। १९३.१९

तदेव निखिलं दृष्टं गङ्गावदनसङ्गमे।
तस्यैव पश्चिमे स्थाने समीपे नातिदूरतः ।। १९३.२०

दशाश्वमेधजननं त्रिषु लोकेषु विश्रुतम्।
उपोष्य रजनीमेकां मासि भाद्रपदे तथा ।। १९३.२१

अमायाञ्च नरः स्नात्वा व्रजते यत्र शङ्करः।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।। १९३.२२

पितॄणां तर्पणं कृत्वा चाश्वमेधफलं लभेत्।
दशाश्वमेधात् पश्चिमतो भृगुर्ब्राह्मणसत्तमः ।। १९३.२३

दिव्यं वर्षसहस्रन्तु ईस्वरं पर्युपासत।
वल्मीकवेष्टितश्चासौ पक्षिणाञ्च निकेतनः ।। १९३.२४

आश्चर्यं सुमहज्जातमुमायाः शङ्करस्य च।
गौरी पप्रच्छ देवेशं कोऽयमेवन्तु संस्थिता(तः) ।। १९३.२५

देवो वा दानवो वाथ कथयस्व महेश्वर!।
महेश्वर उवाच।
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ।। १९३.२६

मान्ध्यायते समाधिस्थो वरं प्रार्थयते प्रिये!।
ततः प्रहसिता देवी ईश्वरं प्रत्यभाषत।। १९३.२७

धूमवत्तच्छिखाजाता ततोऽद्यापि न तुष्यसे।
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा ।। १९३.२८

महेश्वर उवाच।
न जानासि महादेवि ह्ययं क्रोधेन वेष्टितः।
दर्शयामि यथातथ्यं प्रत्ययं ते करोम्यहम् ।। १९३.२९

ततः स्मृतोऽथ देवेन धर्म्मरूपो वृषस्तदा।
स्मरणात्तस्य देवस्य वृषः शीघ्रमुपस्थितः ।। १९३.३०

वदंस्तु मानुषीं वाचमादेशो दीयतां प्रभो!।
वल्मीकं त्वं खनस्वैनं विप्रं भूमौ निपातय ।। १९३.३१

योगस्थस्तु ततो ध्यायन् भृगुस्तेन निपातितः।
तत्क्षणात् क्रोधसन्तप्तो हस्तमुत्क्षिप्य सोऽशपत् ।। १९३.३२

एवं स भाषमाणस्तु कुत्र गच्छसि भो वृष!।
अद्याहं संप्रकोपेन प्रलयं त्वान्नये वृष! ।। १९३.३३

धर्षितस्तु तदा विप्रश्चान्तरिक्षङ्गतो वृषम्।
आकाशे प्रेक्षते विप्र एतदद्भुतमुत्तमम् ।। १९३.३४

तत्र प्रहसिते रुद्र ऋषिरग्रे व्यवस्थितः।
तृतीयलोचनं दृष्ट्वा वैलक्ष्यात् पतितो भुवि ।। १९३.३५

प्रणम्य दण्डवद् भूमौ तुष्टाव परमेश्वरम्।
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम्
भवातीतो भुवनपते प्रभो! तु विज्ञापये किञ्चित् ।। १९३.३६

त्वद्गुणनिकरान् वक्तुं कः शक्तो भवति मानुषो नाम।
वासुकिरपि हि कदाचिद्वदनसहस्रं भवेद्यस्य ।। १९३.३७

भक्त्या तथापि शङ्कर भुवनपते! त्वत्सुतो मुखरः।
वदतः क्षमस्व भगवन्! प्रसीद मे तव चरणपतितस्य ।। १९३.३८

सत्वं रजस्तमस्त्वं स्थित्युत्पत्योर्विनाशने देव!।
त्वां मुक्त्वा भुवनपते! भुवनेश्वर नैव दैवतं किञ्चित् ।। १९३.३९

यमनियमयज्ञदानवेदाभ्यासाश्च धारणा योगः।
त्वद्भक्तेः सर्वमिदं नार्हति हि कलासहस्रांशम् ।। १९३.४०

उच्छिष्टरसरसायनखड्गाजनपादुका विवरसिद्धिर्वा।
चिह्नं भवव्रतानां दृश्यति चेह जन्मनि प्रकटम् ।। १९३.४१

शाठ्येन नमति यद्यपि ददासि त्वं भूतिमिच्छतो देव!।
भक्तिर्भवभेदकरी मोक्षाय विनिर्मिता नाथ ।। १९३.४२

परदारपरस्वरतं परपरिभवदुःखशोकसन्तप्तम्।
परवदनवीक्षणपरं परमेश्वर!। मां परित्राहि ।। १९३.४३

मिथ्याभिमानदग्धं क्षणभङ्गुरविभवविलसन्तम्।
क्रूरं कुपथ्याभिमुखं पतितं मां पाहि देवेश! ।। १९३.४४

दीने द्विजगणसार्थे बन्धुजनेनैव दूषिता ह्याशा।
तृष्णा तथाऽपि शङ्कर! किं मूढ़ं मां विडम्बयति ।। १९३.४५

तृष्णा हरस्व शीघ्रं लक्ष्मीं प्रदस्व यावदासिनीं नित्यम्।
छिन्धि मदमोहपाशानुत्तारय मां महादेव! ।। १९३.४६

करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम्।
यः पठति भक्तियुक्तस्तस्य तुष्येत् भृगोर्यथा च शिवः ।। १९३.४७

ईश्वर उवाच।
अहं तुष्टोऽस्मि ते वत्स! प्रार्थयस्वेप्सितं वरम्।
उमया सहितो देवो वरं तस्य ह्यदापयत् ।। १९३.४८

भृगुरुवाच।
यदि तुष्टोसि देवेश! यदि देयो वरो मम।
रुद्रवेदी भवेदेवमेतत्सम्पादयस्व मे ।। १९३.४९

ईश्वर उवाच।
एवं भवतु विप्रेन्द्र! क्रोधस्त्वा न भविष्यति।
न पितापुत्रयोश्चैव त्वैकमत्यं भविष्यति ।। १९३.५०

तदा प्रभृति ब्रह्माद्या सर्वदेवाः सकिन्नराः।
उपासन्ते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ।। १९३.५१

दर्शनात्तस्य तीर्थस्य सद्यः पापत् प्रमुच्यते।
अवशाः स्ववशा वापि म्रियन्ते यत्र मानवाः ।। १९३.५२

गुह्यातिगुह्यासु गतिस्तेषां निःसंशयं भवेत्।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ।। १९३.५३

तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः।
उपानहौच छत्रञ्च देवमन्नञ्च काञ्चनम् ।। १९३.५४

भोजनञ्च यथाशक्त्या ह्यक्षयञ्च तथा भवेत्।
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ।। १९३.५५

दीयमानस्तु तद्दानमक्षयं तस्य तद् भवेत्।
चन्द्रसूर्योपरागेषु यत् फलं त्वमरकण्टके ।। १९३.५६

तदेव निखिलं पुण्यं भृगुतीर्थे न संश्यः।
क्षरन्ति सर्वदानानि यज्ञदानतपः क्रियाः ।। १९३.५७

न क्षरेत्तु तपस्तप्तं भृगुतीर्थे युधिष्ठिरः।
यस्य वै तपसोग्रेण तुष्टेनैव तु शम्भुना ।। १९३.५८
सान्निध्यं तत्र कथितं भृगुतीर्थे नराधिप!।
प्रख्यातं त्रिषु लोकेषु यत्र तुष्टो महेश्वरः ।। १९३.५९

एवं तु वदतो देवीं भृगुतीर्थमनुत्तमम्।
न जानन्ति नरा मूढा विष्णुमाया विमोहिताः ।। १९३.६०

नर्म्मदायां स्थितं दिव्यं भृगुतीर्थं नराधिप!।
भृगुतीर्थस्य माहात्म्यं यः श्रृणोति नरः क्वचित् ।। १९३.६१

विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति।
ततो गच्छेत्तु राजेन्द्र! गौतमेश्वरमुत्तमम् ।। १९३.६२

तत्र स्नात्वा नरो राजन्नुपवासपरायणः।
काञ्चनेन विमानेन ब्रह्मलोके महीयते ।। १९३.६३

धौतपापं ततो गच्छेत् क्षेत्रं यत्र वृषेण तु।
नर्म्मदायां कृतं राजन्! सर्वपातकनाशनम् ।। १९३.६४

तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां विमुञ्चति।
तस्मिंस्तीर्थे तु राजेन्द्र! प्राणत्यागं करोति यः ।। १९३.६५

चतुर्भुजस्त्रिनेत्रश्च शिवतुल्यबलो भवेत्।
वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।। १९३.६६

कालेनमहता प्राप्तः पृथिव्यामेकराट् भवेत्।
ततो गच्छेच्च राजेन्द्र! ऐरण्डी तीर्थमुत्तमम् ।। १९३.६७
प्रयागे यत् फलं दृष्टं मार्कण्डेयेन भाषितम्।
तत् फलं लभते राजन्! स्नातमात्रो हि मानवः ।। १९३.६८

मासि भाद्रपदे चैव शुक्लपक्षे चतुर्दशी।
उपोष्य रजनीमेकां तस्मिन् स्नानं समाचरेत् ।। १९३.६९

यमदूतैर्न बाध्येत रुद्रलोकं स गच्छति।
ततो गच्छेत्तु राजेन्द्र! सिद्धो यत्र जनार्दनः ।। १९३.७०

हिरण्यदीपेति विख्यातं सर्वपापप्रणाशनम्।
तत्र स्नात्वा नरो राजन्! धनवान् रूपवान् भवेत् ।। १९३.७१

ततो गच्छेत्तु राजेन्द्र! तीर्थङ्कनखलं महत्।
गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ।। १९३.७२

प्रख्यातं त्रिषु लोकेषु योगिनी तत्र तिष्ठति।
क्रीडते योगिभिः सार्द्धं शिवेन सह नृत्यति ।। १९३.७३

तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते।
ततो गच्छेत्तु राजेन्द्र! हंसतीर्थमनुत्तमम् ।। १९३.७४

हंसास्तत्र विनिर्मुक्ता गता ऊद्‌र्ध्वं न संशयः।
ततो गच्छेत्तु राजेन्द्र! सिद्धो यत्र जनार्दनः ।। १९३.७५

वाराहं रुपमास्थाय अर्चितः परमेश्वरः।
वराहतीर्थे नरः स्नात्वा द्वादश्यान्तु विशेषतः ।। १९३.७६

विष्णुलोकमवाप्नोति नरकं न च पश्यति।
ततो गच्छेत्तु राजेन्द्र! चन्द्रदीर्थमनुत्तमम् ।। १९३.७७

पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते ।। १९३.७८

दक्षिणेन तु तीरेण कन्यातीर्थन्तु विश्रुतम्।
शुक्लपक्षे तृतीयायां स्नानं तत्र समारेत् ।। १९३.७९

प्रणिपत्य तु चेशानं बलिस्तेन प्रसीदति।
हरिश्चन्द्रपुरं दिव्यमन्तरिक्षे च दृश्यते ।। १९३.८०

शक्रध्वजे समावृत्ते सुप्ते नागरिके जने।
नर्मदा सलिलौघेन तरून् संप्लावयिष्यति ।। १९३.८१

अस्मिन् स्थाने निवासः स्यात् विष्णुः शङ्करमब्रबीत्।
दीपेश्वरे नरः स्नात्वा लभेद् बहु सुवर्णकम् ।। १९३.८२

ततो गच्छेत्तु राजेन्द्र! कन्यातीर्थे सुसङ्गमे।
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ।। १९३.८३

देवतीर्थं ततो गच्छेत् सर्वतीर्थमनुत्तमम्।
तत्र स्नात्वा तु राजेन्द्र! दैवतैः सह मोदते ।। १९३.८४

ततो गच्छेच्च राजेन्द्र! शिखि तीर्थमनुत्तमम्‍।
यत्तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ।। १९३.८५

अपरपक्षे त्वमायान्तु स्नानं तत्र समाचरेत्।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ।। १९३.८६

भृगुतीर्थन्तु राजेन्द्र! तीर्थकोटिर्व्यवस्थिता।
आकामो व सकामो वा तत्र स्नानं समाचरेत् ।। १९३.८७

अश्वमेधमवाप्नोति दैवतैः सह मोदते।
तत्र सिद्धिं परां प्राप्तो भृगुस्तु मुनिपुङ्गवः।
अवतारः कृतस्तत्र शङ्करेण महात्मना ।। १९३.८८