मत्स्यपुराणम्/अध्यायः २९१
मत्स्यपुराणान्तर्गतसम्पूर्ण विषयवर्णनम्।
सूत उवाच।
एतद्वः कथितं सर्वं यदुक्तं विश्वरूपिणा।
मात्स्यं पुराणमखिलं धर्मकामार्थसाधनम् ।। २९१.१
यत्रादौ मनुसंवादो ब्रह्मण्डकथनन्तथा।
सांख्यं शारीरकं प्रोक्तं चतुर्मुखमुखोद्भवम् ।। २९१.२
देवासुराणामुत्पत्तिर्मारुतोत्पत्तिरेव च।
मदनद्वादशी तद्वल्लोकपालाभिपूजनम् ।। २९१.३
मन्वन्तराणामुद्देशो वैन्यराजाभिवर्णनम्।
सूर्यवैवस्वतोत्पत्तिः बुधस्यागमनं तथा ।। २९१४
पितृवंशानुकथनं श्राद्धकालस्तथैव च।
पितृतीर्थप्रवासश्च सोमोत्पतिस्तथैव च।। २९१.५
कीर्तनं सोमवंशस्य ययातिचरितं तथा।
कार्तवीर्यस्य महात्म्यं वृष्णिवंशानुकीर्तनम् ।। २९१.६
भृगुशापस्तथा विष्णोर्द्दैत्यशापस्तथैव च।
कीर्तनं पुरुषेशस्य वंशो हौताशनस्तथा ।। २९१.७
पुराणकीर्तनं तद्वत् क्रियायोगस्तथैव च।
व्रतं नक्षत्रसंख्याकं मार्तण्डशयनं तथा ।। २९१.८
कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम्।
तडागविधिमाहात्म्यं पादपोत्सर्ग एव च ।। २९१.९
सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च।
तथानन्ततृतीया तु रसकल्याणिनी तथा ।। २९१.१०
आर्द्रानन्दकरी तद्वद्व्रतं सारस्वतं पुनः।
उपरागाभिषेकश्च सप्तमीस्नपनं पुनः ।। २९१.११
भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा।
अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् ।। २९१.१२
सप्तमी सप्तकं तद्वद्विशोक द्वादशी तथा।
मेरु प्रदानं दशधा ग्रहशान्तिस्तथैव च ।। २९१.१३
ग्रहस्वरूपकथनं तथा शिवचतुर्दशी।
तथा सर्वफलत्यागः सूर्यवारव्रतं तथा ।। २९१.१४
संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्।
षष्टिव्रतानां माहात्म्यं तता स्नानविधिक्रमः ।। २९१.१५
प्रयागस्य तु माहात्म्यं सर्वतीर्थानुकीर्तनम्।
पैलाश्रमफलं तद्वद्द्वीपलोकानुकीर्तनम् ।। २९१.१६
ततान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च।
भुवनानि सुरेन्द्राणां त्रिपुराधोषणं तथा ।। २९१.१७
पितृपिण्डदमाहात्म्यं मन्वन्तरविनिर्णयम्।
वज्राङ्गस्य तु संभूतिः तारकोत्पत्तिरेव च ।। २९१.१८
तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम्।
पार्वतीसम्भवस्तद्वत् तथा शिवतपोधनम्।। २९१.१९
अनङ्गदेहदाहस्तु रतिशोकस्तथैव च।
गौरी तपोवनं तद्वद्विश्वनाथप्रसादनम् ।। २९१.२०
पार्वती ऋषिसंवादस्ततैवोद्वाहमङ्गलम्।
कुमारसम्भवस्तद्वत् कुमारविजयस्तथा ।। २९१.२१
तारकस्य वधो घोरो नरसिंहोपवर्णनम्।
पद्मोद्भव विसर्गस्तु तथैवान्धक-घातनम् ।। २९१.२२
वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च।
प्रवरानुक्रमस्तद्वत् पितृगाथानुकीर्तनम् ।। २९१.२३
ततोभयमुखीदानं दानं कृष्णाजिनस्य च।
तथा सावित्र्युपाख्यानं राजधर्मास्तथैव च ।। २९१.२४
यात्रा निमित्तकथनं स्वप्नमङ्गल्यकीर्तनम्।
वामनस्य तु माहात्म्यं तथैवाथ वराहजम् ।। २९१.२५
क्षीरोदमथनं तद्वत् कालकूटाभिशासनम् ।। २९१.२६
प्रासादलक्षणं तद्वत् मण्डपानान्तु लक्षणम्।
कल्पानुकीर्तनं तद्वद् ग्रन्थानुक्रमणीं तथा ।। २९१.२७
तुला दानादि बहुशो महादानानुकीर्तनम्।
कल्पानुकीर्तनं तद्वत् ग्रन्तानुक्रमणीं तथा ।। २९१.२८
एतत्पवित्रमायुष्यमेतत्कीर्तिविवर्धनम्।
एतत्पवित्रं कल्याणं महापापहरं शुभम् ।। २९१.२९
अस्मात् पुराणादपि पादमेकं पठेत्तु यः सोऽपि विमुक्तपापः।
नारायणाख्यं पदमेति नूनमनङ्गवद्दिव्यसुखानि भुङ्क्ते ।। २९१.३०
समाप्तमिदं श्रीमत्स्यमहापुराणम्।
ॐ तत्सद् ब्रह्मार्पणमस्तु।