मत्स्यपुराणम्/अध्यायः २२४
राजधर्मवर्णने दानप्रयोगवर्णनम्।
मत्स्य उवाच।
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम्।
सुदत्तेनेह भवति दानेनोभयलोकजित् ।। २२४.१ ।।
न सोऽस्ति राजन्! दानेन वशगो यो न जायते।
दानेन वशगा देवा भवन्तीह सदा नृणाम् ।। २२४.२ ।।
दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम!
प्रियो हि दानवान् लोके सर्वस्यैवोपजायते ।। २२४.३ ।।
दानवानचिरेणैव तथा राजा परान् जयेत्।
दानवानेव शक्नेति संहतान् भेदितुं परान्।। २२४.४ ।।
यद्यप्यलुभ्धगम्भीराः पुरुषाः सागरोपमाः।
न गृह्णन्ति तथाप्येते जायन्ते पक्षपातिनः।। २२४.५ ।।
यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः।
न गृह्णन्ति तथाप्येते जायन्ते पक्षपातिनः।। २२४.६ ।।
अन्यत्रापि कृतं पुंसां दानं श्रेष्ठतमं परम्।
दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा ।। २२४.७ ।।
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः।
जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयं यो विबुधाधिवासः ।। २२४.८ ।।